________________ दसवेयालिय 2483 - अभिधानराजेन्द्रः - भाग 4 दसवेयालियणिजुत्ति इति सप्तमेऽध्ययनेऽर्थाधिकार इति / उक्तं च-"सावजऽणवजाणं, वयणाणं जो न याणति विसेसं / वोत्तुं पितस्स नखम, किमंग ! पुण देसणं काउं / / 1 / / " इत्यादि / तच निरवद्यं वचः स्वाचारे प्रणिहितस्य भवतीत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति / आह चप्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन भणितमुक्तम्। प्रणिधानं नामविशिष्टश्वेतोधर्म इति / उक्तं च "पणिहाणरहियस्सेह, निरवज्जं पि भासिय। सावज्जतुल्लं विष्णेयं, मज्झत्थेणेह संबुड // 1 // '' इत्यादि। आचारप्रणिहितश्च यथोचितविनयसंपन्न एव भवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति। आह च-नवमेऽध्ययने विनयोऽर्थाधिकार इति। उक्तं च-"आयारपणि-हाणम्मि, से सम्मं वकृती बुहे। णाणादीणं विणीते जे, मोक्खट्ठा णिव्विर्गिछिए / / 1 / / " इत्यादि। एतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग्भिक्षुरित्यनेन संबन्धेन स भिक्ष्वध्ययनमिति / आह च-दशमेऽध्ययने समाप्ति नीतमिदं साधुक्रियाऽभिधायकं शास्त्रम् / एतक्रियासमन्वित एव भिक्षुर्भवति।अत आह-एष भिक्षुरिति गाथाचतुष्टयार्थः। स एवंगुणयुक्तोऽपि भिक्षुः कदाचित कर्मपरतन्त्रत्वात्कर्मणश्व बलवत्त्वात्सीदेत्, ततस्तस्य स्थिरीकरणं कर्तव्यमतस्तदर्थाधिकारवदेव चूडाद्वयमित्याहदो अज्झयणा चूलिय, विसीययंते थिरीकरणमेगं। विइए विवित्तचरिया, असीयणगुणाइरेगफला॥२४|| द्वे अध्ययने। किम्? चूडा चूडेव चूडा, तत्र प्रमादवशाद्विसीदति सति साधौ संजमे स्थिरीकरणमेकं प्रथमम, स्थिरीकरणफलमित्यर्थः / तथा च तत्रावधावप्रेक्षिणः साधोर्दुःप्रजीवित्वे नरकपाताऽऽदयो दोषा वर्ण्यन्ते इति। तथा च द्वितीयेऽध्ययने विविक्तचर्या वर्ण्यते। किंभूता? असीदनगुणातिरेकफला, तत्र विविक्तचर्यकान्तचर्या द्रव्यक्षेत्रकालभावेष्व संबद्धता, उपलक्षणं चैषा नियतचर्याऽऽदीनामिति / असीदन गुणातिरेकः फलं यस्याः सा तथा-विधति गाथाऽर्थः // 24 // दसकालियसस एसो, पिंडत्थो वन्निओ समासेणं / एतो एकेक पुण, अज्झयणं कित्तइस्सामि / / 25 / / दशकालिकस्य प्राग्निरूपितशब्दार्थस्य, एषोऽनन्तरोदितः, पिण्डार्थः सामान्यार्थः, वर्णितः प्रतिपादितः, समासेन संक्षेपेण, अत ऊर्द्ध पुनरेकैकमध्ययनं कीर्तयिष्यामि प्रतिपादयिष्यामीति, पुनःशब्दस्यव्यवहित उपन्यासः।इतिगाथाऽर्थः।।२५|| दश०१ अ०॥ अथ शास्त्रकर्तुः स्तवमाहसिज्जंभवं गणहरं, जिणपडिमादसणेण पडिबुद्धं / मणगपिअरं वि दसकालिअस्स निजूहगं वंदे / / 1 / / शय्यभवम्, अनुत्तरज्ञानाऽऽदिधर्मगणं धारयतीति गणधरस्तं, जिनप्रतिमादर्शनेन प्रतिबुद्धं मिथ्यात्वाविरत्यज्ञाननिद्राऽपगमेन सम्यक्त्वविकाशं प्राप्त, नि!हकं पूर्वगतोद्धतार्थविरचनाकतरिं, मनकपितरं दशवैकालिककृतं वन्दे स्तौमीति गाथाऽक्षरार्थः / भावार्थस्तु कथानकादवसेयः श्रीसुधर्मशिष्यो हि जम्बूः, तस्य श्रीप्रभवः, तस्य शय्यम्भवः / / 1 / / मणगं पडुच सिखं-भवेण निजूहिआ दसऽज्झयणा। वेआलिआइ ठविआ, तम्हा दसकालिअंनाम / / 2 / / मनकं प्रतीत्य मनकाऽऽख्यमपत्यमाश्रित्य शय्यंभवेन नि!ढानि पूर्वगतादुद्धृत्य विरचितानि, दश अध्ययनानि द्रुमपुष्पिकाऽऽदीनि सभिश्वध्ययनप्रान्तनि / विगतः कालो विकालः, विकलनं वा विकालः, शकलः खण्डश्चेति। तस्मिन् विकाले निर्वृत्तं दशाध्ययननिर्माणं च इदं वैकालिकम्॥२॥ यंप्रतीत्य कृतंतगतवक्तव्यतामाहछहिँ मासेहिँ अहीयं, अज्झयणमिणं तु अज्जमणगेण। छम्मासा परिआओ, अह कालगओ समाहीए।३।। षड्भिर्मासैरधीतं पठितमध्ययनमिदं तु अधीयत इत्यध्ययनम्। इदमेव दशवकालिकाऽऽख्यं शास्त्रम् / केनाऽधीतमित्याह-आर्यमणकेन भावाऽऽराधनयोगात् आरायातः सर्वहेयधर्मेभ्य इत्यार्यः, आर्यश्वासौ मणकश्चेति विग्रहः / तेन, षण्मासाः पर्याय इति / तस्याऽऽर्यमणकस्यषण्मासाएव प्रव्रज्याकालः, अल्पजीवितत्वात्। अत एवाऽऽह-अथ कालगतः समाधिनेति / यथोक्तशास्त्राध्ययनपर्यायानन्तरं कालगत आगमोक्तेन विधिना मृतः, समाधिना शुभलेश्याध्यानयोगेनेतिगाथाऽर्थः / / 3 / / अत्र चैव वृद्धवादः-यथा तेनैतावता श्रुतेनाऽऽराधितमेवमन्येऽप्येतदध्ययनानुष्टानत आराधका भवन्त्विति। आणंदअंसुपायं, कासी सिजंभवा तहिं थेरा। जसभद्दस्स य पुच्छा, कहणा य विआलणा संघे ||4|| आनन्दाश्रुपातम्-- अहो आराधितमनेनेति हर्षाश्रुमोक्षणमकार्षुः कृतवन्तः शय्यभवाः प्राख्यावर्णितस्वरूपाः, तत्र तस्मिन् काले स्थविराः श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थं बहुवचनमिति / यशोभद्रस्य च शय्यंभवप्रधानशिष्यस्य, गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा-भगवन् ! किमेतदकृतपूर्वमित्येवंभूता? कथना च भगवतः संसारस्नेह ईदृशः सुतो ममाऽयमित्येवंरूपा। चशब्दादनुतापश्च यशोभद्राऽऽदीनाम्। अहो ! गुराविव गुरुपुत्रके वर्तितव्यमिति, नतत् कृतमस्माभिरित्येवंभूतप्रतिबन्धदोषपरिहारार्थम् / न मया कथितं नात्र भवतां दोष इति गुरुपरिसंस्थापनं च / विचारणा सङ्घ इति।शय्यंभवेनाल्पायुषमेनमवेत्य मयेदं शास्त्र नियूंढ किमत्र युक्तमिति निवेदिते विचारणा सङ्केकालह्रासदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेदित्येवंभूता स्थापना चेति गाथाऽर्थः / दश०२ चूणवीरमोक्षात् "वासाएँ सहस्सेहि, वरिससहस्सेहिँ नवहिँ वोच्छेदो / दसवेयालियसुत्तरस दिण्णसाहम्मि बोद्धव्वो // 816 // " तिका दसवेयालियणिजृत्ति स्त्री०(दशवैकालिकनियुक्ति) दशवैकालिकरय भद्रबाहुस्वामिरचितनियुक्तिग्रन्थे, दश०। "जयति विजितान्यतेजाः, सुराऽसुराधीशसेवितः श्रीमान्। विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिर्वीरः॥१॥" इहार्थतोऽर्हत्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धतस्य शारीरमानसाऽऽदिकटुकदुःखसन्तानविनाशहेतोर्दशकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचरस्य व्याख्या प्रस्तूयते। तत्र प्रस्तुतार्थप्रचिकटयियवेष्टदेवतानमस्कारद्वारेणाऽशेषविघ्नविनायकाऽपोहसमर्था परममङ्गलाऽऽलयामिमां प्रतिज्ञागाथामाह नियुक्तिकारःसिद्धिगइमुवगयाणं, कम्मविसुद्धाण सव्वसिद्धाणं /