________________ दामण्णग 2500 - अभिधानराजेन्द्रः - भाग 4 दायगदोस देवलोक गत्वा ततश्च्युत्त्वा सेत्स्यतीति ‘पचक्खाण' शब्दे उदाहरिष्यते) दामदुग न०(दामद्विक) मालाद्वये, भ०१६ श०६ उ०। स्था०। दामलिवि स्त्री०(दामलिपि) ब्राह्यया लिपेः सप्तदशे भेदे, स०१८ सम०। दामिली स्त्री०(द्राविडी) द्रविडदेशोद्भवायां तद्भाषानिबताया मन्त्रविशेषरूपायां विद्यायाम, सूत्र०२ श्रु०२०।। दामोअर पुं०(दामोदर) "नादियुज्योरन्येषाम्" ||8/4327 / / चूलिकापैशाचिकेऽप्यन्येषामाचार्याणा मतेऽनादौ वर्तमानस्य तृतीयोन / दामोदरो। प्रा०४ पाद। जीर्णदुर्गस्योत्तरदिशि गिरिद्वारे पञ्चमवासुदेवरय प्रतिमायाम्. ती०४ कल्प। दाय पं०(दाय) दा-कर्मणि घञ्। "विभागोऽर्थस्य पित्र्यस्य, पुत्रैर्यत्र प्रकल्पते / " इत्युक्ते पित्रादिसम्बन्धवति तदुपरमे तत्सम्बन्धवति पुत्राऽऽदिभिर्विभजनीय द्रव्ये, विवाहकाले जामात्रादिभ्यो देये धने च / भावे घञ् / वाचका पर्वदिवसाऽऽदौ दाने, ज्ञा०१ श्रु०२ अ०। कल्प०॥ सामान्यदाने च / न०। औ०। ज्ञा० भ०। 'दो' भावेघञ्। खण्डने, 'दैप्' करणाऽऽदौ घञ्। अम्बुनि, स्थाने, लये, सोल्लुण्ठनवाक्ये च। वाच०॥ दायग पुं०(दायक) दातरि, आचा०२ श्रु०१चू०१अ०७ उ०। प्रश्न०। दायगदोस पु०(दायकदोष) ग्रहणैषणायाः षष्ठे दोष, पिं०। अथ दायकद्वारं गाथाषट्केनाऽऽहबाले वुड्ढे मत्ते, उम्मत्ते वेविए य जरिए य। अंधेल्लए पगलिए, आरूढे पाउयाहिं च / / 603 / / हत्थें दुनियलबद्ध, विवज्जए चेव हत्थपाएहिं / तेरासि गुठिवणी बालवच्छ भुंजंति घुसुलंती॥६०४।। भजंती य दलंती, कंडंती चेव तह य पीसंती। पिंजंती रुवंती, कत्तंती पमद्दमाणी य॥६०५।। छक्कायवग्गहत्था, समणट्ठा निक्खिवित्तु ते चेव। ते चेवोगाहंती, संघटुंताऽऽरभंती य॥६०६।। संसत्तेण य दव्वेण लित्तहत्था य लित्तमत्ताय / उव्वत्तंती साहा-रणं व दितीय चोरिययं / / 607 / / पाहुडियं वठवंती, सपचवाया परं च उद्दिस्स। आभोगमणाभोगेण दलंती वजणिज्जा य॥६०८।। बालाऽऽदिका वर्जनीया इति क्रियायोगः / तत्र बालो जन्मतो वर्षाष्टकस्यान्तर्वर्ती १वृद्धःसप्ततिवर्षाणा, मतान्तरापेक्षया षष्टिवर्षाणां वा उपरिवर्ती 2, मत्तः पीतमदिराऽऽदिः 3, उन्मत्तो दृप्तो, ग्रहगृहीतो वा 4, वेपमानः कम्पमानशरीरः 5, ज्वरितो ज्वररोगपीडितः 6, अन्धश्चक्षुविफलः 7, प्रगलितो गलत्कुष्ठः८, आरुढः पादुकयोः काष्ठमयोपानहोः 6 / / 603 / / तथा हस्तेन्दुना करविषयकाष्ठबन्धनेन निगडेन च पादविषयलोहमयबन्धेन बद्धः 10, हस्ताभ्यां पादाभ्यां वर्जितश्छिनत्वात् 11-12, त्रैराशिको नपु-सक: 13, गुर्विणी आपन्नसत्त्वा 14, बालवत्सा स्तन्योपजीविशि-शुका 15, भुञ्जाना भोजनं कुर्वती 16, घुसुलन्ती दध्यादि मथ्नती 17 // 604 / / भर्जमाना चुल्ल्यां कमिल्लकाऽऽदि वनीपकादौ स्फोटयन्ती 18, दलन्तीऽरघट्टेन गोधूमाऽऽदि चूर्णवन्ती 16, कण्डयन्ती उदूखले तन्दुलाऽदिक छड्डयन्ती 20, पिषन्ती शिलायां तिलामलकाऽऽदि प्रमृज्जन्ती 21, पिञ्जन्ती पिजनेन्न रुताऽऽदिक विरलं कुर्वती 22, रुम्वन्ती कापस लोठिन्या लाठयन्ती 23, कृतन्ती कर्त्तनं कुर्वती 24, प्रमृद्गन्ती रुतं कराभ्यां पौनःपुन्येन विरल कुर्वती 25 / / 605 / / षट् कायव्यग्रहस्ता षट्-काययुक्तहरता 26, तथा श्रमणार्थ भिक्षामादाय तानेव षट् कायान् भूमौ निक्षिप्य ददती 27, तानेव षट्कायानवगाहमाना पादाभ्यां वालयन्ती 28, संघट्टयन्ती तनेव षट्कायान् शेषशरीरावयवेन च स्पृशन्ती 26, आरभमाणा तानेव षटकायान् विनाशयन्ती 30 / / 606 // ससंक्तेन दध्यादिना द्रव्येण लिप्तहस्ता खरण्टितहस्ता 31, तथा तेनैव द्रव्येण दध्यादिना संसक्तेन लिप्तमात्रा खरण्टितमात्रा 32, उद्वर्तयन्ती महत्पिठराऽऽदिकमुद्वर्त्य तन्मध्यादती 33. साधारण बहूनां सत्कं ददती 34, तथा चोरितं ददती 35 // 607 / अग्निकूराऽऽदिनिमित्तं मूलस्थाल्यामाकृष्य स्थगतिकाऽऽदी मुञ्चन्ती 36, सप्रत्यपाया संभाव्यमानापायदात्री 37, तथा विवक्षितसाधुव्यतिरेकेण परमन्य साध्वादिकमुद्दिश्य हटात् स्थापितं तद्ददती 38, तथा आभोगेन साधूनामित्थं न कल्पत इति परिज्ञाप्याप्यशुद्ध ददती 36, अथवा-अनाभोगेनाशुद्ध ददती 40, सर्वसंख्यया चत्वारिंशद्दोषाः / / इह मक्षिताऽऽदिद्वारेषु-'संसजि-मेहि वजं. अगारिहिएहिं पि गोरसदवेहि।" इत्यादिग्रन्थेन संसक्ता-ऽऽदिदोषाणामभिधानेऽपि यद् भूयोऽप्यत्र “संसत्तेण य दव्येण लित्तहत्था य लित्तमत्ता य। (607)" इत्याद्यभिधानं, तदशेषदायकदोषाणामेकत्रोपदर्शनार्थमित्यदोषः।६०० संप्रत्येतेषामेव दायकानामपवादमधिकृत्य वर्जनावर्जनवि भागमाहएएसि दायगाणं, गहणं के सिंवि होइ भइयव्वं / केसि वी अग्गहणं, तस्विवरीए भवे गहणं / / 606 / / एतेषां बालाऽऽदीनां दायकानां मध्ये केषाश्चिन्मूलत आरभ्य पञ्चविंशतिसंख्यानां ग्रहणं भजनीय कदाचित्तथाविधं महत्प्रयोजनमुद्दिश्य कल्प्यते, शेषकालं नेति / तथा केषाञ्चित्षट्कायव्यग्रहस्ताऽऽदीना पञ्चदशानां हस्तादग्रहणं भिक्षायाः,तद्विपरीते तु बालाऽऽदिविपरीतेषु दातरि भवेद् ग्रहणम्। संप्रति बालाऽऽदीनां हस्ताऽऽदेर्भिक्षाग्रहणे ये दोषाः संभवन्ति ते दर्शनीयाः, तत्र प्रथमतो बालमधिकृत्य दोषानाह का सड्डिग अप्पाहण, दिन्ने वन्नग्गहण पजंते। कंजियमग्गण दिण्णे, उड्डाहपओसचारभडा।।६१०।। काचिदभिनवा श्राद्धिका श्रमणेभ्यो भिक्षां दद्या इति निजपुत्रिकां (अप्पाहणं ति) संदिश्य भक्तं गृहीत्वा क्षेत्र जगाम, गतायां तस्यां कोऽपि साधुसंघाटको भिक्षामागतः, तया च बालिकया तस्मै तन्दुलौदनो वितीर्णः, सोऽपि च संघाटकमुख्यः साधुस्तां बालिका मुग्धतरामवगत्य लाम्पट्यतो भूयो भूय उवाच-पुनर्देहि पुनर्देहीति। ततस्तया समस्तोऽप्योदनो दत्तः। तत एवमुद्धृत्य धृततक्रदध्यादि--- कमपि।अपराहे च समागता जननी, उपविश्य भोजनाय भणिता च निज पुत्रिकादे हि पुत्रि ! मह्यमोदन मिति / साऽवोचत्-दत्तः समस्तोऽस्योदनः साधये / साऽब्रवीत्-शोभनं कृतवती, मुगान्न म देहि / सा प्राहमुद्गा अपि साधवे सर्वे प्रदत्ताः / एवं यद् यत् किमपि सा