________________ 1436 - अभिधानराजेन्द्रः - भाग 4 जाइ न्यं विलक्षणः पर्यायः स विशेषः / स च सामान्यरूपो विशेषरूपश्च पर्यायस्ततो वस्तुनोऽनन्तरमभिन्नः, कथञ्चित्तु पररूपतादिभिभित्रोऽपि न त्वेकान्तेनाभिन्नो भिन्नो वेति द्रष्टव्यमिति / तदेवमुक्तो नैगमनयः // 2202 / / अथ संग्रहनयं व्याचिख्यासुराहसंगहणं संगिण्हइ, संगिज्झंते व तेण जं भेया। तो संगहो त्ति संगहि-य पिंडियत्थं वओ जस्सा / / 2203|| संग्रहण सामान्यरूपतया सर्ववस्तूनामाक्रोडनं संग्रहः / अथवासामान्यरूपतया सर्व संगृह्णातीति संग्रहः / अथवायद्यस्मात्सर्वेऽपि भेदाः सामान्यरूपतया संगृह्यन्तेऽनेनेति संग्रहः / संग्रहीतं च तत्पिण्डितं च संगृहीतपिण्डित, तदेवार्थोऽभिधेयं यस्य तत्संग्रहीतपिण्डितार्थम् / एवंभूतं वचो वचनं यस्य संग्रहस्येति॥२२०३।। तत्र संगृहीतपिण्डितार्थं, किमुच्यते? इत्याहसंगहियमागहीयं, संपिडियमेगजाइमाणीयं / संगहियमणुगमो वा, वइरेगो पिंडियं भणियं // 2204 / / अहव महासामन्नं, संगहियं पिंडियत्थमियरंति। सव्वविसेसाणन्नं,सामन्नं सव्वहा भणियं / / 2205 / / सामान्याऽभिमुखेनाऽऽग्रहणमागृहीतुं संग्रहीतमुच्यते, पिण्डितं त्वेकजातिमानीतमभिधीयते, तदेवंभूतं वस्तु अर्थोऽभिधेयं यस्य तत्संगृहीतपिण्डितार्थ वचनं संग्रहनयस्येति स्वयमेव द्रष्टव्यम्। अथवासंगृहीतमनुगमोऽभिधीयते, सर्वव्यक्तिष्वनुगतस्य सामान्यस्य प्रतिपादनमित्यर्थः / व्यतिरे कस्तु पिण्डितमुच्यते / विशेषप्रतिपादकपरमतनिराकरणमित्यर्थः / ततश्च संगृहीतपिण्डितार्थमनुगमव्यतिरेकार्थ संग्रहवचनमिति दृश्यम्॥२२०४॥ अथवा-सत्तास्यं महासामान्य संगृहीतमुच्यते, इतरतु गोत्वादिकमवान्त-रसामान्य पिण्डितार्थमभिधीयते / ततः संगृहीतपिण्डितार्थ परा-परसामान्यार्थ संग्रहवघः। किं बहुनोक्तेन? सर्वे विशेषा अनन्या अभिन्ना यस्य तत्सर्वविशेषानन्यम्।अतः क्रोडीकृतसर्वविशेष सामान्यमेव सर्व प्रकारैः संग्रहवचन स्याऽभिधेयतया भणितमिति॥२२०५|| कथंभूतं पुनः सामान्यं संग्रहो मन्यते? विशेषाँस्तु कुतोऽसौ नाभ्युपगच्छति ? इति दर्शनार्थमाहएवं निचं निरवयव-मक्कियं सव्वगं च सामन्नं / निस्सामन्नत्ताओ, नऽत्थि विसेसो खपुष्पं व // 2206 / / एकं सामान्यम्, सर्वत्र तस्यैव भावात्, विशेषाणां चाभावात्; तथानित्यं सामान्यम्, अविनाशात्; तथा-निरवयवम्, अदेशत्वात्; अक्रि यं, देशान्तरगमनाभावात; सर्वगत च सामान्यम्, अकि यत्वादिति। विशेषास्तु न सन्ति, निःसामान्यत्वात्। सामान्यव्यतिरेकिणां तेषामभावात्। इह यत्सामान्यातिरिक्तं तन्नास्ति, यथा खपुष्पमिति // 2206 // एतदेव समर्थयतिसदिति भणियम्मि जम्हा, सव्वत्थाणुप्पवत्तए वुद्धी। तो सव्वं सम्मत्तं, नऽत्थि तदत्थंतरं किंचि // 2207 // यस्मात् सदित्येवंभणिते सर्वत्र भुवनत्रयान्तर्गते वस्तुनिबुद्धिरनुप्रवर्तते प्रधावति। न हि तत्किमपि गस्त्यस्ति। यत्सत् इत्युक्ते झगिति बुद्धौ न प्रतिभासते। ततस्तस्मात्सर्वं तन्मात्रमेव सत्तामात्रमेव, न तदर्थान्तरं किञ्चिदस्ति यद्विशेषतया कल्पेत इति // 2207 / / __ सत्तामात्रत्वमेव सर्वभावानां भावयन्नाहकुंभो भावाणन्नो, जइ तो भावो अहन्नहाऽभावो। एवं पडादओ विहु, भावाणन्न त्ति तम्मत्तं / / 2208|| कुम्भो घटः स भावात् सत्तातोऽन्यः, अनन्यो वा? यद्यऽनन्योऽ-भिन्नः, तर्हि भावः सत्तामात्रमेवाऽसौ (अहन्नह त्ति) अथान्यथाभावाद्भिन्नोऽभ्युपगम्यत इत्यर्थः, तहभावोऽसन्नेवासी, भावादन्यत्वात्, खरविषाणवदिति / एवं पटादयोऽपि प्रत्येकं वाच्याः / ततस्तेऽपि द्वितीयपक्षेऽसत्त्वप्रसंगाद् भावादनन्येऽभ्युपगन्तव्याः, इति सर्वमेव घटपदादिक वस्तु तन्मात्रं सत्तामात्रमेवेति॥२२०८।। अथवा-अयमेवार्थोऽन्यथाऽभिधीयचते। कथम्? इत्याहतम्मत्तमिह विसेसो, सामन्नं पिव पमेयभावाओ। सव्वत्थ सम्मईओ, वभिचाराभावओ वा वि॥२२०६।। तन्मात्रमिह विशेषा इति प्रतिज्ञा, प्रमेयत्वात्, सामान्यवत्। अथवा-- अन्यो हेतुः-सर्वत्र सन्मतेर्व्यभिचाराभावात्। सर्वत्र सन्मतिप्रवृत्तेरित्यर्थः / इति / / 2206 / / प्रकारान्तरेणापि विशेषाणां सामान्यरूपता साधयितुमाहचूओ वणस्सइ चिय, मूलाइगुणो त्ति तस्समूहो व्व। गुम्माओ वि एवं, सव्वे ण वणस्सइविसिट्ठा // 2210 / / चूतो वनस्पतिःसामान्यरूप एव, मूलादिगुणत्वात्, तत्समूह-वत्चूतादिवृक्षसमूहवत्। गुल्मो लतासमूहः, तदादयोऽपि सर्व वृक्षविशेषा वनस्पते रविविशिष्टा एव, इति सामान्यमेवास्ति, न विशेषा इति // 2210|| किंचसामन्नाउ विसेसो, ऽन्नोऽणन्नो व नत्थि जइ अन्नो। निस्सामन्नत्ताओ,ऽणन्नो सामन्नमेत्तं सो॥२२११।। सामान्याद्विशेषोऽन्यः, अनन्यो वा? यद्यन्यः, तर्हि नास्त्यसौ, सामान्यबहिर्भूतत्वात्, खरविषाणवत् / अथ अनन्यः तर्हि सामान्यमात्रमेवासौ, तत्स्वरूपवदिति।तदेवमुक्तः संग्रहः / / 2211 / / विशेषण एके तीर्थिकाः सामान्यरूपमेव वाच्यतया अभ्युपगच्छन्ति। ते च द्रव्यास्तिकनयानुपातिनो मीमांसकभेदाः अद्वैतवादिनः सांख्याश्च / केचिव विशेषरूपमेवं वाच्य निर्वचन्ति। तेच पर्यायास्तिकनयानुसारिणः सौगताः। अपरेच-परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्यते। ते च नैगमनयानुरोधिनः काणादाः, अक्षपादाश्च / एतच पक्षत्रयमपि किञ्चिचर्यते / तथाह-संग्रहनयावलम्बिनो वादिनः प्रतिपादयन्तिसामान्यमेव तत्त्वं, ततः पृथग्भूतानां विशेषाणामदर्शनात्। तथा सर्वमेकमविशेषेण सदिति ज्ञानाऽभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वात्। तथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां धर्माऽधर्माऽऽकाशकालपुद्गलजीवद्रव्याणामनुपलब्धेः / किं च ये सामान्यात् पृथग्भूता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते, तेषु विशेषत्वं विद्यते न