________________ दाण 2468 - अभिधानराजेन्द्रः - भाग 4 दाण दानम्, संयतायाशुद्धदानम्, असंयताय शुद्धदानम. असंयताया- | इशुद्धदानमित्यभिलापा / तस्यामाद्यो भङ्ग : सम्यगतिशयेन शुद्ध इष्यते, निर्जराया एव जनकत्वात् / द्वितीये भङ्गे कालाऽऽदिभेदेन फलभावाऽभावाभ्यां भजना विकल्पाऽऽत्मिका / शेषौ तृतीयचतुर्थभङ्गौ अनिष्ट - फलदौ एकान्तकर्मबन्धहेतुत्वान्मतौ // 21 // शुद्ध दत्त्वा सुपात्राय, सानुबन्धशुभार्जनात्। सानुबन्धं न बध्नाति, पापं बद्धं च मुञ्चति // 22 // (शुद्धमिति) सुपात्राय प्रतिहतप्रत्याख्यातपापकर्मणे शुद्धभन्नाऽऽदिक दत्त्वा सानुबन्धस्य पुण्यानुबन्धिनः शुभस्य पुण्यस्यार्जनात् सानुबन्धमनुबन्धसहितं पापं न बध्नाति, बद्धं च पूर्व पापं मुञ्चति त्यजति / इत्थं च पापनिवृत्तौ प्रयाणभङ्गाप्रयोजकपुण्येन मोक्षसौलभ्यमावेदितं भवति / / 2 / / भवेत्पात्रविशेषे वा, कारणे वा तथाविधे। अशुद्धस्यापि दानं हि, दयोलाभाय नान्यथा / / 23 / / (भवेदिति) पात्रविशेषे वाऽऽगमाभिहितस्वरूपक्षपकाऽऽदिरूपे, कारणे वा तथाविधे दुर्भिक्षदीर्घाध्वग्लानत्वाऽऽदिरूपे आगाढे, अशुद्धरयाऽपि दान हि सुपात्राय द्वयोर्दातृगृहीत्रोलाभाय भवेत्. दातुर्विवेकशुद्धान्तःकरणत्वाद्, गृहीतुश्च गीतार्थाऽऽदिपदवत्त्वात्: नान्यथा पात्रविशेषस्य कारणविशेषस्य वा विरहे / / 23 / / नन्येवं संयतायाशुद्धदाने फले द्वयोर्भवतु भजना, दातुर्बहुतरनिर्जराऽल्पतरपापकर्मबन्धभागित्वं तु भगवत्युक्तं कथमपवादाऽऽदावपि भावशुझ्या फलाविशेषादित्यत आहअथवा यो गृही मुग्धो, लुब्धकज्ञातभावितः। तस्य तत् स्वल्पबन्धाय, बहुनिर्जरणाय च / / 24 / / (अथवेति) अथवा पक्षान्तरे, यो गृही मुग्धोऽसत्-शास्त्रार्थो लुब्धकज्ञातेन मृगेषु लुब्धकानामिव साधुषु श्राद्धानां यथाकथ-शिदन्नाऽऽधुपढौकनेनानुधावनमेव युक्तमिति पार्श्वस्थप्रदर्शितेन भावितो वासितः, तस्य तत्संयतायाऽशुद्धदानं तु मुग्धत्वादेव स्वल्पपापबन्धाय बहुकर्मनिर्जरणाय च भवति॥ अल्पाऽऽयुष्कत्वम्इत्थमाशयवैचित्र्यादत्राल्पाऽऽयुष्कहेतुता। युक्ता चाशुभदीर्घाऽऽयुर्हेतुता सूत्रदर्शिता / / 25 / / (इत्थमिति) इत्थममुना प्रकारेण, आशयवैचित्र्यानावभेदात्, अत्र संयताऽशुद्धदाने, अल्पाऽऽयुष्कहेतुताऽशुभदीर्घाऽऽयुर्हेतुता च, सूत्रदर्शिता स्थानाङ्गाऽऽद्युक्ता,युक्ता, मुग्धाभिनिविष्टयोरेतदुपपत्तेः। शुद्धदायकापेक्षयाऽशुद्धदायके मुग्धेऽल्पशुभाऽऽयुबन्धसंभवात् / क्षुल्लकभवग्रहणरूपाया अल्पतायाश्च सूत्रान्तरविरोधेनासंभवादिति / व्यक्तमदः स्थानाङ्गवृत्त्यादौ / / 25 / / यस्तूत्तरगुणाशुद्धं, प्रज्ञप्तिविषयं वदेत्। तेनात्र भजनासूत्रं, दृष्टं सूत्रकृते कथम् ?||26|| (यस्त्विति) वस्तु आधाकर्मिकस्यैकान्तदुष्टत्वं मन्यमानः प्रकृतेऽर्थ, प्रज्ञप्तिगोचरं भगवतीविषयम्, उत्तरगुणाशुद्ध वदेत्। शक्यपरित्यागबीजाऽऽदिसंसक्तानाऽऽदिस्थलेऽप्यप्रासुकानेषणीयपदप्रवृत्तिदर्शनात् / तेन चैवं यूकापरिभवभयात्परिधान परित्यजता, अत्र विषये, सूत्रकृते, भजनासूत्रम्, कथं दृष्टम् ? एवं हि तदनाचारश्रुते श्रूयते-"अहागडाई भुंजंति, अन्नमन्ने सकम्भुणा / उवलित्ते वियाणिज्जाऽणुवलित्ते ति वा पणो'' ||1|| अत्र ह्याधाकर्मिकस्य फले भजनैव व्यक्तीकृता, अन्योऽन्यपदग्रहणेनार्थान्तरस्य कर्तुमशक्यत्वात्, स्वरूपतोऽसावध भजनाव्युत्पादनस्यानतिप्रयोजनत्वाच्चेति संक्षेपः // 26 // शुद्धं वा यदशुद्धं वाऽसंयताय प्रदीयते / गुरुत्वबुद्ध्या तत्कर्म-बन्धकृन्नाऽनुकम्पया / / 27 / / (शुद्धं वेति) असंयताय यच्छुद्धं वाऽशुद्धं वा गुरुत्वबुद्ध्या प्रदीयते तदसाधुषु साधुसंज्ञया कर्मबन्धकृत्, न पुनरनुकम्पया। अनुकम्पादानस्य क्वाऽप्यनिषिद्धत्वात् / "अणुकंपादाणं पुण, जिणेहि न कयाइ पडिसिद्धं / " इति वचनात्।।२७।। दोषपोषकतां ज्ञात्वा, तामुपेक्ष्य ददज्जनः। प्रज्ज्वाल्य चन्दनं कुर्यात्, कष्टामङ्गारजीविकाम् // 28 // अतः पात्रं परीक्षेत, दानशौण्डः स्वयं धिया। तत् त्रिधा स्यान्मुनिः श्राद्धः सम्यग्दृष्टिस्तथाऽपरः॥२६| एतेषां दानमेतत्स्थ-गुणानामनुमोदनात् / औचित्यानतिवृत्त्या च, सर्वसंपत्करं मतम्।।३०।। दोषेति स्पष्टः / / 28 / / अत इति स्पष्टः / / 26 // (एतेषामिति) एतेषां मुनिश्राद्धसम्यग्दृशां दानम्, एतत्स्थानामेतद्- वृत्तीना गुणानामनुमोदनात्तदानस्य तद्भक्तिपूर्वकत्वात् / औचित्यानतिवृत्त्या स्वाचारानुल्लङ्गनेन च, सर्वसंपत्करं ज्ञानपूर्वकत्वेन परम्परया महानन्दप्रदं मतम् // 30 // शुभयोगेऽपि यो दोषो, द्रव्यतः कोऽपि जायते। कूपज्ञातेन स पुननिष्टो यतनावतः॥३१।। (शुभयोगेऽपीति) पात्रदानबद्धबुद्धीना साधर्मिकवात्सल्याऽऽदौ शुभयोगेऽपि प्रशस्तव्यापारेऽपि यः कोऽपि द्रव्यतो दोषो जायते, स कपज्ञातेन आगमप्रसिद्धकुपदृष्टान्तेन. यतनावतो यतनापरायणस्य नानिष्टः स्वरूपतः सावद्यत्वेऽप्यनुबन्धतो निरवद्यत्वातातदिदमुक्तम"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स / सा होइ णिज्जरफला, अज्झत्थविसोहिजुत्तस्स / / 1 // ' अत्र हि अपवादपदप्रत्ययाया विराधनाया व्याख्यानात् फलभेदौपयिको ज्ञानपूर्वकत्वेन क्रियाभेद एव लभ्यते। यत्तु वर्जनाभिप्रायजन्या निर्जरांप्रति जीवघातपरिणामाजन्यत्वेन जीवविराधनायाः प्रतिबन्धकाभावत्वेनैवात्र हेतुत्वमिति कश्चिदाह साहसिकः, तस्यापूर्वमेव व्याख्यानमपूर्वमेव चाऽऽगमतर्ककौशलं, केवलायास्तस्याः प्रतिबन्धकत्वाभावाज्जीवधातपरिणामविशष्टत्वेन प्रतिबन्धकत्वे च विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य शुद्धविशेष्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य तस्य शुद्धविशेषणरूपस्यापि संभवाञ्जीवधातपरिणामोऽपि देवानां प्रियस्य निर्जराहेत: प्रसज्येत / अथ वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षण स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत्, किमेतद्विराध-नापदं प्रवृत्तिनिमित्तं, विशेषणं वा? आद्ये प्रवृत्तिनिमित्तं नास्तिपदं चोच्यत इत्ययमुन्मत्तप्रलापः / अन्त्ये चोक्तदोषतादवस्थ्यमिति शिष्यद्वन्धनमात्रमेतत् / अथ यद्धर्मविशिष्ट यद्वस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिरिति नियमाद्वर्जना, अभिप्राय विशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं