________________ दायगदोस 2501 - अभिधानराजेन्द्रः - भाग 4 दायगदोस याचते, तत्तत्सर्वसाधवे दत्तमिति। ततः पर्यन्ते काञ्जिकमात्रमयाचि! वालिका भणति-तदपि साधवे दत्तमिति। ततः साऽभिनवश्राद्धिका रुष्टा रस्ती पुत्रिकामेवमपवदति-किमिति त्वया सर्व साधवेदत्तम् ? सा बूतेस साधुभूयो भूयो याचते, ततो मया सर्वमदाथि। ततः सा साधोरुपरि | कोपाऽऽवेशमाविशन्ती सूरीणामन्तिकमगमत् / च अकथच सकलमपि साधुवृत्तान्तं, यथा-भवदीयः साधुरित्थमित्थं मत्पुत्रिकायाः सकाशात् याचित्वा याचित्वा सर्वमोदनाऽऽदिकमानीतवानिति / एवं तस्या महता शब्देन वाथयन्त्यां शब्दश्रवणतः प्रातिवेशिकजनोऽन्योऽपि च परम्परया भूयान्मिलितो, ज्ञातच सर्वैरपि साधुवृत्तान्तः, ततो विदधति तेऽपि कोपावेशिनः साधूनामवर्णवादम्-नूनममी साधुवेषविडम्बिनश्वारभटा इव लुण्टाकाः, न साधुसद्वृत्ता इति / ततः प्रवचनावर्णवादापनोदाय सूरिभिस्तस्याः सर्वजनस्य च समक्षं स साधुनिर्भस्योपकरण च सकलमागृह्य वसतेर्निष्काशितः, तत एवं तस्मिन्निष्काशिते श्राविकाया: कोपः श्ममगमत् / ततः सूरीणामुक्तवतीक्षमाश्रमण ! भगवन् ! मा भन्निमित्तमेष निष्काश्यता, क्षमस्वैकं ममापराधमिति, ततो भूयोऽपि यथावत्साधुः शिक्षित्वा प्रवेशितः / सूत्रं सुगम, नवरम् (उड्डाहपओसचारभमा इति) लोके उड्डाहस्ततो लोकस्य प्रद्वेषभावतश्चारभटा इव लुण्टाका अमीन साधव इत्यवर्णवादः / यत एवं बालाद्विक्षाग्रहणे दोषाः, ततो बालान्न ग्राह्यमिति। संप्रति स्थविरदायकदोषानाहथेरो गलंतलालो, कंपणहत्थो पडिज वा देंतो। अपहु त्ति य अवियत्तं, एगयरे वा उभयओवा।।६११।। अत्यन्तस्थविरो हि प्रायो गलल्लालो भवति, ततो देयमपि वस्तु लालया खरण्टितं भवतीति तद्ग्रहणे लोके जुगुप्सा। तथा- कम्पमानहस्तो भवति, ततो हस्तकम्पनवशतो तद् वस्तु भूमौ निपतति / तथा च-षड्जीवनिकायविराधना, तथा-स्वयं वा स्थविरो ददत नियतेत, तथा च सति तस्य पीडा, भूम्याश्रितषड्जीवनिकायविराधना च। अपि च-प्रायः स्थविरो गृहस्याप्रभुरस्वामी भवति, ततस्तेन दीयमानेनाप्रभुरेष इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्य "अवियत्तं प्रद्वेषः स्यात्, सच एकतररिमन, साधौ, यद्वा-उभयोरपीति / मत्तोन्मत्तावाश्रित्य दोषानाहअवयास भाणभेओ, वमणं असुइ त्ति लोगगरिहा य। पंतावणं च मत्ते, वमणविवज्जा य उम्भत्ते / / 612 / / मत्तः कदाचिन्मत्ततया साधोरालिङ्गनं विदधाति, भाजनं वा भिनत्ति / यदा-कदाचित् पीतमासवं ददानो वमति, वमँश्च साधु, साधुपात्रं वा खरण्टयति / ततो लोके जुगुप्साधिगमी साधवोऽशुचयो ये मत्तादपीत्थं भिक्षां गृह्णन्तीति / तथा-कोऽपि मत्तो मदवशविह्वलतयारे मुण्ड ! किमत्राऽध्यात इति बुवन् घातमपि विदधाति, तत एवं यतो मत्तेऽवयासाऽऽदयो दोषाः, तस्मान्न ततो ग्राह्यम् / एत एवाऽऽलिङ्गनाऽऽदयो दोषा वमनवर्जा उन्मत्तेऽपि, तस्मात्ततो पि न ग्राह्यम्। संप्रति वेपितज्वरितावाश्रित्य दोषानाहवेवण परिसाडणया, पासे व छुभेज भाणभेओ वा। एमेव य जरियम्मि वि, जरसंकमणं व उड्डाहो // 613|| पितानु दातुः सकाशादिक्षाग्रहणे देयवस्तुनः परिशाटनं भवति। यद्वापाव साधुभाजनाद् बहिः स वेपितो देयं वस्तु क्षिपेत् / यद्वा-येन स्थाल्यादिना भाजनेन कृत्वा भिक्षामानयति तस्य भूमौ निपाते भेदः २फोटनं स्माता एवमेव ज्वरितेऽपि दोषा भावनीयाः। किंच-ज्वरिताद् महणे ज्वरसंकमणमपि साधोर्भवत्, तथा जनोड्डाहोयथा--अहो ! अमी आहारालम्पटाः, यदित्थं ज्वरपीडितादपि भिक्षा गृह्णन्तीति। अन्धगलत्कुष्ठावाश्रित्य दोषानाह-- उड्डाह कायपडणं, अंधे भेओ य पासछुहणं वा। तद्दोसी संकमणं, गलंतभिसभिन्नदेहे रा / / 614|| अन्धादिक्षाग्रहणे उड्डाहः, स चायम् अहो ! अमी औदारिका यदन्धादपि भिक्षां दातुमशक्नुवतो भिक्षां गृह्णन्तीति। तथा अन्धोऽपश्यन् पादाभ्यां भन्याश्रितषड़जीवनिकायघातं विदधाति। तथा-लोष्टाऽऽदौ स्खलितः सन भूमः निपतेत् / तथा-वसतिभिक्षादानायोत्पाटितहतगृहीतस्थाल्यादिभाजनमगा। तथा-स देयं वस्तु पार्चेभाजनबहिस्तात् प्रक्षिपेत्, अदर्शनात्। तस्मादन्धादपि न ग्राह्यम्। तथा त्वग्दोषिनि. किंविशिष्ट? इत्याह-गलितभृशभिन्नदेहे। अत्राऽऽर्षत्वाव्यत्यासेन पदयोजना। सा चैवम्-भृशमतिशयेन गलन् अर्द्धपक्वं रुधिरंच बहिर्वहन भिन्नश्च स्फुटितो देहो यस्य स तथा तस्मिन्, तदादिसंक्रमणे कुष्ठव्याधिसंक्रान्तिः स्यात, तस्माततोऽपि न गाह्यम्। संप्रति पादुकाऽऽरूढादिचतुष्टयदोषानाहपाउयदुरूहपडणं, बद्धे परियाव असुइखिंसा य। करछिन्नाऽसुइखिंसा, ते चिय पायम्मि पडणं च // 615 / / पादुकाऽऽरुढस्य भिक्षादानाय प्रचलतः कदाचिद्दुःस्थितत्वात् पतनं स्यात। लाथा-बद्ध दातरि भिक्षा प्रयच्छति परितापो दुःखं तस्य भवेत्। तथा-(असुइ त्ति) तत्राप्युत्सर्गाऽऽदौ जलेन तस्याशौचकरणासंभवात्, ततो भिक्षाग्रहणे लोके जुगुप्सा, यथा-अमी अशुचयो यदेतस्मादप्यशुचिपूतत्वात भिक्षामाददत इति / एवं छिन्नकरेऽपि भिक्षां प्रयच्छति लोके जुगुप्सा, तथा हस्ताभावेन शौचकरणासंभवात्। एतचोपलक्षणम्, तेन हस्ताभावे येन कृत्वा भाजने न भिक्षा ददाति / यद्वा-देयं वस्तु तस्य पतनमपि भवति। तथा च सतिषड्जीवनिकायव्याघातः। एत एव दोषाः पादेऽपि छिन्नपादेऽपि दातरि दृष्टव्याः, कैवलं पादाभावेन तस्य भिक्षादानाय प्रचलतः प्रायो नियमतः पतनं पातो भवेत्। तथा चसति भूम्याश्रितकीटिकाऽऽदिकसत्त्वव्याघातः। संप्रति नपुंसकमधिकृत्य दोषानाहआयपरोभयदोसा, अभिक्खगहणम्मि खोभणे नपुंसे / लोगदुगुंछा संका, एरिसया नूणमेए वि / / 616 / / नपुरक भिक्षां प्रयच्छति आत्मपरोभयदोषाः / तथाहि-नपुंसकाद भिक्षागहणेऽतिपरिचयो भवति, अतीव परिचयात् तस्य नपुंसकस्य साधोवां क्षोभी वेदोदयरूपः समुपजायते / ततो नपुंसक स्य साधुलिङ्गाऽऽद्यासेवनेन द्वयस्यापि मैथुनसेवया कर्मबन्धः, अभीक्ष्णग्रहणशब्दोपादानाच कदाचित् भिक्षाग्रहणे दोषाभावमाह, परिचयाभावात्। तथा लोके जुगुप्सा-यथैते नपुंसकादपि निकृष्टादिक्षामाददते इति, साधूनामप्युपरि जनस्य शङ्का भवति तस्माद् यथैतेऽपि साधवो नूनमीदृशा नप्सकाः।