SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जाइ 1437 - अभिधानराजेन्द्रः - भाग 4 जाइ जाइ स्त्री०(जाति) जनवं जातिः / उत्त०३ अ०। आचा०। जन् तिन् / जन्मनि, "जाईजरामरणबंधणविप्पमुक्का'' प्रज्ञा०२ पद / ल०। आचा०। आव०) सूत्रका स्था०''जाइं च मरण च जणोववायं / ' जातिमुत्पत्तिं नारकतिर्यड्मनुष्यामरजन्मलक्षणां च / सूत्र०१ श्रु०१२ अ०। जातिर्वारकादिषु प्रसूतिरिति / विशे०। जायन्ते जन्तवोऽस्यामिति जातिः। उत्त०३ अ०। अनुगतैकाकारबुद्धिजननसमर्थे अवयवव्यङ्गये सकृदुपदेशगम्ये च धर्मभेदे, यथा गोत्वमनुष्यत्वादि ब्राह्मणत्वशूद्रत्वादि च / वाचा एकेन्द्रियादीनामेकेन्द्रियत्वादिरूपसमानपरिणतिलक्षण-मेकेन्द्रियादिशब्दव्यपदेशभाक् यत्सामान्य सा जातिः / उक्तंच-अव्यभिचारिणा सादृश्येनैकीकृतोऽर्थात्मा जातिरिति / कर्म०१कर्म०। प्रज्ञा०। पं०सं० "जाइकुलरूवलक्खणं'(४५) जातिः पुरुषत्वादिकेति। सम्म०१ काण्ड। जातिरेकेन्द्रियादिः। स्था०६ ठा०। आचा०। एकेन्द्रिय-द्वीन्द्रियत्वादिकाजातिरिति / आचा०१ श्रु०४ अ०२उ०। जातिगुणवन्मातृकत्वम् / स्था०४ठा०२०। मातृसमुत्था जातिरिते। सत्र०६U०१३ अ०/उत्तापं०चु०। कल्पा औ०। आचा०| स्था०। जातिर्मातृकी पित्रादिका वा। प्रव०१६५ द्वार। जातिर्मातृ-पक्षः ब्राह्मणादिका वा। तं०। जातयः क्षत्रियाद्याः इति / उत्त०३ अ०। सत्ता सामण्णं पिय,सामण्णविसेसया विसेसोय (2423) सामान्य त्रिविधिम् / तद्यथा-सत्ता१, सामान्यं२, सामान्यविशे–वश्व इति / तत्र द्रव्यगुणकर्मलक्षणेषु त्रिषु पदार्थेषु सद्बुद्धिहेतुः सत्ता 1 / सामान्य द्रव्यत्वगुणत्वादि 2 / सामान्यविशेषस्तु पृथ्वीत्वजलत्वकृष्णत्वनीलत्वाद्यवान्तरसामान्यरूप इत्यादि 3 / अन्ये त्वित्थं सामान्यस्य त्रैविध्यमुपवर्णयन्ति- अविकल्पं महा सामान्यम् 1 / त्रिपदार्थसद्बुद्धिहेतुभूता सत्ता 2 / सामान्यविशेषो द्रव्यत्वादि 3 / नहासामान्यसत्तयोर्विशेषणव्यत्यय इत्यन्ये / द्र-व्यगुणकर्मपदार्थत्रयसद्बुद्धिहेतुः सामान्यम्। अविकल्पा सत्तेत्यर्थः। सामान्यविशेषस्तुद्रव्यत्वादिरूप एव इत्यल प्रसङ्गेन इति। विशेषश्चान्त्यः। विशे०। सामान्य विशेषाँश्चायमभ्युपगच्छति, अतः कथंभूतस्ता निच्छति? इत्याहसामन्नमन्नदेव हि, हेऊ सामन्नबुद्धिवयणाणं। तस्स विसेसो अन्नो, विसेसमइवयणहेउ त्ति // 2156 / / सामान्य विशेषेभ्योऽन्यदेव हेतुश्च तत्सदिति सामान्यबुद्धेः सामान्यवचनस्य च / तस्मादपि सामान्यादन्योऽभिन्न एव नित्यद्रव्यवर्ती अन्त्यो विशेषः / स च हेतुर्विशेषो विशेष इति मतेर्वचनस्य च। प्रयोगो-भिन्नौ परस्परं सामान्याविशेषाँ, भिन्नकार्यत्वात्, घटपटादिवदिति // 2186 // न केवलं सामान्यविशेषौ नैगमः परस्परं भिन्नौ मन्यते, किं तु स्वाश्रयादापे गोपरमाण्वादेस्तयोर्भेदमेवायमिच्छतीति दर्शयन्नाह-. सदिति भणिए ऽभिमन्नइ, दव्वादत्थंतरं ति सामन्नं / अविसेसओ मईए सव्वत्थाणुप्पवित्तीए॥२१६०।। सदिति यतो "द्रव्यगुणकर्मसु सा सत्ता'' इति वचनात् / सत्तासमवायादेव परस्परविलक्षणेषु द्रव्यगुणकर्मसु सदित्येकाकारा बुद्धिः प्रवर्तते. अतः सदिति भणिते द्रव्यादिभ्योऽर्थान्तरमेष सामान्यं मन्यते नैगमः / कुतः ? इत्याह-सदित्य विशेषितमतेर्वचनस्य च सर्वत्र द्रव्यगुणकर्मस्वन्योऽन्यमतिविलक्षणेष्वपि अविशेषेण प्रवृत्तेः / इदमुक्त भवति-यदि सत्तासामान्यं द्रव्यादिभ्योऽभिन्नं स्यात् तदा द्रव्यादिवत्तस्यापि भिन्नत्वात्ततः सर्वत्र सदित्यभिन्ना बुद्धिर्न स्यात् / न हि भिन्नादभिन्नबुद्धिप्रसवो युज्यते, घटस्तम्भादिभ्योऽपि तत्प्रसङ्गाद्। तस्माद् भिन्नेष्वभिन्नबुद्ध्यन्यथानुपपत्तेर्द्रव्यादिभ्योऽर्थान्तरमेव सामान्यमिति // 2160 // गोत्यादिसामान्यं तर्हि कथंभूतम्? इत्याहगोत्तादओ गवाइसु, नियया धाराणुवित्तिबुद्धीओ। परओ य निवित्तीओ, सामन्नविसेसनामाणो॥२१९१।। गोत्वगजत्वादयस्तु गोगजाद्याश्रयवृत्तयः सामान्यविशेषनामनो मन्तव्याः / कुतः? इत्याह-निजकाधारेषु गोगजादिष्वनुवृत्तिबुद्धितःअनुगताकारबुद्धिहेतुत्वात्सामान्यनामानः, परतस्तु तुरगमहिषादेर्निवृत्तितो निवर्तनाद्विशेषनामानः / तेऽपिच गोत्वादयो भिन्नेष्वभिन्नबुद्धिहेतुत्वात् स्वाश्रयाद्भिन्ना एवास्य मतेन मन्तव्या इति / तदेवं निरूपितं सामान्यम्॥२१६१।। अथ विशेषस्वरूपनिरूपणार्थमाहतुल्लागइगुणकिरिए-गदेसतीयागए ऽणुदव्वम्मि। अन्नत्तबुद्धिकारण-मंतविसेसो त्ति से बुद्धी॥२१६२।। आकृतिश्च गुणाश्च क्रिया च आकृतिगुणक्रियाः, तुल्या आकृतिगुणक्रिया यस्य तत् तुल्याकृतिगुणक्रियम्, अतीतमतिक्रान्तमपगतम.आगतं तु प्रतीतम्, अतीतं च तदागतं च अतीतागतम्, एकदेशादतीतागतमेकदेशातीतागतम्, तुल्याकृतिगुणक्रियं च तदेकदेशातीतागतं च तथा तरिम स्तुल्याकृतिगुणक्रियैकदेशतीतागते परमाणुद्रव्ये अयमस्यादन्यः परमाणुरित्येवंभूतायाः योगिनामन्यत्वबुद्धेर्यः कारणं हेतुर्भवति सोऽन्त्यो विशेष इति। (से) तस्य नैगमस्य बुद्धिरभिप्रायः / इदमुक्तं भवति-परिमण्डलसंस्थानाः सर्वेऽपि परमाणव इति वैशेषिकाः। ततस्तेषु तुल्याकृतिष्वपि सर्वेषु परमाणुषु भिन्नाः, एतेन त्वभिन्ना इत्येवं येयं परस्परमन्यत्वग्राहिका योगिनां वुद्धिरुत्पद्यते तद्धेतुभूतः परमाणुद्रव्यवर्ती अन्त्यो विशेष उच्यते / यथाभूता हि प्रथमेऽणौ विशेषान तथाभूता एव द्वितीये, यथाभूताश्च द्वितीयेन तथाभूता एव प्रथम, अन्यथैकत्वप्रसङ्गात् इतीह भावार्थः / तथा पार्थिवा अणवःसर्वे ऽपि परस्परं तुल्यगुणाः। तथा-अणुमनसोराद्य कर्मादृष्टकारितम्, यथा अग्नेरुव॑ज्वलनम्, वायोस्तिर्यग्गमनमिति / सर्वेऽप्यणवस्तुल्यक्रिया H / तथा-एक-स्मादाकाशदेशादाकाशप्रदेशाद् यदैवैकः परमाणुः स्थितिक्षया-दत्येति। अन्यत्र गच्छति-तदैव यदाऽन्यः परमाणुस्तत्स्थित्यु-द्भवात्तत्रैवाकाशप्रदेशे समागत्य तिष्ठति, तदा एकदेशातीताऽऽगत-त्वम् / अत एवं वैशेषिकप्रक्रियया तुल्याकृतिषु, तुल्यगुणेषु, तुल्यक्रियेषु,एकप्रदेशनिर्गतागतेषु च, परमाणुद्रव्येषु यदन्यत्वबुद्धेः कारणं सोऽन्त्यो विशेष इति (से) तस्य नैगमस्य बुद्धिः। स चाकृत्यादिना तुल्येष्वतुल्यबुद्धिहेतुत्वादणुभ्यो भिन्न एवेति / / 2162 / / एवं सामान्यविशेषेषु प्ररूपितेषुपरः प्राहनणु दव्वपज्जवट्ठिय-नवावलंवि त्ति नेगमो चेव। सम्मविट्ठी साहु, व्व कीसमिच्छत्तभेओऽयं ? ||2163 / / आह-नन्वेवं सति यत्सामान्यं तद्रव्यम्, विशेषास्तुपर्यायाः,ततो द्रव्यपर्यायास्तिकनबद्धयमतावलम्बित्वात् सम्यग्दृष्टिरेवायं नै
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy