________________ जाइ 1438- अभिधानराजेन्द्रः - भाग 4 जाइ गमनयः, जैनसाधुवत् / न हि जैनसाधवोऽपि द्रव्यपर्यायोभयरूपाद वस्तुनोऽन्यत् किञ्चिदिच्छन्ति / तत्किमित्यसौ मिथ्यात्वभेदः? इति // 2163 / / अत्रोत्तरमाहजं सामन्नविसेसे, परोप्परं वत्थुओ य सो भिन्ने / मन्नइ अच्चतमओ, मिच्छादिट्ठी कणादो व्य / / 2164|| दोहिं वि नएहिँ नीयं, सत्थमुलूएण तह वि मिच्छत्तं / जं सविसयप्पहाण-तणेण अन्नोन्ननिरवेक्खा।।२१६५|| यद् यस्मात् सामान्यविशेषौ नैगमनयः परस्परमत्यन्तभिन्नौ मन्यते. वस्तुनोऽप्याधारभूतात् द्रव्यगुणक र्मपरमाणुरूपादत्यन्तभिन्नी स तायिच्छति: जैनसाधवस्तु परस्परं स्वाधारास कथंचिदेव तो भिन्नाविच्छन्ति, अतो मिथ्यादृष्टिरेवाय, कणादवदिति / / 2164 // तथाहि-द्वाभ्यामपि द्रव्यपर्यायास्तिकनयाभ्यां सर्वमपि निज शास्त्रनीतं समर्थितमुलूकेन तथाऽपि तन्मिथ्यात्वमेव यद्यस्मात्स्वस्वविषयप्राधान्याभ्युपगमेनोलूकाऽभिमतौ द्रव्यपर्यायास्तिकनयावन्योऽन्यनिरपेक्षा जैनाभ्युपगतो पुनस्तौ परस्परसापेक्षौ, स्याच्छब्दलाञ्छितत्वादिति // 2165 // अथ सिद्धान्तवादी स्थितपक्षदर्शनार्थमेकान्तवादिनं नैगम दूषयितुमाहजइ सामन्नं सामन्न बुद्धिहेउत्ति तो विसेसो वि। सामन्नमन्नसाम-नवुद्धिहेउ त्ति को भेओ? // 2166|| यदि गौ:गौः इत्यादिसामान्यबुद्धिवचनहेतुरितिकृत्वा सामान्य त्वयेष्यते,हन्त ! तर्हि परमाणुगतोऽन्त्यो विशेषोऽपि सामान्यं प्राप्नोति, विशेषो विशेष इत्यन्यसामान्यबुद्धिवचनहेतुत्वात् / न च विशेषष्वपि सामान्यमस्ति, द्रव्यगुणकर्मस्वेव तद्वत्यभ्युपगमाद। अथवागोत्वगजत्वादिको विशेषोऽपि सामान्य प्राप्नोतिगोत्वगजत्वादिसामान्येष्वऽपि सामान्यं प्राप्नोतीत्यर्थः / सामान्य सामान्यमिति बुद्धिवचनयोस्तत्रापि प्रवृत्तेः / न च सामान्येष्वपि सामान्यमस्ति "निःसामान्यानि सामान्यानि" इति वचनात्। ततश्चोक्तयुक्तेर्विशेषस्यापि सामान्यत्वात् को भेदः सामान्यविशेषयोः? न कश्चिदित्यर्थः इति // 2166|| सामान्यस्यापि च विशेषरुपता प्राप्नोतीत दर्शयन्नाह-- जइ जे ण विसेसिज्जइ, सविसेसो तेण जं पि सामण्णं / तं पि विसेसोऽवस्सं, सत्ताइविसेसयत्ताओ॥२१६७।। यदि येन वस्तुना बुद्धिर्वचनं च विशेष्यते स विशेष उच्यते, तेन ततो यदपि परमपरं च सत्ता गोत्वादिकं सामान्यं तदपि विशेषः प्राप्नोति, कुतः? सत्तादीनामपि विशेषकत्वात्, तथाहि- सत्ता-सामान्यमपि गोत्वादिभ्यो बुद्धिवचने विशेषयति, गोत्वादयोऽपि च सत्तादिभ्यस्ते विशेषयन्त्येव, प्रयोगः-सामान्यमपि विशेष एव, बुद्धिवचनविशेषकत्वात्, अन्त्यविशेषवदिति। तदेवं 'विशेषोऽपि सामान्यम्, सामान्यमपि विशेषः प्राप्नोतीत्युक्तम् / / 2167|| किं च--"त्रिपदार्थसत्करी सत्ता" इति वचनात्सत्तासमवायात्सत्त्वं भवताऽभ्युपगम्यते तच्चायुक्तम्। कुतः? इत्याह सत्ताजोगादसओ,सओ व सत्तं हवेज दव्वस्स। असओन खपुप्फस्स, वसओ व किं सत्तया कजं? ||2168 यत्सत्तायोगाद्वस्तुनः सत्त्वमिष्यते तत्स्वरूपेण किंसतोऽसतो वा भवेत्? इति वक्तव्यम्। न तावदसतः खपुष्पस्येव सत्त्वं युज्यते। यदि तु स्वरूपेणैव सदस्तु, तर्हि सत्तया किं कार्यम्? तामन्तरेणापि स्वरूपेणैव वस्तुनः सत्त्वादिति // 2168 // अपि चपइवथु सामन्नं, जइ तोऽणेगं न यावि सामन्नं / अह दव्वेसु तदेगं, तह विसदेसं न सामन्नं / / 2166 / / यदि तत्सामान्य प्रतिवस्तु वर्तते तर्हि नैकम्, प्रतिवस्तुवृत्तित्वाद्. प्रतिवस्तुरवात्मवत् / यदि वा-न तत्सामान्य प्रतिवस्तुवृत्तित्वात्, प्रतिवस्तुस्वात्मवत् / अथ बहुषु द्रव्येषु वृत्तमपि तदेकं तथाऽपि सदेश प्राप्नोति,अदेशस्य परमाणोरिव बहुषु वृत्तियोगात्। सदेशत्वे च सति न सामान्यं, देशभेदे देशिनोऽपि तदव्यतिरिक्तस्य भेदादिति / / 2166 / / अथ प्रतिवस्तु वर्तमानमपि तदेकमिष्यते तथापि दोष इति दर्शयन्नाहअह पइवत्थुमिहेगं,च तह वितं नत्थि खरविसाणं च / न य तदुबलक्खणं तं, सव्वगयत्तओ खं व // 2200 / / अथ प्रतिवस्तु वर्तते तत्,एकं चेष्यते, तथापि तन्नास्ति, अनुपलभ्यमानत्वात्, खरविषाणवत् / न च तस्य स्वाश्रयभूतस्य गवादेरुपलक्षणमुपलक्षकं तद् युज्यते, सर्वगतत्वात, गणादिव्यक्तिभ्योऽन्यत्वाच, आकाशवदिति // 2200 / / किंचसामन्नविसेसकयं, जइ नाणं तेसु किं निमित्तं तो। अह तत्तो चिय तम्हा, तं परहेउ त्ति ऽणेगंतो / / 2201 / / यदि गोर्गारित्यादि सामान्यज्ञानं वचनं च सामान्यहेतुकं प्रवर्तत, तथा परमाणुष्वयमस्माद्विशिष्ट इति विशेषज्ञानं वचनं च यदि विशेषकृतम, ततस्तेषु गोत्वतुरगत्वादिसामान्येषु सर्वत्र सामान्य सामान्यमिति ज्ञानं वचनं च तथा तेषु विशेषेषु सर्वत्र विशेषो विशेषः इति विशेषबुद्धिर्वचनं च किं निमित्तमिति वक्तव्यम्? न च सामान्येष्वपि सामान्यमस्ति, नापि विशषेष्वन्ये विशेषाः सन्ति,येन तेषु तन्निमित्ते ते स्याताम्। अथ तत एव तेभ्य एव गोत्वादिसामान्येभ्योऽपरसामान्यमन्तरेणापि सामान्यज्ञानवचनेऽभ्युपगम्येते, विशेषेभ्य एव चान्यविशेषनिरपेक्षेभ्यो विशेषज्ञानवचने इष्येते, तस्मात् तर्हि तत्सामान्य विशेषज्ञानं वचनं च परहेतुकं सामान्यविशेषनिमित्तमेवेति नायमेकान्तः, सामान्यविशेषविषयाभ्यामेव सामान्यविशेषज्ञानवचनाभ्यां व्यभिचारादिति। 2201 / / अथ सिद्धान्तवादी स्थितपक्षमुपदर्शयन्नाह-- तम्हा वत्थूणं चिय, जो सरिसो पज्जवो ससामन्नं / जो विसरिसो विसेसो, समओ ऽणत्थंतरं तत्तो / / 2202 / / तरमाद्वस्तूनामेव गवादीनां खुरक कुदलाङ्ग लविषाणसास्नादिमत्त्व लक्षणों यः सदृशः पर्यायः स एव सामान्य , न पुनरे कनित्यनिरवयवाऽक्रियसर्वगतत्वादिधर्मोपेतं पराभ्युपगतम् / यस्तुतेषामेव गवादीनां शाबलेवधावलेयत्वादिको पिसदृशोऽन्योऽ