SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ दाण 2561 - अभिधानराजेन्द्रः - भाग 4 दाण रोधाऽऽदिना विपर्ययण दीयमानमन्यत पुननिमेव भवति / / 13 / / षो० 5 विव०॥ नाऽऽतुरापथ्यतुल्यं यद्दानं तदपि चेष्यते। पात्रे दीनाऽऽदिवर्गेच, पोष्यवर्गाऽविरोधतः / / 11 / / यत् आतुरापथ्यतुल्य ज्वराऽऽदिरोगविधुरस्य घृताऽऽदिदानसदृश मुशलाऽऽदिदानं दायकग्राहकयोरपकारिन भवति, तहानमपि चेष्यते। पात्रे दीनाऽऽदिवर्गे च, पोष्यवर्गस्य मातापित्रादिपोषणीयलोकस्याऽविरोधतो वृत्तेरनुच्छेदात्॥११॥ लिङ्गिकृपणाऽऽद्याः पात्रम्लिङ्गिनः पात्रमपचाः, विशिष्य स्वक्रियाकृताः। दीनान्धकृपणाऽऽदीनां, वर्गः कार्यान्तराक्षमः||१२|| (लिङ्गिन इति) लिङ्गि नो व्रतसूचकतथाविधनेपथ्यवन्तः सामान्यतः पात्रमादिधार्मिकस्थ। विशिष्य विशेषतोऽपचाः स्वयमपाचकाः, उपलक्षणात्परैरपाचयितारः, पच्यमानाननुमन्तारश्च। स्वक्रियाकृतः स्वशास्त्रोतान्ठानाप्रमताः / तदक्तम्-"व्रतस्था लिङ्गिनः पात्रमपचास्तु विशपतः / स्वसिद्धान्ताविरोधेन, वर्तन्ते ये सदैव हि।।१।।"दीनान्धकपणाऽऽदीना वर्गः समुदायः, कार्यान्तराक्षमो भिक्षाऽतिरिक्तनिर्वाहहेतुव्यापारासनर्थः / यत उक्तम्-"दीनान्धकपणा येत. व्याधिग्रस्ता विशेषतः। निःस्वाः क्रियाऽन्तराशक्ताः, एतद्वर्गो हि मीलकः / / 1 / / " इति / दीनाः क्षीणसकलपुरुषार्थशक्तयः, अन्धा नयनरहिताः, कृपणाः स्वभावत एव सतां कृपास्थानम, व्याधिग्रस्ताः कुष्ठाऽऽद्यभिभूताः, निस्वा निर्द्धनाः / / 12 / / द्वा०१२ द्वा०। यो०वि०॥ अथदाने कृतपुण्यकथा''शालिग्राम इति ग्रामस्तत्रेका स्थविराऽभवत्। तत्पुत्रो वसपालोऽभूत्, सोऽन्यदा पायसोत्सवे / / 1 / / दृष्ट्वा पायसमश्नन्ति, डिम्भरूपाणि सोऽपि च। ऊचे मातर्ममाप्यर्थमद्य राध्नुहि पायसम् / / 2 / / नास्ति वस्त्वित्यरोदीत्साऽपृच्छन्नुपगृह स्त्रियः। निर्बन्धेऽकथयत्ताश्च, कृपया सर्वमापयन् / / 3 / / तयाऽथ पायसं रखा, सुतस्य परिवेषितम्। स्थविराऽन्तर्गता साधुरागतो मासपारणे // 4 // तत्यशंस ददौ साधोर्दध्यौ स्तोकमिदं ततः। द्वितीयकं ददौ यश, पुनश्चिन्तयति स्म सः // 5 // क्षेप्स्यत्यत्रापरः किञ्चिच्चत्तदेतद्विनजयति। तृतीयमप्यदात्त्र्यशं, स्वर्गस्तेनार्जितस्तदा // 6 // ज्ञात्वाऽम्दा जेमितं भूयः, क्षैरेय्याऽभृत भाजनम्। आकण्ठ भुजे ! सोऽथ, विसूच्या मृतवान्निशि // 7 // गतः स्वर्ग ततश्च्युत्वाऽत्रैव राजगृहे पुरे। श्रेणिको यत्र राजेन्दुर-भयो मन्त्रिपुङ्गवः॥८|| महाजनस्य मुख्योऽभूत, तत्र श्रेष्ठी धनावहः / यद् द्रव्यसंख्या नाज्ञायि, विन्दुसंख्येव वारिधेः / / 6 / / नव्यनव्योल्लसद्भद्रा, भद्रा तस्याभवत्प्रिया। स तदीयोदरे जीवः, सुतत्वेनावतीर्णवान् / / 10 / / कृतपुण्योऽयमात्मेति, तत्रोचे गर्भगे जनः। कृतपुण्याभिधश्चक्रे, जन्मतो द्वादशाहि सः / / 11 / / वर्द्धमानः पाठयोग्यो, ग्राहितः सकलाः कलाः। विवाहितस्ततो मात्रा, क्षिप्तो दुर्ललितेशु सः / / 12 / / तैः प्रावेशिसवेश्यौकस्तत्रांऽस्थाद् द्वादशाब्दिकाम्। पिता मृत ऽपि नाज्ञायि, मात्रा मा भृत्सुतोऽसुखी / / 13 / / वित्तमानायितं नित्य, प्रेषयत्पुत्रवत्सला। मृत्यौ तस्याः स्नुषाऽप्येवं, स्वप्रियप्रीतये व्यधात् / / 14 / / नष्टितेऽथ धन कृत्स्ने, चटीहस्ते तदङ्गना। निजमाभरणं प्रेषीद्विवेदाऽकाऽथ निःस्वताम्॥१५।। सदीनारसहस्रं तत्तस्याः प्रत्यर्पित तया। अथाऽक्या सुताऽभाणि, निःस्वो निःसार्यतामयम् / / 16 / / स नैच्छदथ वञ्चित्वा, गृहमार्जनदम्भतः। उत्तारितोऽप्यधस्तिष्ठन्नूचे दास्या स्थितोऽसि किम्? // 17 / / अशृङ्गपशुरेवासि, निरस्तोऽपि न यासि यत्। सोऽथ दध्यौ क्षयायोक्तो, धिग्वेश्यावञ्चितोऽस्म्यहम्॥१८॥ गृहवाऽविदन् पृछन्नूचे तैःक्वास्ति तद् गृहम्? वेश्याऽऽसक्तस्तत्सुतोऽभूत्ततःसर्व क्षयं गतम्॥१६॥ ततः कथञ्चिद् ज्ञात्वाऽगाजीर्ण शीर्णे निजे गृहे। भार्या च सहसोत्थाय, कुलीना विनयं व्यधात्।।२०।। लजितो विनयात्तस्याः, मातापित्रोश्च शोकतः। सर्वस्वहरणाचाभूद, दुःखरत्नत्रयाधिपः॥२१।। तदेकजीविता साऽपि, गणिकाऽगात्तदन्तिके। तं शोकदुःखचिन्ताऽऽर्त , प्रिया प्राणेशमब्रवीत् / / 22 / / अक्काटकसहस्रं तं, निजान्याभरणानि च। पुरो विमुच्य हे भर्तः: नीवीयं तत्पणाय्यताम्॥२३॥(युग्मम्) मासमेकं स तत्रास्थात्प्रियाविनयरञ्जितः। ततःसाऽऽपन्नसत्त्वाऽभूत, शुक्तिवद् मौक्तिकोदरा // 24 / / सार्थेऽथ प्रस्थितेऽचालीद्, मुक्त्या तत्तत्कृते धनम्। कृतपुण्यः पुण्यधनो, धनोपार्जनहेतवे // 25 // उपदेवकुलं सार्थमध्ये पल्यङ्कगं निशि। प्रियं विमुच्य भार्ये ते, वपुषेव गृहं गते / / 26 / / श्रेष्ठिन्या चैकया तत्र, भिन्नः पीतः सुतो मृतः / श्रुत्वेत्यचिन्त्यपुत्रत्वान्मा गाद्राजकुले धनम्॥२७॥ नाऽऽरोदयन्न चाऽरोदीत्तां वामिप्यहारयत्। वार्ताकृतो धनं दत्त्वा, सोचे माऽऽख्य इदं क्वचित् / / 2 / / चतस्रोऽपि स्नुषाश्वोक्ताः, कश्चिदानीयते पुमान्। स्युर्युष्माकं यथा पुत्राः, गृहसर्वस्वरक्षकाः॥२६॥ ऊचुस्ताः किमिदं श्वश्रु! युज्यते सा जगाद ताः। अकार्यमपि कार्येण, क्रियते नास्ति दूषणम्॥३०|| साऽथागात् सस्नुषा सार्थे , कृतपुण्यं विलोक्य तम्। सर्वाः सतल्पमुत्पाट्य, सुप्ते स्वगृहमानयन्।।३१।। वृद्धा जागरिते तस्मिन्नभ्यधात्कपटे पटुः। कुलदेवतया नीतो, वत्स! त्वमसि मे सुतः।।३२|| एताश्चतस्रस्ते कान्ताः, कान्त्याऽपास्तसुराङ्गनाः / सौधं जितविमानश्रि, भुड्क्ष्व भोगान् यथासुखम् // 33 // कृतपुण्योऽखिलं वीक्ष्य, वृद्धोक्तं दध्यिवानिति। किमेतत्कुलचिन्ताऽऽद्यैर्भजे भोगानुपस्थितान् // 34 // तत्र द्वादशभिर्वर्षे :, क्रीडन् स्वे वेश्मनीव सः। सर्वासामपि पत्नीनां, पुत्रान् द्विवानजीजनत्।।३।। इतस्तत्परिणीतायाः, गुयाः पल्याः सुतोऽभवत्। सोऽप्येकादशवर्षो ऽस्ति. पठन् पण्डितसन्निधौ / / 36 / / द्वादशाब्द्या स एवाऽऽद्यात्सार्थस्तत्रैव चावसत्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy