________________ दाण 2460- अभिधानराजेन्द्रः - भाग 4 दाण आचा०१ श्रु०१ अ०१3०। "दाणाणसेहूँ अभयप्पयाणं / '' (23) सूत्र०१ श्रु०६अ। मध्याहेऽर्चातुसत्पात्रदानपूर्वं तु भोजनम्।" (65) सत्पात्रं साध्वादि, तस्मिन् दानपूर्व दानं दत्त्वेत्यर्थः, भोजनमभ्यवहरणं, 'तुः एवकारार्थः। ततः सत्पात्रदानपूर्वमेव भोजनमिति निष्कर्षः / (65) ध०२अधि०। (साधुभ्यो दानप्रकारः 'अइहिसंविभाग' शब्दे प्रथमभाग 33 पृष्ठे उक्तम्) इह तत्रानुक्तं तत्स्वरूपम्आहारवस्त्रपात्राऽऽदेः, प्रदानमतिथेच्दा। उदीरितं तदतिथि-संविभागवतं जिनैः॥४०॥ अतिथेः साधोः, मुदा हर्षेण, गुरुत्वभक्त्यतिशयेन, न त्वनुकम्पाऽऽदिनेत्यर्थः / प्रदानम्-प्रकर्षण मनोवाक्कायशुद्ध्या दानं विश्राणनम् / कस्य? आहारवस्त्रपात्राऽऽदेः, तत्राऽऽहारोऽशनाऽऽदिः चतुर्विधः, वस्त्र प्रतीतम्, कम्बलो वा, पात्रं पतद्ग्रहाऽऽदि, आदिशब्दाद् वसतिपीठफलकशय्यासंस्तारकाऽऽदिग्रहणम्, अनेन हिरण्याऽऽदिदाननिषेधः, तेषां यतेरनधिकारित्वात्। तदतिथि–संविभागवतम्। जिनैः-अर्हद्भिः, उदीरितं प्रतिपादितम्। तत्र अतियेः उक्तलक्षणस्य, सङ्गतः-आधाकर्माऽऽदिद्विचत्वारिंशद्दोषरहितो, विशिष्टो भागो विभागः पश्चात्काऽऽदिदोषपरिहारायाशनदानरूपोऽतिथिसंविभागः, तद्रूपं व्रतम् / अतिथिसंविभागवतमाहाराऽऽदीनां च न्यायार्जितानां प्रासुकै षणीयाना कल्पनीयानां च देशकालश्रद्धासत्कारक्रमपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानमित्यर्थः / तत्रशाल्यादिनिष्पत्तिभागो देशः१, सुभिक्षदुर्भिक्षाऽऽदिःकालः२, विशुद्धश्चित्तपरिणामः श्रद्धा३, अभ्युत्थानाऽऽसनदानवन्दनानुव्रजनाऽऽदिः सत्कार:४, यथासंभवं पाक स्य पेयाऽऽदिपरिपाट्या प्रदान क्रमः५. तत्पूर्वक देशकालाऽऽद्यौचित्येनेत्यर्थः / यदूचुः-"नायागयाणं कप्पणिजाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासकारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं अतिहिसंविभागो।" ___ अनूदितं चैतत् श्रीहेमसूरिभिः"प्रायः शुद्धस्त्रिविधविधिना प्रासुकैरेषणीयैः, कल्पप्रायः स्वयमुपहितैर्वस्तुभिःपानकाऽऽद्यैः। काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित्परमविहिता हन्त ! समानयन्ति / / 1 / / अशनमखिलं खाद्यं स्वाध भवेदथ पानके, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम्। वसतिफलकप्रख्यं मुख्य चरित्रविवर्द्धन, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः / / 2 / / " तथा"साहूण कप्पणिजं, जं न वि दिन्न कहिंचि किंचि तहिं। धीरा जहुत्तकारी, सुसावगा तं न भुंजंति // 3 // वसहीसयणाऽऽसणभत्तपाणभेसजवत्थपायाई। जइ वि न पजत्तधणों, थोवा वि हु थोवयं दिजा / / 4 / / '' वाचकमुख्यस्त्वाह"किश्चित् शुद्ध कल्प्यमकल्प्यं, स्यादकल्प्यमपि कल्प्यम्। पिण्डः शय्या वस्त्रं, पात्रं वा भेषजाऽऽद्यं वा / / 1 / / देशं काल पुरुषभवस्थामुपयोगशुद्धिपरिणामान्। प्रसमीक्ष्य भवति कल्प्यं, नैकान्तात् कल्पते कल्प्यम् / / 2 / / " ननु यथा शास्त्रे आहारदातारः श्रूयन्ते, नतथा वस्त्राऽऽदिदातारः, नच वस्वाऽऽदिदानस्य फल श्रूयते, तन्न वस्त्राऽऽदिदानं युक्तम्। नैवम् / भगवत्यादौ वस्त्राऽऽदिदानस्य साक्षादुक्तत्वात्। यथा-"समणे निग्गंथे फासुयएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपाय - पूंछणेणं पीढफलगसिज्जासंथारएणं पडिलाभेमाणे विहरति।" इत्याहारवत्संयमाऽऽधारशरीरोपकारकत्वाद्वस्त्राऽऽदयोऽपि साधुभ्यो देयाः / ध०२अधि०। पञ्चा०। (पोषधं पारयता श्रावकेण नियमात्साधुभ्यो दत्त्वा भोक्तव्यमिति, तद्विधिश्च 'पोसहपारणगविहि' शब्दे वक्ष्यते) काले देशे कल्प्यं, श्रद्धायुक्तेन शुद्धमनसा च। सत् कृत्य च दातव्यं, दानं प्रयताऽऽत्मना सद्यः / / 1 / / " तथा"दाने सत्पुरुषेषु, स्वल्पमपि गुणाधिकेषु विनयेन। वटकणिकेव महान्त, न्यग्रोधं सत्फलं कुरुते / / 2 / / इत्यादि। "दुःखसमुद्रं प्राज्ञास्तरन्ति घात्रार्पितेन दानेन। लघुतेव मकरनिलयं, वणिजः सद्यानपात्रेण / / 1 / / " आचा०१ श्रु०८ अ०२उ०। यदाह"पठति पाटयते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः / प्रतिदिनं कुरुते य उपग्रह, स इह सर्वविदेव भवेन्नरः / / 1 / / " लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यापनं, व्याख्यापनार्थ दानं, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वक श्रवणं चेति। साधूनां च जिनवचनानुसारेण सम्यक्त्वचारित्रमनुपालयता दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयंतीर्णानां परं तारयितुमुद्यतानामा तीर्थकरगणधरेभ्यः, आ च तद्दिनदीक्षितेभ्यः सामायिकसेयतेभ्यो यथोचितमतिपत्त्या स्वधनवपनं, यथा उपयुज्यमानस्य चतुर्विधाऽऽहारभेषजवस्वाऽऽश्रयाऽऽदेर्दानम्, न हि तदस्ति यद्रव्यक्षेत्रकालभावापेक्षयाऽनुपकारक नाम, तत्सर्वस्वस्याऽपि दानं साधुधर्मोद्यतस्य स्वपुत्रपुत्र्यादेरपि समर्पणं च / ध०२अधि०। भला स्था० दशा (श्रमणेभ्योऽप्रासुकदानेनाल्याऽऽयुः,प्रासुकदानेन दीर्घायुरिति 'आउ' शब्दे द्वितीयभागे 11 पृष्ठे प्रतिपातितम्) "दानात्कीर्तिः सुधाशुभ्रा, दानात्सौभाग्यमुत्तमम् / दानात्कामार्थमोक्षाः स्युर्दानधर्मो वरस्ततः / / 1 / / " पञ्चा०२ विव०। "दानेन सत्त्वानि वशभिवन्ति, दानेन वैराण्यपि यान्ति नाशम्। परोऽपि बन्धुत्वमुपैति दानातस्माद्धि दानं सततं प्रदेयम्॥१॥" ध००। न्यायाऽऽत्तं स्वल्पमपि हि, भृत्यानुपरायेतो महादानम्। दीनतपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु / / 13 / / न्यायाऽऽत्तं ब्राह्मण क्षत्रियविट् शूद्राणां स्वजातिविहितन्यायो पात्तम्, स्वल्पमपि हि स्तोकमपि हि, भृत्यानुपरोधतो भृत्यानुपरोधेन पोष्यवर्गाविघातेन, महादानं विशिष्ट दानम्, दीनत-पस्व्यादौविषये, गुर्वनुज्ञया पित्रादिकुलपुरुषानुज्ञया, यदेवंविशेषणं तन्ममहादानम् / दानमन्यत्तु न्यायाऽनुपात्तभृत्याधुप पण