________________ दसवेयालियणिजृत्ति 2484 - अभिधानराजेन्द्रः - भाग 4 दसा नमिऊणं दसकालिय-णिज्जुत्तिं कित्तइस्सामि / / 1 / / सिद्धिगतिमुपगतेभ्यो नत्वा दशकालिकनियुक्ति कीर्तयिष्यामीति क्रिया। तत्र सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यामिति सिद्धिर्लोकाग्रक्षेत्रलक्षणा / तथा चोक्तम्-'इह वोदिंचइत्ताण, तत्थ गंतूण सिज्झइ। (ऑ०२गा०)" गम्यत इति गतिः, कर्म साधनम् / सिद्धिरेव गम्यमानत्वादतिः सिद्धिगतिः, तामुपसामीप्येन गताः प्राप्तास्तेभ्यः सकललोकाग्रक्षेत्रप्राप्तेभ्य इत्यर्थः / प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी। यथोक्तम्-'छट्ठीविभत्तीए भन्नइ चउत्थी।" तत्रैकेन्द्रियाः पृथिव्यादयः सकर्मका अपि तदुपगमनमात्रमधिकृत्य यथोक्तस्वरूपा भवन्त्यत आह कर्मविशुद्धेभ्यः / क्रियत इति कर्म ज्ञानाऽऽवरणीयाऽऽदिलक्षणं, तेन विशुद्धा वियुक्ताः कर्मविशुद्धाः, कर्मकलङ्करहिता इत्यर्थः / तेभ्यः कर्मविशुद्धभ्यः / आह-एवं तर्हि वक्तव्यं न सिद्धिगतिमुपगतेभ्योऽव्यभिचारात्। तथाहि कर्मविशुद्धाः सिद्धिगतिमुपगता एव भवन्ति / न। अवियतक्षेत्रविभागोपगतसिद्धप्रतिपादनपरदुर्नयनिरासार्थत्वादस्य / तथाचाहुरे के-"रागाऽऽदिवासनामुक्तं, चित्तमेव निरामयम् / सदा नियतदेशस्थ, सिद्ध इत्यभिधीयते" / 1 / / इत्यलं प्रसङ्गेन। दश०१ अ० दससण्णाविक्खंभण न०(दशसंज्ञाविष्कम्भणा) दश च ताः संज्ञाश्च तासां विष्कम्भणं निरोधस्तस्मिन्, षो०५ विव०) दससमयट्ठिइय त्रि०(दशसमयस्थितिक) दशसमयान् स्थितिर्येषां तेषु. स्था०१०टा० दससय न०(दशशत) सहस्रसङ्ख्यायाम, स्था०१० ठा०। दससयसहस्सन०(दशशतसहस्र)दशलक्षाऽऽत्मिकायां संख्यायाम, अनु० दससहस्स न०(दशसहस्र) सङ्ख्याभेदे, अनु०। दसहा अव्य०(दशधा) दशविधे, उत्त०२३ अ०। वाचा दसहासामायारी स्त्री०(दशधासामाचारी) दशधेत्याख्याऽभिधान यस्याः सा / दशप्रकारलक्षणायामिच्छाकाराऽऽदिसाभाचार्याम्, ध०३ अधि०। (ताश्च दश 'सामायारी' शब्दे वक्ष्यन्ते) दसा स्त्री०(दशा) दन्-श-अड, नि०नलोपः / चरितगतिसिद्धिगमनलक्षणायामवस्थायाम्, नं०। अनुभागेन युक्तो विभागो दशा / नि०चू०११ उ०। वर्षशताऽऽयुष्कापेक्षया वर्षदशकप्रमाणायां कालकृताया जन्त्ववस्थायाम, दशा साम्प्रतं प्रस्तुतोपयोगित्वात्कालस्य कालदशकद्वारे विशेषार्थप्रतिपिपादयिषयेदमाहबाला किडा मंदा, बलाय पन्ना य हायणि पवंचा। पन्भार मम्मुही सायणी य दसमा उ कालदसा / / 10 / / वाला क्रीडा च मन्दा च बला च प्रज्ञा च हायिनी ईषत्प्रपञ्चा प्रारभारा मृन्मुखी शायिनी / तथाहि एता दश दशा जन्त्ववस्थाविशेषलक्षणा भवन्ति। __आसा चस्वरूपमिदमुक्तं पूर्वमुनिभिः"जातमित्तरस जंतुस्स, जा सा पढमिया दसा। ण तत्थ सुहदुक्खाई, बहु जाणंति बालया।।१।। वितियं च दसंपत्तो, णाणाकिड्डाहि किड्डइ। न तत्थ कामभोगेहि, तिव्वा उप्पजई मई / / 2 / / ततियं च दसंपत्तो, पंचकामगुणे नरो। समत्थो भुजिउ भोए, जइ से अत्थि घरे बहू // 3 // चउत्थी उबला नाम,जं नरो दसमस्सिओ। समत्थो बलं दरिसिउं, जइ होइ निरुवद्दवो।।४।। पंचमि, उ दस पत्तो, आणुपुचीऍ जो नरो। इच्छियत्थं विचिंतेति, कुडुबं वाऽभिकखति // 5 // कूट्ठी उ हायणी नाम, जं नरो दसमस्सिओ। विरजइ य कामेसु, इंदिएसु य हायति / / 6 / / सत्तमिं च दसं पत्तो, आणुपुवीइजो नरो। निढुहइ चिक्कण खेलं, खासतिय अभिक्खणं / / 7 / / संकुचियवलीचम्मो, संपत्तो अट्टमिंदसं। णारीणमणभिप्पेओ, जराए परिणामितो / / 8 / / णवमी मम्मुही नाम, जं नरो दसमस्सिओ। जराघरे विणस्संतो, जीवो वसई अकामओ ||6|| हीनभिन्नसरो दीणो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ सुवइ, संपत्तो दसमि दसं // 10 // " दश०१ अ० स्था०ा नंगा नि०चूला दीपवाम्, "अपेक्षन्तेन च स्नेह, नपात्रं न दशाऽन्तरम् / परोपकारनिरताः, मणिदीपा इवोत्तमाः॥१॥" इत्युटः / चित्ते कामकृते विरहिणां नेत्ररागाऽऽद्यवस्थादशके, वाचन वस्वाञ्चले, वाचला दशैव दशसंख्या एव दशादशाधिकाराभिधायकत्वादशा इति बहुवचनान्तं स्त्रीलिङ्गम्।शास्त्रस्याभिधाने, षा० दशाध्ययनप्रतिबद्धप्रथमवर्गयोगाद्दशाग्रन्थविशेषे, अणु०१ श्रु०१ वर्ग 1 अ०॥ दस दसाओ पण्णत्ताओ / तं जहा-कम्मविवागदसाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाइयदसाओ, आयारदसाओ, पण्हावागरणदसाओ, बंधदसाओ, दोगिद्धिदसाओ, दीहदसाओ, संखेवियदसाओ॥ (दस त्ति) दशसख्याः (दसाओ त्ति) दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्ग शास्त्रस्याभिधान इति / कर्मणोऽशुभस्य विपाकः फलं कर्मविपाकः, तत्प्रतिपादिका दशाध्ययनाऽऽत्मकत्वाद् दशाः कर्मविपाकदशाः विपाकश्रुताऽऽख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धो, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनाऽऽत्मक एव। न चासाविहाभिमतः, उत्तरत्र विवरिष्यमाणत्यादिति।तथा साधूनुपासते सेवन्त इत्युपासकाः श्रावकाः, तद्गतक्रियाकलापप्रतिबद्धा दशा दशाध्ययनोपलक्षिता उपाशकदशाः सप्तममङ्गमिति। तथा-अन्तो विनाशः, सच कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः, ते च तीर्थकराऽऽदयः, तेषां दशा अन्तकृद्दशाः, इह चाऽष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्संख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितम्। तथोत्तरः प्रधानो नारयोत्तरो विद्यत इत्यनुत्तर उपपतनमुपपातो जन्मेत्यर्थोऽनुत्तरश्वासावुपपातश्चेत्यनुत्तरोपपातः, सोऽस्ति येषा तेऽनुत्तरोपपातिकाः सर्वार्थसिद्धाऽऽदिविमानपञ्चकोपपातिन इत्यर्थः, तद्वक्तव्यता प्रतिबद्भगा दशा दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशा