SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ दव्वत्थव 2472- अभिधानराजेन्द्रः - भाग 4 दव्वत्थव विहाणं) अर्हद् गृहप्रतिमाऽऽदीनां करणम्, उपलक्षणत्वात्कारणं च / कथं? सम्यगागमनीत्या। कुतः?भावस्तवरागतः सर्वविरतिबहुमानात। चरणं हि निर्वाणैकहेतुत्वाचरणं, ततस्तत्प्राप्त्युपायश्च द्रव्यस्तव इति विधेयोऽसावित्येवंरूपादिति। अथ भावस्तवस्वरूपमाह-भावस्तवः परमार्थपूजनमध्यात्मपूजा वा। क इत्याह-चरणप्रतिपत्तिः-सर्वविरत्यभ्युपगमः। इतिगाथाऽर्थः / / 2 / / अथ द्रव्यस्तवलक्षणं प्रपञ्चयन्नाहजिणभवणविंबठावण-जत्तापूजाऽऽइ सुत्तओ विहिणा। दव्वत्थओ त्ति नेयं, भावत्थयकारणत्तेण // 3 // जिनस्याहतो भवनं च गृहं, बिम्बं च प्रतिमा, स्थापनं च प्रतिष्ठा, यात्रा चाष्टाहिका महिमा, पूजा च पुष्पाऽऽद्यर्चनम्, आदिर्यस्य / जिण्गुणगानाऽऽदेस्तज्जिनभवनबिम्वस्थापनयात्रापूजाऽऽदि / द्रव्यस्तव इति ज्ञेयमिति योगः। तच न यथा-कथञ्चिदित्याह-सूत्रत आगममाश्रित्य, तदपि विधिना। "जह रेहइ तह सम्म" इत्यादिना विधानेन द्रव्यस्तवो भावस्तवकारणभूतपूजा, इतिशब्द उपप्रदर्शनार्थः / ज्ञेयं ज्ञातव्यम्। केन हेतुनेत्याह-भावस्तवकारणत्वेन चरणप्रतिपत्तिरूपभावस्तवहेतुत्वात / द्रव्यशब्दो ह्यात्र कारणपर्यायाः। इति गाथाऽर्थः / / 3 / / कथं पुनरिदं जिनभवनाऽऽदि भावस्तवहेतुतां प्रतिपद्यत इत्याहविहियाणुट्ठाणमिणं, ति एवमेयं सया करें ताणं / होइ चरणस्स हेऊ, णो इहलोगादवेक्खाए ||4|| विहितमाप्ताऽऽगमे विधेयतयाऽनुमतं यदनुष्ठान क्रिया तद्विहिता-- नुष्ठानम्, इदं जिनभवनाऽऽदिकरणलक्षणम्, इति अनेनोल्लेखेन, एवमनेन भावस्तवानुरागलक्षणेन स्तवविधिलक्षणेन वा प्रकारेण / एतन्जिनभवनाऽऽदिविधानम्, सदासर्वकालम्, कुर्वता विदधताम्, भवति जायते, चरणस्य सर्वविरतिरूपचारित्रस्य, हेतुर्निमितम् / एतदेव जिनभवनाऽऽदि। उक्तविपर्यये यद्भवति तदाह-(नो) नैव / इहलोकाऽऽद्यपेक्षया ऐहभविककीर्त्यादिपारभविकदेवत्वराज्याऽऽदिपदार्थावलम्बनेन चरणरय हेतुर्भवति। एतन्जिनभवनाऽऽदिविधानं निदानदूषितत्वात् / इति गाथाऽर्थः / / 4 / / भावस्तवकारणत्वं तदनुरागश्च द्रव्यस्तवनिबन्धनमुक्तम्, तत्राऽसो यथा भावस्तवहेतु: स्यात्तथा दर्शित, न पुनस्तदनुराग इत्याशयाऽऽह-- एवं चिय भावथए, आणाआराहणा उरागो वि। जं पुण इय विवरीयं, तं दव्वथओ वि णो होइ / / 5 / / (एव चिय) एवमेव विहितानुष्ठानमिदमित्यभिप्रायेणेव, भावस्तवे चरणप्रतिरूपे, रागोऽपि बहुमानोऽपि, न केवलं चरणहेतुत्वमित्यपिशब्दार्थः / कुत एतदेवमित्याह-आज्ञाऽऽराधनादाप्तापेदशोनुपालनात, निर्निदानतामेव हि जिनाः समनुमन्यन्ते। उक्तविपर्ययमाह- | यज्जिनभवनाऽऽदिविधानम्, पुनरिति पूर्वोक्तार्थविलक्षणताप्रतिपादनार्थः, इति विपरीतमनन्तरोक्तविधिविपर्ययः, तम, तजिनभवनाऽऽ दिविधानम, द्रव्यस्तवोऽप्युक्तनिर्वचनो न केवल भावस्तवः, उत्सूत्रत्वात्, न भवति न जायते / इति गाथाऽर्थः / / 5 / / उक्तविधिविपरीततायामपि तद् द्रव्यस्तवो भविष्यतीत्याशङ्कयाऽऽहभावे अइप्पसंगो, आणाविवरीयमेव जं किंचि। इह चित्ताणुट्ठाणं, तंदव्वथओ भवे सव्वं // 6 / / भावे च सत्तायां पुनर्द्रव्यस्तवस्योक्तविपरीतत्वेऽपि। किं स्यादित्याहअतिप्रसङ्गोऽतिव्यातिलक्षणानिष्टाऽऽपत्तिरित्यर्थः / अतिप्रसङ्ग मेव व्यनक्ति-आज्ञाविपरीतमेव आप्तवचनविपर्यस्तमपि। एवकारस्यापिशब्दार्थत्वाद, यदित्यनुष्टानम्, किञ्चिदनियतस्वरूपम् इह स्तवविचारे, चित्रानुष्ठानं नानाप्रकाराहिंसाऽऽदिक्रिया, तदनुष्ठानम्, द्रव्यस्तवो निर्णीतशब्दार्थों, भवेत् जायेत। सर्वे समस्तम्। आज्ञाविपरीत्त्वान्निर्विशेषेण जिनभवनाऽऽदिविधानवदिति गाथाऽर्थः / / 6 / / इहार्थे परमतमाशङ्कय परिहरन्नाहजं वीयरागगामी, अह तं णणु गरहितं पि हु स एवं / सिय उचियमेव जंतं, आणाआराहणा एवं / / 7 / / यदित्यनुष्ठानम्, वीतरागगामि जिनविषयम, अथेति परप्रश्रार्थः, तदनुधानमाज्ञाविपरीतमपिद्रव्यस्तवो भवति, नपुनर्यत्किञ्चन हिंसाऽऽदिकम्, अतः कथमतिप्रसङ्ग इति परमतम / एतत्परिहरन्नाह- नन्विति) परमताक्षमायाम्, गर्हितमपि निन्द्यमपि गालीप्रदानाऽऽदिकम, आस्तामगर्हितम्। हुशब्दो वाक्यालकृतौ, स इति द्रव्यस्तवः, भवेद / एवमनेन भवदभ्युपगतन्यायेनाऽऽज्ञाविपरीतमप्यनुष्ठानं वीतरागविषय द्रव्यस्तव इत्योवंलक्षागेन / पुनः परमतमाशङ्कमान आहस्याद्भवेत्, तब मतिरिति गम्यम् / यदुत उचितमेव सङ्गतमेव, यदित्याज्ञाविरीत वीतरागगामि, तदित्यनुष्ठानं द्रव्यस्तवो भवति, न पुनगेर्हितमपीति नातिप्रसङ्गः / इत्यत्रोत्तरमाह-आज्ञाऽऽराधनाऽऽप्ताऽऽदेशपालनैव / एवमनेनैव प्रकारेणाऽऽज्ञाविपरीतमपि यदुचितमनुष्ठानं तद्रव्यस्तव इत्येवंलक्षणेन द्रव्यस्तवाभ्युपगमे आज्ञाऽनुपालनारूपत्वादुचितस्य / नाह्याज्ञातीर्णमप्युचित भवितुमर्हति। इति गाथाऽर्थः // 7 // उचितानुष्ठानस्याऽऽज्ञाऽनुपालनारूपत्वमेव दर्शयन्नाहउचियं खलु कायव्वं, सव्वत्थ सया णरेण बुद्धिमता। इय फलसिद्धी णियमा, एस चिय होइ आणं ति॥८|| उचितमेव देशकालावस्थाऽऽद्यपेक्षया सङ्गतमेव, खलुरवधारणे, कर्त्तव्यं विधेयम्, सर्वत्र समस्ते देशे, पात्रे वा। सदा सर्वदा, नरेण पुषेण। नरग्रहण प्राणिमात्रोपलक्षणम्। धर्मोपदेशे नराणां प्राधान्यात्, बुद्धिमत मतिमता, बुद्धिविकलो हि न तत् कर्तुं क्षमते, बुद्धिवैकल्यादेव। अथ करनादेवमुपदिश्यत इत्याह-इत्यनेनोचितकरणेन, फलसिद्धिः साध्यनिष्पत्तिः, नियमान्निश्चयेन, साध्यश्च मुख्यवृत्त्या मोक्षार्थः, तत्कारणतया धर्मार्थः, प्रसङ्गतश्चेतराविति। प्रकृतार्थयोजनायाऽऽह-एषैवानन्तरोक्ता उचितक्रिया, भवति वर्तत, आज्ञा आप्तोपदेशः, तत उचितकरणमाज्ञाऽऽराधनेति स्थितम / इतिशब्दः समाप्तावुपप्रदर्शने वा। इति गाथाऽर्थः / / 8 / / उचितकरण द्रव्यस्तव इत्युक्तम्, अर्थतस्यैव विपर्ययनाहजं पुण एयविउत्तं, एगंतेणेव भावसुण्णं ति।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy