________________ जाइ 1440- अभिधानराजेन्द्रः - भाग 4 जाइ वा? नो चेन्निःस्वभावताप्रसंगः, स्वरूपस्यैवाऽभावात् / अस्ति चेत्तर्हि तदेव सामान्यम् / यतः समानानां भावः सामान्यम् / विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव / अपि च-विशेषाणां व्यावृत्तिप्रत्ययहेतुत्वं लक्षणम् / व्यावृत्तिप्रत्यय एव च विचार्यमाणो न घटते। व्यावृत्तिर्हि विवक्षितपदार्थे इतरपदार्थप्रतिषेधः / विवक्षितपदार्थश्च स्वस्वरूपव्यवस्थापनमात्रपर्यवसायी कथं पदार्थान्तरप्रतिषेधे प्रगल्भते? न च स्वरूपसत्वादन्यत्तत्र किमपि, येन तन्निषेधः प्रवर्तते। तत्र च व्यावृत्तौ क्रियमाणायां स्वात्मव्यतिरिक्ता विश्वप्रयवर्तिनोऽतीतवर्तमानाऽनागताः पदार्थाः, तस्माद् व्यावर्तनीयाः / ते च नाज्ञातस्वरूपाव्यावर्तयितुं शक्याः। ततश्चैकस्यापि विशेषस्य परिज्ञाने प्रमातुः सर्वज्ञत्वं स्यात्। न चैतत्प्रातीतिकं, यौक्तिकं वा / ध्यावृत्तिस्तु निषेधः / स चाभावारूपत्वात्तुच्छः कथं प्रतीतिगोचरमञ्चति खपुष्पवत्। तथा येभ्यो व्यावृत्तिस्ते सद्रूपा असदूपा वा? असदूपाश्चेत्तर्हि खरविषाणात् किं न व्यावृत्तिः? सद्रूपाश्चेत्सामान्यमेव / या चेयं व्यावृत्तिर्विशेषः क्रियते सा सर्वासु विशेषव्यक्तिष्येकाऽनेका वा ? अनेका चेत्तस्या अपि विशेषत्वापत्तिरनेकरूपत्वैकजीवितत्वाद्विशेषाणाम्। ततश्च तस्या अपि विशेषत्वान्यथानुपपत्तेावृत्त्या भाव्यम् / व्यावृत्तेरपि च व्यावृत्तौ विशेषाणामभाव एव स्यात्, तत्स्वरूपभूताया व्यावृत्तेः प्रतिषिद्धत्वात्, अनवस्थापाताच / एका चेत्सामान्यमेव संज्ञान्तरेण प्रतिपन्न स्यादनुवृत्तिप्रत्ययलक्षणाऽव्यभिचारात्। किं घाऽमी विशेषाः / सामान्याद भिन्नाः अभिन्ना वा ? भिन्नाश्चेत् मण्डूकजटाभारानुकाराः / अभिन्नाश्चेत्तदेव तत्स्वरूपवत् / इति सामान्य कान्तवादः / पर्यायनयान्वयिनस्तुभाषन्तेविविक्ताः क्षणक्षयिणो विशेषा एव परमार्थः, ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वात्। न हि गवादिव्यक्त्यनुभवकाले वर्णसंस्थानात्मक व्यक्तिरूपमपहायाऽन्यत किंचिदेकमन्यायि प्रत्यक्ष प्रतिभासते; तादृशस्यानुभवाभावात्। तथा च पठन्ति"एतासु पञ्चस्ववभासिनीषु, प्रत्यक्षबोधे स्फुटमङ्गुलीषु। साधारणं रूपमवेक्षते यः, शृङ्ग शिरस्यात्मन ईक्षते सः॥१॥" एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एवोत्पद्यते। इति न तेन सामान्यसाधनं न्याय्यम् / किं च यदिदं सामान्य परिकल्प्यते, तदेकमनेकं वा? एकमपि सर्वगतमसर्वगतं वा? सर्वगतं चेत किं न व्यक्तयन्तरालेषूपलभ्यते? सर्वगतैकत्वाभ्युपगमे चतस्य यथा गोत्वसामान्यं गोव्वतीः क्रोडीकरोति। एवं किं न घटपटादिव्यक्तीरपि; अविशेषात्? असर्वगतंचेत् विशेषरूपापत्तिरभ्युपगमबाधश्चा अथाऽनेकं गोत्वाश्वत्वघटत्वपटत्वादिभेदभिन्नत्वात्ते तर्हि विशेषा एव स्वीकृताः, अन्योऽन्यं व्यावृत्तिहेतुत्वात् / न हि यगोत्वं तदशवत्वात्मकमिति / अर्थक्रियाकारित्वं च वस्तुनो लक्षणम्। तच विशेषेष्वेव स्फुट प्रतीयते। न हि सामान्येन काचिदर्थक्रिया क्रियते, तस्य निष्क्रियत्वात्, वाहदोहादिकास्वर्थक्रियासु विशेषाणामेवोपयोगात् / तथेदं सामान्य विशेषेभ्यो भिन्नमभिन्नं वा? भिन्नं चेदवस्तु, विशेषविश्लेषेणार्थक्रियाकारित्वाऽभावात् / अभिन्नं चेत् विशेषा एव तत् स्वरूपवत् / इति विशेषकान्तवादः / मैगमनयानुगामिनस्त्वाहुःस्वतन्त्रौ सामान्यवि-शेषौ, तथैव प्रमाणेन प्रतीतत्वात् / तथाहि-सामान्यविशेषावत्यन्तभिन्ना, विरुद्धधर्माध्यासितत्यात्।यावेवं तावेवं यथा पाथः पावको / तथा चैतौ।। तस्मात्तथा / सामान्यं हि गोत्वादिसर्वगतम्। तद्विपरिताश्च शबलशाबलेयादयो विशेषास्ततः कथमेषामैक्यं युक्तम् ? न सामान्यात् पृथक विशेषस्योपलम्भ इति चेत् कथं तर्हि तस्योपलम्भ इति वाच्यम् ? सामान्यव्याप्तस्येति चेत् न तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात् / ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्विशेषवाचकध्वनि तत्साध्यं च व्यवहार न प्रवर्तयेत् प्रमाता / न चैतदस्ति. विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात् / तस्माद् विशेषमभिलषत तत्र च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः। एक सामान्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको बोधो विविक्तोऽङ्गीकर्तव्यचः। तस्मात् स्वस्वग्राहिणि ज्ञाने पृथक् प्रतिभासमानत्वात् द्वावपीत तरविशकलितौ / ततो न सामान्यविशेषात्मकत्वं वस्तुनो घटते इति स्वतन्त्रसामान्य विशेषवादः / तदेतत्पक्षत्रयमपि न क्षमते क्षोद, प्रमाणबाधितत्वात् सामान्यविशेषोभयात्मक स्यै य च वस्तुनो निर्विगानमनुभूयमानत्वात् / वस्तुनो हि लक्षणमर्थक्रियाकारित्वम् : तच्चानेकान्तवादे एवाविकलं कलयन्ति परीक्षकाः / तथाहि-यथा गौरित्युक्तेखुर-ककुदसास्नालाइ गलविषाणाद्यवयवसंपन्नं वस्तु स्वरूप सर्वव्य-क्त्यनुयायि प्रतीयते तथा महिष्यादिव्यावृत्तिरपि प्रतीयते। यत्रापिच शबला गौरित्युच्यते तत्रापि यथा विशेषप्रतिभासस्तथा गोत्दप्रतिभासोऽपि स्फुट एव / शबलेति केवलविशेषणोचारणेऽपि अर्थात. प्रकरणात वा गोत्वमनुवर्तते / अपि च शबलत्वमपि नानारूपं, तथा दर्शनात् / ततो वक्ता शबलेत्युक्ते क्रोडीकृतसकलशबलसामान्य विवक्षितगोव्यक्तिगतमेव शबलत्वव्यवस्थाप्यते / तदेवमाबालगोपालं प्रतीतिसिद्धेऽपि वस्तुनः सामान्यविशेषात्मकत्वे तदुभयकान्तवादः प्रलापमात्रम् / न हि क्वचित्कदाचित्केनचित्सामान्य विशेषं विना कृतमनुभूयते / विशेषा वा तद्विना कृताः। केवलं दुर्णयप्रभावितमतिव्यामोहवशादेकमपलप्यान्यतरव्यवस्थापयन्ति बालिशाः। सोऽयम्अन्धगजन्यायः। येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्ता दोषास्तेऽपि अनेकान्तवादप्रचण्डमुद्ररप्रहारजर्जरितत्वान्नोच्छ्रसितुमपि क्षमाः। स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः-सामान्य प्रतिव्यक्ति कथश्चिदभिन्नं, कथंचित्तदात्मकत्वाद्विसदृशपरिणामवत् / यथैव हि काचिद् व्यक्तिरुपलभ्यमाना व्यक्त्यन्तराद्विशिष्टा विशदृशपरिणामदर्शनादवतिष्ठते तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति, तेन समानो गौरयं सोऽनेन समानः इति प्रतीतेः। न चास्य व्यक्तिस्वरूपादभिन्नत्वात् सामान्यरूपताव्याघातः। यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, न च तेषां गुणरूपताव्याघातः / कथंचिद् व्यतिरेकस्तु रूपादीनामिव सदृशपरिणामस्याप्यस्त्येव / पृथक् व्यपदेशादिभाक्त्वात् / विशेषा अपि नैकान्तेन सामान्यात् पृथर भवितुमर्हन्ति / यतो यदि सामान्यं सर्वगतं सिद्धं भवेत्तदा तेषामसर्वगतत्वेन ततो विरुद्धधर्माध्यासः स्यात् / न च तस्य तत्सिद्धम् प्रागुक्तयुक्त्या निराकृतत्वात्, सामान्यस्य विशेषाणां च कथंचिता. रस्पराव्यतिरेकेणकानेकरूपतया व्यवस्थितत्वात्। विशेषेभ्योऽव्यतिरिक्तत्वाद्वि सामान्यमप्यनेकमिष्यते / सामान्यात्तु विशेषाणाभव्यति. रेकेण तेषामप्येकरूपता इति / एकत्वं च सामान्यस्य संग्रहनयार्पणात सर्वत्र विज्ञेयम्, प्रमाणार्पणात्तस्य सदृशपरिणामरूपस्य विसदृशपरि..