________________ दव्वत्थव 2474 - अभिधानराजेन्द्रः - भाग 4 दव्वभावतदुभयकम्प नत्वादाप्तोपदिष्ट त्वेन विहितक्रियारूपत्वाद्विचित्रयतियोगतुल्यो ग्लानप्रतिचरणस्वाध्यायाऽऽदिरूपनानाविधसाधुव्यापारसदृशोऽतिशुभ इत्यर्थः / मकारोऽत्र प्राकृतशैलीप्रभवः / एषोऽनन्तरोतो. जिनभवनविधानाऽऽदिकोऽनुष्ठानविशेषः / (यदिति) यस्मादेवम्, तत्तस्मात्, कथं केन प्रकारेण, द्रव्यस्तवो भवति। न कथञ्चिदित्यर्थः / भावस्तव एवाऽयमिति हृदयम्। अत्रोत्तरमाह-तद् द्वारेण जिनभवनाऽऽदिविधानमुखेन अल्पः साधुयोगापेक्षया स्तोको, भावः शुभाध्यवसायो यस्मात्स तथा, तस्मात, इह च भावप्रत्ययो दृश्यः, अतोऽल्पभावत्वात्। इति गाथाऽर्थः / / 16 / / अमुमेव गाथार्थ भावयन्नाहजिणभवणाऽऽदिविहाण-दारेणं एस होति सुहजोगो। उचियाणुट्ठाणं पि य, तुच्छो जइजोगतो णवरं / / 17 / / जिनभवनाऽऽदिविधानद्वारेण अर्हदाश्रयबिम्बप्रभृतिकरणमुखेन, एष द्रव्यस्तवः भवति वर्तत, शुभयोगो यतियोगवत् प्रशवस्तव्यापारः। तथाउचितानुष्ठानमपि च विहितक्रियाऽपि च जिनभवनाऽऽदिविधानद्वारेणेव / अपि चेति समुचये। यद्यप्येवं तथाऽपितुच्छोऽसारः, अल्पभावरूपत्वाद्, यतियोगतः साधुव्यापारात्सकाशात्, नवर केवलम् / यतियोगो हि स्वरूपेणैव शुभः, उचितानु-ष्ठानरूपश्चाय पुनर्जिनभवनाऽऽदिद्वारेणैव, न तु स्वरूपतः, स्वरूपेण तस्य मनागवद्यरूपत्वात् / इति गाथाऽर्थः / / 17 / / पशा०६ विव०। दर्श०। आ०म०) पं०व० प्रति० त०। दर्श०('थय' शब्देऽस्मिन्नेव भागे 2384 पृष्ठे विशेषोऽस्य वीक्ष्यः) (द्रव्यस्तवस्य करणे करणे च श्रावकोऽधिकारीति अनुमोदने च साधुरपीति च 'चेइय' शब्दे तृतीयभागे 1222 पृष्ठे प्रत्यपादि) अयमिहापि द्रव्यस्तवस्य संक्षिप्तोऽर्थःश्रमणानामियं पूर्णा, सूत्रोक्ताऽऽचारपालनात्। द्रव्यस्तवाद् गृहस्थानां, देशतस्तद्विधिस्त्वयम् / / 1 / / न्यायार्जितधनो धीरः, सदाचारःशुभाऽऽशयः। भवनं कारयेनं, गृही गुर्वादिसंमतः / / 2 / / तत्र शुद्धां महीमादौ, गृह्णीयाच्छास्त्रनीतितः। परोपतापरहितां,भविष्यद्भद्रसन्ततिम्॥३॥ अप्रीति व कस्याऽपि, कार्या धर्मोद्यतेन वै। इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः / / 4 / / आसन्नोऽपि जनस्तत्र, मान्यो दानाऽऽदिना यतः। इत्थं शुभाऽऽशयस्फात्या, बोधिवृद्धिः शरीरिणाम् / / 5 / / इष्टकाऽऽदि दलं चारु, दारु वा सारवन्नवम्। गवाद्यपीडया ग्राह्य, मूल्यौचित्येन यत्नतः // 6|| भृतका अपि सन्तोष्याः, स्वयं प्रकृतिसाधवः / धर्मो भावेन न व्याज्याद्धर्ममित्रेषु तेषु तु // 7 // स्वाऽऽशयश्च विधेयोऽत्रानिदानो जिनरागतः। अन्याऽऽरम्भपरित्यागाजलाऽऽदियतनावता।।८।। इत्थं चैषोऽधिकत्यागात्सदारम्भः फलान्वितः। प्रत्यहं भाववृद्ध्याऽऽप्तैवियज्ञः प्रकीर्तितः / / 6 / / जिनगेहं विधायैवं, शुद्धमव्ययनीवि च / द्राक् तत्र कारयेद्विम्बं, साधिष्ठानं हि वृद्धिमत्।।१०।। विभवोचितमूल्येन, कर्तुः पूजापुरस्सरम् / देयं तदनघस्यैव, यथा चित्तं न नश्यति / / 11 / / दा० 5 द्वारा दव्वदेवत्त न० (द्रव्यदेवत्व) साध्ववस्थायाम्, भ०१४ श०७३०। दव्वधम्म पुंगान० (द्रव्यधर्म) दानधर्मे, यो दानधर्मः स द्रव्यधर्मोऽवगन्तव्य इति। तथा चोक्तम्-'अन्नं पानंच वस्व च, आलयः शयनाऽऽसनम् / शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ||1|| सूत्र०१ श्रु०६ अ०) दव्वपिय त्रि०(द्रव्यप्रिय) द्रव्यं परिहासः, तत् प्रिये, औ०। दव्यपुरिस पुं०(द्रव्यपुरुष) पुरुषत्वेन उत्पत्स्यते यस्तस्पिन, उत्पन्नपूर्वे च / स्था०। विशेषोऽत्रैन्द्रसूत्राद् द्रष्टव्यः / भवत्यत्र भाष्यगाथा"आगमओऽणुवउत्तो, इयरो दव्वपुरिसो तिहा तइओ / एगभवियाइ तिविहो, मूलुत्तरणिम्मिओ वा वि'" // 1 // मूलगुणनिर्मित: पुरुषप्रायोग्यानि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्यवेति भावपुरुषभेदाः / स्था०३ ठा० उ०। दव्यपोग्गलपरियट्ट पुं०(द्रव्यपुद्गलपरिवर्त्त) 7 तथा व्यविषयके पुद्गलपरिवर्ते , कर्म०५ कर्म०। पं०सं०। प्रव०। (तद् व्याख्या 'पोग्गलपरिय' शब्दे वक्ष्यते) दव्वप्पमाण न०(द्रव्यप्रमाण) द्रव्याणां गणनायाम, यथा एतावन्तोऽबौदनभेदाः, एतावन्ति च शाकविधानानि, इयन्तश्च खाद्यविशेषाः, एतावन्ति च द्राक्षापानकाऽऽदीनि पानकानि। व्य०६ उ०। अनु०। दव्वभावतदुभयकप्प पुं०(द्रव्यभावतदुभयकल्प) द्रव्यभावसंमिलिते कल्प, पं०भा०। तदुभयकप्पो अहुणा, एते च्चिय दव्वभावकप्पा तु। दोण्हि वि मिलिया एते, तदुभयकप्पो इमो सो य / / आहारे अट्ठविहे, सेजोवहि पंचपंचगविसोही। दंसणचरित्तगुत्तो, तवसमितिगुणेहिं सोहेति / / असणाऽऽदीतो चउहा, उवकारिचउव्विहो य तस्सेव। एसऽढविहाऽऽहारो, परूवणा तस्सिमा होति / / असणं तु ओदणाऽऽदी, तदुवकारी उ खीरकुसणाऽऽदी। पाणं तु पाणमेव तु, कप्पूराऽऽदी तु उवकारी।। खाइम फलाइयं तू, सूताऽदी होति तदुवकारी तु / साइम तंबोलाऽऽदी, तुण्हाऽऽदी तदुवकारी तु॥ एतं आहाराऽऽदी, उग्गमउप्पायणेसणासुद्धं / उप्पाएँ दंसणाऽऽदीहि जुतो अहवा तदट्ठाए।पं०भा०। इयाणिं उभयकप्पा-एए चे व दो दव्वभावकरपे य मे लिया एगट्टा य उभयक प्पो भवइ, दविय कप्पर स पुरिमद्ध, भावकप्पस्स पच्छिमद्धं / गाहा--(आहारे अट्टविहं त्ति) अट्टविहे