________________ दव्वत्थव 2473 - अभिधानराजेन्द्रः - भाग 4 दव्वत्थव तं विसयम्मि वि ण तओ, भावथयाहेउतो णेयं / / 6 / / यदित्यनुष्टानम्, पुनःशब्दो विशेषद्योतनार्थः, एतद्वियुक्तमौचित्यरहितम् / तथा एकान्तेनैव सर्वथैव, भावशून्यं बहुमानशून्यम, एकातग्रहणाद भावलेशयुक्तस्य कथञ्चिदौचित्यवियुक्तस्यापि द्रष्य तवत्वनाह, इतिशब्द उपप्रदर्शनार्थी भिन्नक्रमश्च / तदित्यनुष्ठानम, विषयेऽपि वीतरागेऽपि, विधीयमानम्, आस्तामविषये / न तको न द्रव्यस्तयो, भवतीति ज्ञेयं ज्ञातव्यम्। कुतः? इत्याह-भावस्तवाहेतुतः, इह भावप्रत्ययस्य लुप्तस्य दर्शनाद्भावस्तवाहेतुत्वाद्धावस्तवाकारणत्वात् / इति गाथाऽर्थः ||6|| अथ कस्मादावस्तवाहेतुभूतमनुष्ठानं द्रव्यस्तवो न भवती त्यत्राऽऽशड्कायामाहसमयम्मि दव्वसद्दो, पायं जं जोग्गयाएँ रूढो त्ति। णिरुवचरितो उ बहुहा, पओगभेदोवलंभाओ।।१०।। समये सिद्धान्ते, द्रव्यशब्दो द्रव्यमित्येष ध्वनिः, प्रायो बाहुल्येन, प्रायोग्रहणात् क्वचिद् प्राधान्येऽपि, वर्तत इति सूचनार्थः / यदिति यस्मादर्भ , अयं च ‘‘भावत्थयहऊ(१२)" इत्यनेन व्यवहितगा-- थाऽवयतन संभत्स्यते। योग्यतायां योग्यतावाचित्वे, रूढः प्रसिद्ध इत्यव सक्ष्यमा गोदाहरणन्यायेन उपचरितादुपचारान्निष्क्रान्तो निरुपचरितोऽकाल्पनिकः, तुशब्द एवकारार्थः तेन निरुपचरित एव / कुत एतदेवमित्याह-बहुधा बहुभिः प्रकारैः, प्रयोगभेदोपलम्भात् प्रयुक्तविशेषदर्शनात् / इति गाथाऽर्थः // 10 // प्रयोगभेदानेव दर्शयन्नाह-- मिउपिंडो दव्वघडो, सुसावगो तह य दव्वसाहु त्ति। साहू य दव्वदेवो,एमाइ सुए जओ भणितं / / 11 / / मृत्पिण्डो मृत्तिकापिण्डो द्रव्यघटो द्रव्यतो योग्यतया घटो द्रव्यघटः, सुश्रावकः शोभनः श्रमणोपासकः, तथा चेति समुच्चये। द्रव्यतो योग्यतया साधुव्यसाधुः / इतिशब्द उपप्रदर्शनार्थः / साधुश्च संयतः पुनः, द्रव्यतो योग्यतया देवः सुरो द्रव्यदेवः / (एमाइति) इह चशब्दलोपः प्राकृतत्वात्, ततश्च एवमादि च इत्यादि प्रयोगजातम्। आदिशब्दाद् द्रव्यनारकाऽऽदिग्रहः / श्रुते प्रवचने, यतो घरमाणितमुक्तम्, ततः प्रयोगभेदोपलFभाद् द्रध्यशब्दो योग्यताया रूढः। इति गाथाऽर्थः / / 11 / / यतो योग्यताया द्रव्यशब्दःता भावत्थयहेऊ, जो सो दव्वत्थओ इह इट्ठो। जो उ ण एवंभूओ, स अप्पहाणो परं होति / / 12 / / तत्तस्माद्भावस्तवहेतुश्चरणप्रतिपत्तिकारण साक्षात्परम्परया वा यो जिनभवनविधानाऽऽद्यनुष्ठानविशेषः / (सो इति) असौ द्रव्यस्तवः पूर्वोक्तस्वरूपः / इह द्रव्यस्तवाधिकारे, अन्यत्र पुनः स्तवशब्दार्थज्ञः, तत्रानुपयुक्तपुरुषाऽऽदिलक्षणोऽपि, इष्टोऽभिमतो द्रव्यस्तवस्वरूपविदुषाम् / ननु भावस्तवाहेतुरपि द्रव्यस्तवोऽभव्याऽऽदीनामिष्यते, तत्कथमित्याह यः पुनद्रव्यस्तवविशेषः,(न) नैव, एवं-भूतोऽमुंप्रकारं भावस्तवकारणत्वलक्षण प्राप्तः, स द्रव्यस्तवः, अप्रधानोऽशोभनः, परं केवलम्, भवति जायते, द्रव्यस्तवस्याप्राधान्येऽपि प्रवृत्तः, अशोभनत्वं चास्य भावस्तवाहेतुत्वादेवेति गाथाऽर्थः / / 12 / अप्राधान्यार्थतामेव द्रव्यशब्दस्य दर्शयन्नाह अप्पाहण्णे वि इह, कत्थइ दिट्ठो उदव्वसद्दो त्ति। अंगारमहगो जह, दव्वायरिओ सयाऽभव्वो॥१३|| अप्राधान्येऽप्यप्रधानत्वेऽपि, न केवल योग्यतायामेव / इह प्रवचने, क्वचित् शब्दविषये, दृष्टस्तु उपलब्ध एव, द्रव्यशब्दो द्रव्य इति ध्वनिः, इतिशब्दो वाक्यार्थसमाप्तौ। इहैव निदर्शनामाह-अङ्गारमर्दकः प्रवचनप्रतीतः / यथेति दृष्टान्तार्थः / द्रव्याऽऽचार्य आचार्यत्वयोग्यताया अभावादप्रधानाऽऽचार्यः / कियन्तं कालं यावदित्याह-सदा आजन्माऽपीत्यर्थः / अथवा-सच स पुनः, अभव्यो मुक्तेरयोग्यो यत इतिगाथाऽर्थः / / 13 / / (अङ्गारमर्दकस-विधानक तु 'अंगारमद्दग' शब्दे प्र०भागे 43 पृष्ठे गतम्) "जो उन एवंभूतो, स अप्पहाणो पर होइ। (12)" इत्येवं पूर्वोक्तमर्थ निगमयन्नाहअप्पाहण्णा एवं, इमस्स दव्वत्थवत्तमविरुद्धं / / आणावज्झत्तणओ,न होइ मोक्खंगया णवरं / / 14|| अत्राधान्याद्भावस्तवाहेतुत्वेनाशोभनत्वात, एवमुक्तेन न्यायेनाप्राधान्यार्थे द्रव्यशब्दप्रवृत्तिदर्शनलक्षणेन. (इमस्त त्ति) अस्य भावस्तवाहेतोव्यस्तवस्य, द्रव्यस्तवत्वं द्रव्यस्तक्ता, अविरुद्ध सङ्गतमेव / एवं तर्हि भावस्तवहेतोस्तदहेतोश्च द्रव्यस्तवत्वाविरुद्धतायां सत्यामविशेष एव तयोः / सत्यम / नवरं केवलम्, न भवति न जायते. मोक्षाङ्गता निर्वाणहेतुता। 'इमस्स' इति वर्त्तते / कुतः? आज्ञाबाह्यत्वादाप्लवचनबहिष्कृतत्वात् / यदाज्ञाबाह्यं तन्मोक्षाई न भवति, तथाविधहिंसाऽऽदिवत, आज्ञाबाह्यश्वायंभावस्तवाहेतुर्द्रव्यस्तवः। इतिगाथाऽर्थः // 14 // यथाऽस्गादप्रधानान्मोक्षो न भवति, तथा फलान्तरमपि किं नास्तीत्याशड्याऽऽहभोगाऽऽदिफलविसेसो, उ अत्थि एत्तो वि विसयभेदेण। तुच्छो उत्तगो जम्हा, हवति पगारंतरेणावि ||15|| भोगा मनोज्ञशब्दाऽऽदयः, आदिशब्दात्स्वर्गसुकुलप्रत्ययातिशुभशरीराऽऽदिपरिग्रहः / ते एव फलविशेषः साध्यभेदो भोगाऽऽदिकफलविशेषः, पुनरस्ति भवति, इतोऽपि अप्रधानद्रव्यस्तवादपि, न केवलं प्रधानद्रव्यस्तवादेव / अथ कथमाज्ञाबाह्यानुष्ठानस्यैवं फलतेत्याशङ्कयाऽऽहविषयभेदेन गोचरविशेषेण, निखिलातिशयमाणिक्यमकराऽऽकरभगद्वीतरागलक्षणेन हेतुना, न हि भगद्विषयमाज्ञाविकलमप्यनुष्ठानम-फलम, पात्रप्राधान्यादिति। ननु यद्येवं फलमाज्ञाबाह्यानुष्ठान, तदा कथमस्याप्रधानद्रव्यस्तवतेत्यत्राऽऽह-तुच्छस्त्वल्पः पुनः,तकोऽसौ भोगाऽऽदिफलविशेषो, नाऽसी विवेकिनां फलतयाऽवभासते। कस्मादेवमित्याहयरमात कारणात्, भवति जायते, तको भोगाऽऽदिफलविशेष ति प्रकृतम्। प्रकारान्तरेणाप्युपायान्तरेणाऽपि, जिनभवनाऽऽदिव्यतिरेकेणाऽपि, बालतपःप्रभृतिभिरपीत्यर्थः / "दोर्गत्यदोषविच्छेदिमणिप्राप्तिपटीयसः / पारावाराज्जरत्काचखण्डप्राप्तिःफल किमु? / / 1 / / '' इति गाथाऽर्थः / / 15 / / अथ द्रव्यस्तवस्याऽद्रव्यस्तवतामाशङ्कय परिहरन्नाहउचियाणुट्ठाणाओ, विचित्तजइजोगतुल्ल मो एस। जंता कह दव्वथओ,तदारेणऽप्पभावाओ॥१६|| (उचियाणुट्टाणाओ) इह भावप्रत्ययस्य लुप्तत्वे नो चितानुष्ठा