SearchBrowseAboutContactDonate
Page Preview
Page 1160
Loading...
Download File
Download File
Page Text
________________ दसवेयालिय 2482 - अभिधानराजेन्द्रः - भाग 4 दसवेयालिय ष्पिकाऽऽदीन्यध्ययनानि यतः, तस्माद्दशकालिकं नाम / व्युत्पत्तिः पूर्ववत्। | दशवकालिकं वा विकालेन निर्वृत्तम्, संकासाऽऽदिपाटाचातुरर्थिकष्ठक् / "तद्धितेष्वचामादेः" / / 7 / 2 / 117 // इत्यादिवृद्धकालिकम्। दशाध्ययननिर्माण च तद्वैकालिकं च दशवैकालिकमिति गाथार्थः / एवं येन वा यद्वा प्रतीत्येति व्याख्यातम् / इदानी __ यतो नियूढानीत्येतद्व्याचिख्यासुराहआयप्पवायपुव्वा, निजूढा होइ धम्मपन्नत्ती। कम्मप्पावायपुव्वा, पिंडस्स उ एसणा तिविहा।।१६।। सच्चप्पवायपुव्वा, निज्जूढा होइ वक्कसुद्धीउ। अवसेसा निजूढा, नवमस्स उतइयवत्थूओ।।१७।। वीओ वि य आएसो, गणिपिडगाओ दुवालसंगाओ। एयं किर निशूढं, मणगस्स अणुग्गहट्ठाए॥१८|| इहाऽऽत्मप्रवाद पूर्व यत्राऽऽत्मनः संसारिमुक्ताऽऽद्यनेभेदभिन्नस्य प्रवदनमिति, तस्मानियूंढा भवति धर्मप्रज्ञप्तिः, षड्जीवनिकेत्यर्थः। तथा कर्मप्रवादपूर्वात्। किम्? पिण्डस्य तु एषणा त्रिविधा नियूंढति वर्तते। कर्मप्रवादपूर्व नामयत्र ज्ञानाऽऽवरणीयाऽऽदिकर्मणो निदानाऽऽदिप्रवदनमिति / तस्मात् किम्? पिण्डस्यैषणा त्रिविधा गवेषणाग्रहणैषणा-ग्रासैषणाभेदभिन्ना / निर्मूढा सा पुनस्तत्राऽमुना संबन्धेन पतति / आधाकर्मोपभोक्ता ज्ञानाऽऽवरणीयाऽऽदिकर्मप्रकृतीबंधनानि / उक्तं च- "आहाकम्मं भुंजमाणे समणे अट्ट कम्मपगडीओ बंधइ।" इत्यादि। शुद्धपिण्डोपभोक्ता चाशुभान्न बध्नातीत्यलं प्रराड़े न / प्रकृतं प्रस्तुमः / सत्यप्रवादपूर्वाद् नि'ढा भवति वाक्यशुद्धिस्तु। तत्र सत्यप्रवाद नाम-यत्र जनपदसत्याऽऽदेः प्रवदनमिति / वाक्यशुद्धिर्नामसप्तममध्ययनम् / अव-शेषाणि प्रथमद्वितीयाऽऽदीनि नियूढानि नवमस्यैव प्रत्याख्यान-पूर्वस्यतृतीयवस्तुन इति। द्वितीयोऽपि चाऽऽदेशः। आदेशो विध्यन्तरम् गणिपिटकादाचार्यसर्वस्वाद् द्वादशाहादाचाराऽऽदिलक्षणात्, इदं दशकालिकं, किलेति पूर्ववत्, निढमिति च। किमर्थम् ? मनकस्योक्तस्वरूपस्य अनुग्रहार्थमिति गाथात्रयार्थः। एवं यत इति व्याख्यातम् // 18 // अधुना यावन्तीत्येतत्प्रतिपाद्यतेदुमपुफियाइया खलु, दस अज्झयणा समिक्खुयं जाव। अहिगारा वि य एत्तो, वोच्छं पत्तेयमेकेके ||16 तत्र द्रुमपुष्पिके ति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि / (सभिक्खुयं जाव त्ति) स भिश्वध्ययनं यावत्, खलुशब्दो विशेषणार्थः / किं विशिनष्टि? तदन्ये द्वे चूड़े। यावन्तीति व्याख्यातम्। यथा चेत्येतत् पुनरधिकाराभिधानद्वारेणैव च व्याचिख्यासुः संबन्धकत्वेनेद गाथादलमाह-अधिकारादपि चातो वक्ष्ये प्रत्येकमे-कै कस्मिन्नध्ययने / तत्राध्ययनपरिसमाप्तेोऽनुवर्तत सोऽधिकारः। ति गाथाऽर्थः / / 16 / / पहमे धम्मपसंसा, सो य इहेव जिणसासणम्मि त्ति। विइए धिइए सक्का, काउंजे एस धम्मो त्ति / / 20 / / तइए आयारकहा, उखुड्डिया आयसंजमोवाओ। तह जीवसंजमो विय, होइ चउत्थम्मि अज्झयणे // 21 // भिक्खविसोही तवसंजमस्स गुणकारिया उ पंचमए। छठे आयारकहा, महई जोग्गा महयणस्स // 22 // वयणविभत्ती पुण सत्तमम्मि पणिहाणमट्ठमे भणियं / णवमे विणओ दसमे, समाणियं एस भिक्खु त्ति / / 23 / / प्रथमेऽध्ययने कोऽर्थाधिकारः? इत्यत आह-धर्मप्रशंसा / दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य प्रशंसा स्तवः, सकलपुरुषा र्थानामेवधर्मः प्रधानमित्येवंरूपा। तथाऽन्यैरप्युक्तम्-"धनदोऽार्थिनां प्रोक्तः, कामिनां सर्वकामदः / धर्म एवापवर्गस्य, पारम्पर्यण साधकः // 1 // " इत्यादि। स चात्रैव जिनशासने धर्मो, नाऽन्यत्र, इहैव निववद्यवृत्तिसद्भावात्। एतयोत्तरत्रन्यक्षेण वक्ष्यामः / धर्माभ्युपगमेच सत्यपि मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतस्तन्निराकरणार्थाधिकारवदेव द्वितीयाध्ययनम् / आह च–द्वितीयेऽध्ययने अथमर्थाधिकारः। धृत्या हेतुभूतया शक्यते कर्तुम्। 'जे' इति पूरणार्थो निपातः, एष जैना धर्म इति / उक्तं च - "जस्स धिई तस्स तवो, जस्स तवो तस्स सा गती सुलभा / जे अधितिमतपुरिसा, तवो वि खलु दुल्लभो तेसिं / / 1 / / ' सा पुनतिराचारे कार्या, न त्वनाचारे, इत्यतस्तदर्थाधिकारवदेव तृतीयाध्ययनम् / आह च-तृतीयेऽध्ययने कोऽर्थाधिकारः? इत्यत आहआचारगोचरा कथा आचारकथा, सा चेहैवाणुविस्तरमेदाता यत आहक्षुल्लिका लध्वी, सा च आत्मसंजमोपायः / संयमनं संयमः, आत्मनः संयम आत्मसंयमस्तदुपायः / उक्तं च "तस्याऽऽत्मा संयमे यो हि, सदाचारे रतः सदा। स एव धृतिमान धर्मस्तस्यैवच जिनादितः।।१।।'' इति। स चाऽऽचारः षड् जीवनिकायगोचरः प्राय इत्यतश्चतुर्थमध्ययनम्। अथवाऽऽत्मसंयमस्तदन्यजीवपरिपालनमेव तत्त्वतः इत्यतस्तदाधिकारवदेव चतु-र्थमध्ययनम्। आह च-तथा जीवसंजमोऽपि भवति चतुर्थेऽध्ययनेऽर्थाधिकार इति / अपिशब्दादात्मसंयमोऽपि तद्भाव्येव वर्तते। उक्तं च - "छसु जीवनिकाएसुं, जे बुहे संजए सदा। से चेव होति विण्णये, परमत्थेण संजए / / 1 / / " इत्यादि / एवमेव धर्मः, स च देहे स्वस्थे सति पाल्यते, स चाऽऽहारमन्तरेण प्रायः स्वस्थोनभवति, सच सावद्येतर मेद इत्यनवद्यो ग्राह्य इत्यतस्तदर्थाधिका-रवदेव पञ्चममध्ययनमिति। आह च-भिक्षाविशोधिस्तपःसंयमस्य गुणकारिकैव पञ्चमऽध्ययनेऽर्थाधिकार इति / तत्र भिक्षण भिक्षा, तय विशोधिः सावधपरिहारेणेतरस्वरूपकथनमित्यर्थः,तपः प्रधानः संयमस्तपः संयमः, तस्य गुणकारिकैवेयं वर्त्तते इति। उक्तंच-"से संजतेसमक्खाते, निरवज्जाहार जे विऊ। धम्मकायद्विते सम्म, सुहजोगाण साहए।१॥" इत्यादि। गोचरप्रविष्टन च सता स्वाचारं पृष्टन तद्विदाऽपि न महाजनसमक्ष तत्रैवविस्तरतः कथयितव्यः, अपि तु आलये / गुरवो वा कथयन्तीति वक्तव्यम् / अतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति / आह च-- षष्ठेऽध्ययनेऽर्थाधिकारः आचारकथा। साऽपि महती, नक्षुल्लिका, योग्या उचिता, महाजनस्य विशिष्टपरिषद इत्यर्थः। वक्ष्यति च--"गोयरग्गपविट्ठो उ, न निसिजइ कत्थइ। कहं च ण पबंधिजा, चिट्ठिजा णेव संजए।।१।।" इत्यादि। आलयगतेनापि तेन, गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्यमिति। अतस्तदर्थाधिकारखदेव सप्तममध्ययनमिति। आह च-"वयणविभत्ती'' इत्यादि / वचनस्य विभक्तिर्वचनविभक्तिः, विभजन विभक्तिरेव भूतमनवद्यम्, इत्थं भूतं च सावद्यमित्यर्थः, पुनःशब्दः शेषाध्ययनार्थाधिकारेभ्य अस्याधिकृतार्थाधिकारस्य विशेषणार्थ
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy