________________ दसउर 2478 - अभिधानराजेन्द्रः - भाग 4 दसण्णकूड तोषाचास्मै सर्वकाम-गुटिकानां शतं ददौ / / 46 / / सोऽथ वीतभये दिव्य-प्रतिमां नन्तुमागमत। तत्राभूदतिसारोऽस्य, पालितो देवदत्तया // 47|| उल्लाघः सोऽथ तास्तस्यै, दत्त्वा प्रव्रजितः स्वयम्। वर्णः स्वर्णसमो मे ऽस्त्वित्याशैकां गुटिकामसौ॥४८|| तत्प्रभावात्तथाभूता, दध्यौ भोगार्थिनी पुनः। एष राजा पितृप्रायः, परे चास्य मुखेक्षकाः।।४६।। प्रद्योतार्थमथ प्राऽऽश, द्वितीयां गुटिकामसौ। सुवर्णगुटिकारूपं, तस्य तद्देव्यथाऽब्रवीत्॥५०।। तेन प्रेष्यत दूतोऽस्यै, प्रेक्ष्ये तं तावदाह सा। अनलगिरिणाऽथाऽऽगाद्रात्रौ दृष्टोऽरुदच सः॥५१॥ अहमेष्यामि यद्येतां,प्रतिमां सह नेष्यसि। स तत्प्रपद्य तत्पाा , निशां निर्गम्य जग्मिवान् // 52 / / तत्समा प्रतिमामन्या,कारयित्वाऽगमत्पुनः / मुक्त्वैतां तां गृहीत्वा च, सुवर्णगुटिकां च सः।।५३।। तत्रानलगिरद्त्रीच्चाररगन्धेन बाधिताः। उदायनगजाः सर्वेऽप्यभूवन्निर्मदास्तदा / / 54 / / राजपुंभिस्ततो राज्ञो, विज्ञप्तं देव ! दासिका। हृता प्रद्योतराजेन, रात्रावागत्य चोरवत्॥५५|| या त्वसौ प्रतिमा साऽस्ति, तेऽभ्यधुर्देव ! विद्यते। पूजाकालेऽथ पुष्पाणि, दृष्ट्वा म्लानान्यचिन्तयत् // 56 // प्रतिबिम्ब विमुच्याऽत्र, प्रतिमा सा हृताऽमुना। प्रतिमां मुञ्च चेट्यस्तु, दूतेनोचेऽथ तं नृपः / / 57 / / नार्पयत्ता स राजाऽथा-चालीज्ज्येष्ठऽपितं प्रति। दशापि गणराजानस्तस्य तेन सहाचलन्।५८|| तापात च मरौ सैन्य, जलाभावादबाध्यत। ततः प्रभावतीदेवः, स्मृतोऽकार्षीत्रिपुष्करीम् // 56 / / आदिमध्यान्तगां सैन्य-सुस्थोऽथोञ्जयिनीं ययौ। पुन तेन राजोचे, प्रद्योतं को जनक्षयः?||६०।। द्वयेऽपि सैनिकः सन्तु, पश्यन्तः पारिपार्श्वकाः। आरूढयोः पदात्योर्वा, तुल्यस्थित्यो रणोऽस्तु नौ / / 61 / / ऊचे प्रद्योतराजोऽपि. सावष्टम्भमिदं वचः। योत्स्यावहे रथेनाऽऽवां, प्रागभ्येत्य रणाङ्गणे // 6 // अथाऽऽरुह्यानलगिरि, प्रद्योतः प्रातरागतः। उदायनो रथेनाऽऽगादवन्तीश जगाद च // 63 // राजन्नसत्यसन्धोऽसि, नास्ति मोक्षस्तथापि ते। भावी प्रद्योत ! खद्योतस्त्वं मे वाणार्कसङ्गतः।।६४।। स्थंन्यस्याथ मण्डल्या, प्रद्योतेभमुदायनः। उत्क्षिप्तोत्क्षिप्तपादान्तः, क्षिप्त्वा वाणानपातयत् // 65|| प्रद्योतो निपतन्नागाद्, बडोदायनभूभुजा। भाले दासीपतिरिति, दत्त्वाऽड् कं धरणे कृतः // 66 / / गत्वा राजा ततोऽवन्त्यां, दचाऽऽज्ञां सर्वतो निजाम्। निषिद्धः प्रतिमां गृह्णन्नधिष्ठात्र्याऽचलत्ततः।।६७|| वर्षाकाले विचालेऽस्थादवरकन्दभयादथ। धूलीवप्र विधायाऽस्थुर्दशाऽपि परितो नृपाः।।६८|| प्रद्योतो धरणस्थोऽपि, बुभुजे भूभुजा सह। पृष्टः पर्युपणायां च, भोज्यं सूदेन तेऽस्तु किम्? // 66 / / चण्डोऽवादीद्यान्मृत्योः, का पृच्छा मेऽद्य सूदप!? सबभाषे पर्युवणा, राजेन्द्रोऽद्यास्त्युपोषितः / / 70 // सोऽभ्यधान्मेऽप्यभक्तार्थः, पर्वपर्युषणाऽद्य चेत्। ममाऽपि मातापितरौ, श्रावको यद् बभूवतुः।।७१।। सूदाध्यक्षो नृपस्याऽऽख्यद्राजोचे धूर्त एषकः। किं पुनर्मम बद्धेऽस्मिन्, प्रतिक्रान्तिन सेत्स्यति / / 72|| ततः स क्षामितो मुक्त्वा, दत्तास्तस्यैव मालवाः / ललाटे पट्टबन्धश्च, बद्धोऽड् कच्छादनाकृते।।७३|| नृपा मुकुटबद्धाः प्राक्, बद्धपट्टा इतोऽभवन् / वर्षाव्यतिक्रमेयासीन्निजं पुरमुदायनः // 74|| आगत्याऽऽगत्य यस्तत्र, वसति स्म वणिग्जनः। सोऽस्थात्तत्रैव तजझे, पुरं दशपुरं ततः॥७॥" आ०क०। दश०। विशे०। आ०चूला आ०म० उत्त० नं० दसकालियन०(दशकालिक) कालेन निवृत्त कालिकं.प्रमाणकालेनेति भावः / दशाध्ययनभेदाऽऽत्मकत्वाद्दशप्रकारं कालिकम, प्रकारशब्दलोपाद्दशकालिकम् / दशवैकालिकाऽऽख्ये ग्रन्थे, दश०१ अ०। दसगुण पुं०(दशगुण) एकगुणापेक्षया दशाभ्यस्ते, स्था०१० ठा०। दसगुणकालग पुं०(दशगुणकालक) दशगुण एकगुणकालापेक्षया दशाभ्यस्तः कालो वर्णविशेषो येषां तेषु, स्था० १०ठा०। दसजाइकुलकोडिजोणिप्पमुहसयसहस्स न० (दशजातिकुल-- कोटियोनिप्रमुखशतसहस्र) दशैव जातौ यानि कुलकोटीनां जातिविशेषलक्षणानां योनिप्रमुखाणि उत्पत्तिस्थानद्वारकाणि शतसहस्राणि लक्षाणि तेषु. स्था०१० ठा०। दसट्ठाण न०(दशस्थान) दशसु प्रकारेषु, दश स्थानानि नैरयिकाणामनिष्टानि, देवानां चेष्टानि शब्दाऽऽदीनीति / भ०१४ 205 उ०। ('वीईवयण' शब्दे प्रसंगाद्वक्ष्यन्ते) दसट्ठाणणिव्वत्तिय पुं०(दशस्थाननिर्वर्तित) दशभिः स्थानः प्रथमसमयकेन्द्रियत्वाऽऽदिभिः पर्यायहेतुभियैर्निर्वृत्ता बन्धयोग्यतया निष्पादितास्ताः तेषु, दशभिः स्थानैर्निर्वृत्तिा येषां तेषु च / स्था०१० ठा०। दसण पुं०(दशन) दशनानिचकुन्द कलिकाः स्युः। है। दश्यते अनेन / दन्ते, शिखरे च। करणे ल्युट्। कवचे, भावे ल्युट् / दशने, दन्ताऽऽदिना आघाते च / प्रव०३८ द्वार। वाच०। दसणाम न०(दशनामन्) दशविधपदार्थनामनि, अनुग अथ दशनामाभिधानार्थमाहसे किं तं दसनामे ? दसनामे दसविहे पण्णत्ते / तं जहागोणे, नोगोणे, आयाणपएणं, पडिवक्खपएणं, पहाणयाए, अणाइयसिद्धे, नामेणं अवयवेणं, संजोगेणं, पमाणेणं / अनु०॥ (टीका सुगमा) दसण्ण पुं०(दशाण) दश ऋणानि दुर्गाणि जलानि वा यत्र / ऋणशब्दे वृद्धिः / वाचा मृत्तिकावतीपुरीप्रतिबद्धे देशविशेष, प्रज्ञा०१ पद। सत्रा उत्त०। प्रव०ा आ०म०ा नदीभेदे, स्त्रीला वाच०। दसणकूड न०(दशार्णकूट) स्वनामख्याते कूटे, आ०का आ० म० आचा०। आ०चू०। प्रति०। (गयग्गपय' शब्दे तृतीयभागे 842 पृष्ठेऽस्य व्याख्या)