________________ दस 2477 - अभिधानराजेन्द्रः - भाग 4 दसउर 'ण मनुष्यरूपकटकाऽऽदिविभूषितानीति / क्षेत्रदशकं दश क्षेत्रप्रदेशाः, कालदशकदश काला वर्तनाऽऽदिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थः / वक्ष्यति च-- ''बाला किड्डा मंदा' इत्यादिना / भावदशकंदश भावाः, तेच सान्निपातिकभावे स्वरूपतो भावनीयाः। अथ चैत एव विवक्षय दशाध्ययनविशेषा इति / एष एवंभूतः खलु निक्षेपो न्यासः, दशशब्दस्य बहुवचनत्वाद्दशानां षड्डिधो भवति / तत्र खलुशब्दोऽवधारणार्थः / एष एव प्रक्रान्तोपयोगीति / तुशब्दो विशेषणार्थः / किं विशिनधि? नाऽयं दशशब्दमात्रस्य, कि तु तद्वाच्यस्याऽर्थस्याऽपीति गाथाऽर्थः / / 6 / / दश०१अ०। अनु०॥ कल्पना स्था दसउर न०(दशपुर) साम्प्रतं 'मन्दसोर' इति प्रसिद्वे स्वनामख्याते नगरे, आ०का "आस्ता तावद्रक्षिताऽऽयों , वक्ष्ये दशपुरोद्गमम् (2) अस्त्य कम्पा पुरी चम्पा, तत्राऽऽसीत्स्वर्णहारकः। कुमारनन्दिः स्वीलोलः, श्रीमान् श्रीद इवापरः / / 3 / / दर्श दर्श सुरूपां स्त्री.पञ्चस्वर्णशताऽऽहतेः। उद्वहन लम्पटः सोऽभूद्योषित्पशशतीपतिः / / 4 / / अतीालुस्ततः सौधमेकस्तम्भ विधाप्य सः। विललस समं ताभिर्देवीभिरव देवराट् // 5 // अथान्यदा पञ्चशैल-द्वीपगं व्यन्तरीयुगम्। गच्छन्नन्दीश्वरद्वीप-यात्राया वृत्रहाऽऽज्ञया॥६॥ विद्युन्मालीव तत्कान्तः, प्रच्युतः पञ्चशैलराट्र। ततो विरहदुःखार्त, शून्यं पश्यदितस्ततः।।७।। कुमारनन्दिं चम्पायां, दृष्ट्वोद्याने व्यचिन्तयत्। एषोऽस्मदल्लभो भावी, तत्तस्य स्वमदर्शयत|८ के युवामेति तेनोक्ते,ताभ्यां देव्यावितीरितम्। ऊचे च यावन्नागच्छेः, पञ्चशैलमथो गते / / 6 / / नृपमुक्त्व स तद्भक्तोऽवादयत पटह पुरे। कुमारनन्दिं यः पञ्च-शैले नयति तस्य सः / / 10 / / स्वर्णकटिं प्रदत्ते त, दधे वृद्धनियामकः / पुत्राणां तद्धनं दत्त्वा, तं पोते न्यस्य सोऽचलत्।।११।। दूर गत्या बभाषे तं, निर्यामः किञ्चिदीक्षसे। सोऽभ्यधात्किमपि श्याम, प्रेक्षे निर्याभकोऽब्रवीत् / / 12 / / नितम्ब द्रवटोऽस्त्येष,पोतोऽस्याऽधोऽयमेष्यति। तत्त्वमत्रायलम्बेथाः, पोतोऽस्याधः स्फुटिष्यति॥१३॥ गतस्य तव शैलोर्द्ध , भारुण्डाः पञ्चशैलतः। द्विज / वास् त्र्यंहयो दयास्या. एष्यन्त्येकोदराः खगाः ||14|| तन्मध्यपदलनस्त्वं, पञ्चशैले गमिष्यसि। इत्युक्तः स तथाऽकार्षीत, पञ्चशैलं जगाम च।।१॥ निर्यामळः पुनः पोत-स्फोटादये गतो मृतः। व्यन्तरीभ्यां तु ताभ्यां स, दृष्टः श्रीस्तस्य दर्शिता // 16 // उक्तश्वान्न देहेन, भोग्ये आवां न ते ततः। हासाप्रहासाकान्तःस्या, पञ्चशैलाऽधिपो मृतः।।१७।। इत्युक्त्वाऽग्निप्रवेशाऽऽद्यं, कुर्वीथा दानपूर्वकम्। तत्कथंयाम्यथोद्याने, नीत्वा ताभ्याममोटि सः॥१८|| अथाऽऽपत्य जनोऽप्राक्षीत्प्रोक्षितं तत्र किं त्वया? सोऽवदत्त मया दृष्ट. व्यन्तयौं मर्त्यदुर्लभे // 16 // श्रमणाप सको मित्र, नागिलस्तत्र तेन सः। टारितोऽप्यविशद्दही, दत्त्वा दानं निदानवान् / / 20 / / पञ्चशैलाधिपः सोऽभूदवात्खिन्नोऽथ नागिलः / परिव्रज्याऽच्युते जातः, शक्रसामानिकः सुरः।।२१।। अथान्यदाऽष्टमद्वीपे,यात्रायां पटहाऽग्रहे। पटहोऽक्षेपि शक्रेण, विद्युन्मालिगले बलात्।।२२।। वादयन्नथ भीतोऽगात्, ज्ञात्वा तं नागिलोऽवधेः। आगाद्र द्ष्टुं स तत्तेजोऽसहमानः पलायत॥२३॥ तेजः संहत्य मां वेत्सीत्युक्तोऽवग्वेत्ति को न वः? श्राद्धरूपमथाऽऽदय, ज्ञापितो धर्मवैभवम्।।२४।। सविनःसोऽवदन्मित्र ! कर्त्तव्यमधुना दिश। तेनोक्तं कुरु वीरार्चा ,सम्यक्त्वं भावि ते ततः॥२५|| महाहिमवतःसोऽथाऽऽदाय गोशीर्षचन्दनम्। कृत्वाऽर्चा तेन वरिस्य, न्यक्षिपत्काष्ठसंपुटे||२६|| प्रेक्ष्यान्तःसागरं पोतं, षण्मासोत्पातबाधितम्। निवर्त्य तेषामुत्पातमार्पयत्तं समुद् गकम् / / 27|| उक्तश्चास्तीह देवाधिदेवार्चा भूभुजेऽऽj ताम्। आगत्योऽन्तःपुरे वीत-भये वीतभयस्ततः।।२८|| उदायनो नृपस्तत्र, भौतभावितमानसः। तस्य प्रभावती देवी, प्रेयसी परमाऽऽर्हता // 26 // राज्ञः सर्मपितःपोत--वणिरभिः स समुद्गकः। देवाधिदेवप्रतिमा, मध्येऽस्त्यस्येत्यभाषत / / 30 / / पशुस्तस्येन्द्राऽऽद्यर्चाऽर्थं, वाहितोऽपि हि नाऽवहत्। प्रभावत्युक्तदेवाधिदेवश्रीवीरमूर्तये / / 31 / / स्पर्शेऽपि परशोः प्रादुरासाऽऽर्चा दवनिर्मिता। कृतमन्तःपुरे चैत्यं, सदाऽऽनर्च प्रभावती॥३२॥ देवी तत्रान्यदाऽनृत्यद्राजा वीणामवादयत्। देव्याः शीर्षमदृष्ट्वाऽस्य, भ्रष्टं तद्वादनं करात्॥३३॥ देवी रुष्टाऽवद दुष्ठ, नृत्तं किं मे, न सोऽवदत्। निर्बन्धात् कथिते देवी , स्माऽऽहाऽऽर्हत्या न मेऽस्ति भीः।।३४।। देवी स्नात्वाऽन्यदा चेटीमूचे वासांस्युपानय। साऽनयद(द)क्तवासासि, देव्यूचे किमिदं हले!।।३।। देवार्चाप्रगुणां मां किं, न जानासीति तां कुधा। करस्थदर्पणेनाहन्मर्माऽऽघाताच सा मृता।।३६।। मृतां तां वीक्ष्य देवीति, दध्यौ हा खण्डितं व्रतम्। ततो राजानमापृछ्याऽनशनं विदधाम्यहम्॥३७|| निर्बन्धेऽमस्त तद्राजा, बोध्योऽहमिति चाब्रवीत्। कृत्वाऽथाऽनशनं मृत्वा, देवी देवोऽभवद्दिवि॥३८|| प्रतिमा देवदत्तांच, कुब्जा देव्याज्ञयाऽऽर्चयत्। देवी देवेन स्वप्नाऽऽद्यैर्बोधिताऽप्यबुधन्न राट् // 36 // ततः प्रभावती देवी, भौतो भूत्वाऽगमत्सभाम् / द्युफलान्यार्पयद्राक्षे, राजा तान्याद सादरः।।४।। सन्ति क्वेतान्यपृच्छच, भौतं सोऽवग्मदाश्रमे। ततस्तेन सम राजा, तत्कृतेऽगात्तदाश्रमे // 41|| सोऽथ तैर्मोष्टमारेभे,नश्यंस्तेभ्यो ययौ वने। साधनालोक्य तत्राऽस्थात, श्रुत्या धर्ममबुद्ध च / / 4 / / ततः प्रभवतीदेवो, दर्शयित्वा स्वमूचिवान्। राजन्नितो मे देवर्द्धिस्तत् त्वमत्र दृढो भव // 43 // स्मरेः कार्ये च गाढे मामित्युक्त्वा तत्र जग्मुषी। वीक्ष्याऽऽस्थाने तथैव स्वं, सोऽर्हद् धर्मे दृढोऽभवत् / / 44 / / इतश्च श्राद्धो गान्धारो, नत्वा तीर्थभुवोऽखिलाः / नन्तुं वैताढ्यचैत्यानि, तन्मूलेऽस्थादुपोषितः।।४५।। तत्र शासनदेव्या स, नित्यचैत्यान्यवन्द्यत।