________________ दाण 2467- अभिधानराजेन्द्रः - भाग 4 दाण यविध्नं कुर्वन्तीति / / 20 / / सूत्र०१ श्रु०११ अ०। आचा०। आव०। (कृतप्रत्याख्यानोऽशनाऽऽदिदानं न कुर्यादिति 'पचक्खाण' शब्दे वक्ष्यते) (भुञ्जानैः साधुभिर्द्रमकाऽऽदिभ्यो न देयमसंयतपोषणभयादिति 'भोयण' शब्दे विस्तरेण वक्ष्यते) "ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम्। भक्त्या सुपात्रदानंतु, मोक्षदं देशितं जिनैः / / 1 / / " द्वा०१ द्वा०। (अनुकम्पा०(२) इत्यादिगिर्दशभिः श्लोकैरनुकम्पादानम् अनुकंपादाण' शब्दे प्रथमभागे 360 पृष्ठे व्याख्यातम्) __नन्वेवं 'गिहिणो वेयावडियं न कुआ'' इत्याद्यागमवि रोधः? इत्यत आह-- वैयावृत्ये गृहस्थानां, निषेधः श्रूयते तु यः। स औत्सर्गिकतां बिभ्रद्, नैतस्यार्थस्य बाधकः / / 12 / / (वैयावृत्य इति) गृहस्थानां वैयावृत्ये तु साधोर्यो निषेधः श्रूयते, स औत्सर्गिकतां बिभन्नैतस्यापवादिकस्यार्थरय बाधकः / अपवादो ह्युत्सर्ग बाधते, न तूत्सर्गोऽपवादमिति / / 12 / / सूत्रान्तरं समाधत्तेये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि संगतः। विहाय विषयो मृग्यो, दशाभेदं विपश्चिता // 13 // (ये विति) ये तु दानं प्रशंसन्तीत्यादिसूत्रऽपि "जे उदाणं पसंसति, | वहमिच्छति पाणिणं। जे अण्णं पडिसेहति, वित्तिच्छेयं करति ते॥२०॥" इति सूत्रकृत् सूत्रेऽपि दशाभेदं विहाय संगतो युक्तो विषयो विपश्चिता मृग्य ऐदम्पर्यशुद्ध्या विचारणीयो, नतुपदार्थमात्रे मूढतया भाव्यम्, अपुष्टाऽऽलम्बनविषयतयैवास्योपपादनात। आह च-"ये तुदानं प्रशंसन्तीत्यादि सूत्रं तु यत् स्मृतम् / अवस्थाभेदविषयं, द्रष्टव्यं तन्महात्मभिः / / 1 // " इति // 13 // पुनःशङ्कतेनन्वेवं पुण्यबन्धःस्यात्, साधोन च स इष्यते। पुण्यबन्धान्यपीडाभ्यां, छन्नं भुङ्क्ते यतो यतिः // 14 // (नन्विति) नन्वेवमपवादतोऽपि साधोरनुकम्पादानेऽभ्युपगम्यमाने पुण्यबन्धः स्यात्, अनुकम्पायाः सातबन्धहेतुत्वात्।नचस पुण्यबन्ध इष्यते साधोः, यतो यस्माद् यतिः पुण्यबन्धान्यपीडाभ्यां हेतुभ्या छन्नं भुक्ते / / 14|| एतदेव स्पष्टयतिदीनाऽऽदिदाने पुण्यं स्यात्तददानं च पीडनम्। शक्तौ पीडाऽप्रतीकारे, शास्त्रार्थस्य च बाधनम्॥१५॥ (दीनाऽऽदीति) प्रकट भोजने दीनाऽऽदीना याचमानानां दाने पुण्यं स्याद, न चानुकम्पावॉस्तेषामदत्त्वा कदापि भोक्तुं शक्तः। अतिधार्श्वमवलम्ब्य कथञ्चित्तेषामदाने च पीडनं स्यात्तेषां तदानीमप्रीतिरूप, शासनद्वेषात्परत्र च कुगतिसङ् गतिरूपम् / तदप्रीतिदानपरिणामाभावान्न दोषो भविष्यतीत्याशङ् क्याऽऽहशक्ती सत्यां पीडायाः परदुःखस्याप्रतीकारेऽनुद्धारे च शास्त्रार्थस्य पराप्रीतिपरिहारप्रयत्नप्रतिपादनरूपस्य बाधनं, रागद्वेषयोरिव शक्तिनिगृहनस्यापि चारित्रप्रतिपक्षत्वात्। प्रसिद्धोऽयमर्थः सप्तमाष्टके / / 15 / / किञ्च दानेन भोगाऽऽप्तिस्ततो भवपरम्परा। धर्माधर्मक्षयान्मुक्तिर्मुमुक्षोर्नेष्टमित्यदः / / 16 / / किं च दानेन हेतुना भोगाऽऽप्तिर्भवति, ततो भवपरम्परा मोहधारावृद्धेः, तथा धर्माधर्मयोः पुण्यपापयोः क्षयान्मुक्तिः, इति हेतोरदोऽनुकम्पादानं मुमुक्षोर्नेष्टम् / / 16 / / सिद्धान्तयतिनैवं यत्पुण्यबन्धोऽपि, धर्महेतुःशुभोदयः। वह्वेर्दाह्यं विनाश्येव, नश्वरत्वात् स्वतो मतः // 17 // (नैवमिति) नैवं यथा प्रागुक्तम्, यत् यस्मात्पुण्यबन्धोऽपि शुभोदयः सद्विपाको धर्महेतुर्मतः, तद्धेतुभिरेव दशाविशेषेऽनुषङ्गः पुण्यानुबन्धिपुयबन्धसंभवात, प्राणातिपातविरमणाऽऽदौ तथाऽवधारणात् / न चाय मुक्तिपरिपन्थी, दाह्य विनाश्यवढेरिव तस्य पापं विनाश्य स्वतो नश्वरत्वान्नाशशीलत्वात् / शास्त्रार्थाबाधेन निर्जराप्रतिबन्धकपुण्यबन्धाभावान्नाव दोष इति गर्भाऽर्थः / / 17 / / भोगाऽऽप्तिरपि नैतस्मादभोगपरिणामतः। मन्त्रितं श्रद्धया पुंसां,जलमप्यमृतायते / / 18|| (भोगाऽऽप्तिरिति) भोगप्राप्तिरपि नैतस्मादापवादिकादनुकम्पादानात, अभोगपरिणामतो भोगानुभवोपनायकाध्यवसायाभावात्। दृष्टान्तमाह--मन्त्रितं जलमपि पुंसां श्रद्धया भक्तवाऽऽमृतायतेऽमृतकार्यकारि भवति / एवं हि भोगहेतोरप्यत्राध्यवसायविशेषाद्भो - गानुपनतिरुपपद्यत इति भावः // 18|| नन्विदं हरिभद्रसंमत्या भवद्भिर्व्यवस्थाप्यते, तेनैव ___ चाभिनिवेश्योक्तमित्याशक्याऽऽहन च स्वदानपोषार्थमुक्तमेतदपेशलम् / हरिभद्रो ह्यदोऽभाणीद, यतः संविग्नपाक्षिकः / / 16 / / (न चेति) न च स्वदानस्य स्वीयासंयतदानस्य पोषार्थ समर्थनार्थमुक्तमेतदपेशलमसुन्दरम्। यतो यस्मात्संविग्रपाक्षिको हरिभद्रोऽदः प्रागुक्त, हि निश्चितमभाणीत् / न हि संविनपाक्षिकोऽनृतं ब्रूते / तदुक्तं सप्तविंशतितमाष्टकविवरणे-"स्वकीयासंयतदान-समर्थनागर्भार्थकमिदं प्रकरणं सूरिणा कृतमिति केचित्कल्पयन्ति / हरिभद्राऽऽचार्यो हि भोजनकाले शङ्खवादनपूर्वकमर्थिभ्यो भोजनं दापितवानिति श्रूयते। न चैतत्संभाव्यते, सविनपाक्षिको ह्यसौ, न च संविग्रस्य तत्पाक्षिकस्य वाऽनागमिकार्थोपदेशः संभवति, तत्त्वहानिप्रसङ्गात् / आह च'सविग्गोऽणुवएसं, ण देइ दुभासिअं कडुविवागं 1 जाणतो तम्मि तहा, अतहकारो उ मिच्छत्तं' ||1 // इति // 16 // भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः। तया दत्तं सुपात्राय, बहुकर्मक्षयक्षमम् / / 20 / / (भक्तिस्त्विति) भक्तिस्तु इवस्य सुपात्रतो भवनिस्तारवाञ्छा। आराध्यत्वेन ज्ञान भक्तिः, आराधना च गौरवितप्रीतिहेतुः, क्रिया गौरवितसेवा चेत्येतदपि फलतो नैतल्लक्षणमतिशेते / तया भक्त्या सुपात्राय दतं बहुकर्मक्षये क्षमं समर्थ भवति // 20 // तथाहिपात्रदानचतुर्भङ् ग्यामाद्यःसंशुद्ध इष्यते / द्वितीये भजना शेषावनिषफलदौ गतौ / / 21 / / (पाति) पात्रदानविषयिणी या चतुर्भङ्गी-संयताय शुद्ध