________________ जाइ 1441 - अभिधानराजेन्द्रः - भाग 4 जाइ णामवत्कथाञ्चित्प्रतिव्यक्ति भेदात्। एवं चासिरु सामान्यविशेषयोः सर्वथा विरुद्धधर्मासितत्वम्। कथञ्चिद्विरुद्धधर्माध्यासस्य कथञ्चिम्देदाविनाभूतत्वात्। पाथः पावकदृष्टान्तोऽपि साध्यसाधनविकलः, तयोरपि कथंचिदेव विरुद्धधर्माध्वासितत्वेन भिन्नन्वेन च स्वीकरणात्। पयस्त्वपावकत्वादिना हि तयोर्विरुद्धधर्माध्यासो भेदश्च, द्रव्यत्वादिना पुनस्तद्विपरीतमिति। तथा च-कथं न सामान्य विशेषात्मकत्वं वस्तुनो घटत? इति। स्था०१४ श्लोका तथा सूत्रकृताङ्गवृत्तौ-सर्वमपि यदस्ति तत्सामान्यविशेषात्मकं नरसिंहाकारमुभयस्वभावमिति। तथा चोक्तम्"नान्वयः सह भेदत्वा-न्न भेदोऽन्वयवृत्तितः। मृद्धेदद्धयसंसर्ग-वृत्तिजात्यन्तरं घटः / / 1 / / " तथा"नरस्व सिंहरूपत्वा-न सिंहो नररुपतः। शब्दविज्ञानकार्याणा, भेदाजात्यन्तरं हि सः // 2 / / " इत्यादि। सूत्रा०१ श्रु०१२ अ० "व्यक्तेरभेदस्तुल्यत्वं, शङ्करोऽथानवस्थितिः। रुपहानिरसंबन्धो जातिबाधकसंग्रहः / / 1 / / " इति। अस्य व्याख्या-आकाशत्वं न जातिः। व्यक्त्यैक्यात्।। घटत्वकलशत्व न जाती। व्यक्तितुल्यत्वात् / / भूतत्वमूर्तत्वेन जाती। आकाशे भूतत्वस्यैव मनसि च मर्तत्वस्यैव सद्भावेऽपि पृथिव्यादिचतुष्टये उभयोः सद्भावात् सङ्करप्रसङ्गः।३। जातेरपिजात्यन्तराङ्गकारेऽनवस्थाप्रसङ्गः।४। अत्यन्तविशेषता न जातिः। तदङ्गीकारे तत्स्वरुपच्यावृत्ति हानिः स्यात्।। समवायता ने जातिः संबन्धाऽभावात् / 6 / इत्येत जातिबाधकाः। स्था० 8 श्लोका कर्मवशादसुमतां विचित्रा जातिगमनाजतेरशाश्वतत्वम्। अतोनजातिमडो विधेय इति। यदपि कैश्चिदुच्यते यथा ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गताः बाहुडयांक्षत्रियाः, ऊरुभ्यां वैश्याः, पदभ्या शूद्राः इति। एतदप्यप्रमाणत्वादतिफल्गुप्रायं, तदभ्युपगमे न विशेषो वर्णाना स्यादेकस्मात् प्रसूतेर्बुन्धाशासाप्रतिशाखाग्रभूतपनसोदुम्बरा दिफलवब्रह्मणो वा मुखादेरवयवानां चातुर्वर्ण्यावाप्तिः स्यात्न चैतदिष्यते भवद्भिस्तथा यदि ब्राह्यणादीनां ब्रह्मणो मुखादेरुद्भवः। सांप्रत कि न जायते ? / अथ युगादावेतदित्येवं सति दृष्टहानिरदृष्टकल्पना स्यादिति। तथा यदि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे तद्यथा सर्वज्ञरहितोऽतीतः कालः कालत्वाद्वर्त्तमानकालवदेवं च सत्वेतदपि शक्यते वक्तुं यथा नाऽतीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः। कालत्वाद्वर्तमानकालवद्भवति च विशेषे पक्षीकृते सामान्यहेतु रित्यतः प्रतिज्ञार्थ कदेशासिद्धता ना शङ्कनीयते। जातेश्चानित्य त्वं युष्मत्सिद्धान्त एवाऽभिहितम्। तद्यथा-शृगलो वा एष जायते यः स पुरीषो दह्यत इत्यादिना। तथा-"सद्यः पतति मांसेन, लाक्षया लवणेन च। गहन शूद्रीभवति, ब्राह्मणः क्षीरविक्रयी // 1 // " इत्यादि लोके चावश्यं भावी जातिपातः। यत उक्तम्-"काविके कर्मणां दोषे-याति स्थावरता नरः। वाचिकैः पक्षिमृगता, मानसैरन्त्यजातिताम्॥१॥" इत्यादिगुणैरप्येवविधैर्न ब्राह्मणत्वं युज्यते। सूत्रा०२ श्रु०३ अ० ग्राह्यणत्वादिजातिश्च न कस्य चित् कारणम्। स्मृतावप्युक्तम् - "कैवर्ती गर्भसंभूतो, व्यासो नाम महामुनिः। तपसा ब्राह्मणो जातः, तस्माज्जातिरकाणम् / / हरिणीगर्भसंभूतो, हैरण्योऽपि महामुनिः। तपसा ब्राह्मणो जातस्तस्माज्जतिरकारणम्।।" दर्श०२ तस्व। क्रियाकर्मविभागेन हि चातुर्वण्येव्यवस्था वत उक्तम् - "एकवर्णामिदं सर्वे ,पूर्वमासीद् युधिष्ठिर!। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् / / 1 / / ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पकः। अन्यथा नाम मात्रां स्या-दिन्दूगोपककीटवत्।। उत्त०२६ अ०। (सप्तानां वर्णानां नवानां च वर्णान्तराणामुत्पत्तिः 'बंभ' शब्दे वक्ष्यते) व्याकरणोक्ते पौत्राद्यपत्यात्मके गोत्र, वेदशाखा भेदं च। न्यायोक्ते साधर्म्यवैधाभ्यां व्याप्तिनिरपेक्षाभ्या वादि वाक्येषु दूषणदानरूपे वाक्ये, वाचला तथा सम्यग्घेतो हेत्वा भासे वा वादिना प्रयुक्ते झटिति तद्दोषतत्वाप्रतिभासे हेतुप्रतिविम्बन प्रायं किमपि प्रत्यवस्थानं जातिर्दूषणाभास इत्यर्थः। सा च चतुर्विशतिभेदा साधादिप्रत्यवस्थानभेदेन। यथा साधर्म्य वैधर्योत्कर्षापकर्षवाऽवाविकल्पसाध्यप्राप्त्यप्राप्ति प्रसङ्ग प्रतिदृष्टान्तानुत्पत्ति संशयप्रकरणाऽहेत्वर्थापत्यविशेषोप पत्युपलब्धनुपब्धिनित्यानित्यकार्यसमाः। तत्र साधइँण प्रत्य वस्थानं साधर्म्यसमा जालिर्भवति। 'अनित्यः शब्दः कृत कत्वाद् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्। 'नित्यः शब्दो' निरवयवत्वात् आकाशवत्। न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वात् अनित्यः शब्दो, न पुनराकाशसाधान्निरवयत्वात् नित्य इति। वैधhण प्रत्यवस्थानं वैधर्म्यसमा जातिर्भवति। 'अनित्यः शब्दः कृत कत्वाद् घटवदिति। अौव प्रयोगे स एव प्रतिहेतुर्वैधर्येण प्रयुज्यते (घटस्थ हि निरवयवित्वं वैधयें स्वयं सावयवत्वाद्वै धर्म्यम्) नित्यः शब्दो निरवयवत्वात्। अनित्यं हि सावयवं दृष्टं घटादीति न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यः शब्दो न पुनस्तद्वैधात् निरवयवत्वान्नित्य इति। उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती भवतः। तत्रैव प्रयोगे दृष्टान्तधर्मे कञ्चित्साध्यधर्मिण्यापादयत्रुत्कर्ष समां जातिं प्रयुडक्ते। यदि घटवत् कृतकत्वात् अनित्यः घटवदेव मूर्तो ऽपि भवतु। न चेन्मूर्तो घट वदनित्योऽपि मा भूदितिशब्दे धर्मान्तरोकर्षमापाडयति। अपकर्षस्तु घटः कृतकः सन् अश्रावणो दृष्टः। एवं शब्दोऽप्यस्तु। नो चेद् घटवदनित्योऽपि मा भूदिति। शब्दे श्रावणत्वधर्ममपकर्षतीति। इत्येताश्चतस्त्रो दिङ्मात्रदर्शनार्थ जातव वक्ताः। एवं शेषा अपि विंशतिरक्षपादशास्त्रादवसेयाः। स्या० 10 श्लोक दूषणाभासास्तुजातयस्तता सम्यक् दूषणस्याऽपिनतत्वव्यवस्थितिरनियतत्वात्। अनियतत्वं च वदेवैकस्मिन् सम्यग् दूषणं तदेवान्यत्रा दुषणा भासं पुरुषशक्यपेक्षत्वाच दूषणाभासव्यस्थितेरनियतत्वमिति। कुतः पुनर्दुषणाभासरुपाणां जातीनामवास्तुवत्वात्तासामिति। सूत्रा०१श्रु० 12 अ०। षड्जातिषु, सप्तसु स्वरेषु, असङ्कारभेदे, चुल्लयाम्, आमलक्याम्. काम्पिल्पे, छन्दसि, जातिफले, मालत्याम, पुष्पप्रधाने वृक्षभेदे च। वाच०। रा०ा प्रज्ञा०। कल्पना आचा०। ज्ञा०। जातिकुसुमवणे , मद्यभेदे, ''मेहुं च मेरगं च जाई च'' जातिश्च जातिकुसुमवणे मद्यमेव। विपा० 1 श्रु०२ अ०। जातिनपुंसकगर्भजतिर्यगमनुष्यमध्ये सम्यक्तवं प्राप्यतेनवेति। प्रश्ने, उत्तरम् जातिनपुंसकमध्ये