________________ दव्वणय 2471 - अभिधानराजेन्द्रः - भाग 4 दव्वत्थव दव्वणय पुं०(द्रव्यनय) द्रव्यार्थिकनये, उत्त०। द्रव्यनय आह-''यथा नामाऽऽदि नाऽऽकार, विना संवेद्यते तथा। नाऽऽकारोऽपि विना द्रव्यं, सर्व द्रव्याऽऽत्मकं ततः / / 1 / / " तथाहिद्रव्यमेव मृदादि निखिलस्थासकोशकुटकपालाऽऽद्याकारानुयायि वस्तु सत्, तस्यैव तत् तदाकारानुयायिनः सद्बोधविषयत्वात्, स्थासकोशाऽऽद्याकाराणां तु मृद्रव्यातिरेकिणा कदाचिदनुपलम्भात्, तच्चोत्पादाऽऽदिसकलविकारविरहितं तथातथाऽऽविर्भावतिरोभावमात्रान्वित संमूर्छितसर्वप्रभेदनिर्भेदबीजं द्रव्यमागृहीततरङ्गाऽऽदिप्रभेदस्तिमितसरः सलिलवत्। उत्त०१ अ०) आह चदव्वपरिणाममित्तं, मोत्तूणाऽऽगारदरिसणं किं तं? उप्पायव्वयरहियं, दव्वं चिय निव्वियारंतं॥६६|| को हि नाम स्थापनानयस्याऽऽकारग्रहः? यस्माद्द्रवतीति द्रव्यमनादिमदुत्प्रेक्षितपर्यायशृङ्खलाऽऽधारं मृदादिपूर्वपर्यायमात्रतिरोभावेऽग्रेतनपर्यायमात्राऽऽविर्भावः परिणामो द्रव्यस्य परिणामो द्रव्यपरिणामः, स एव तन्मात्र, तमुक्त्वा किमन्यदाकारदर्शनं, येनोच्यते "आगारो चिय मइसद्दवत्थु / " इत्यादि? ननु द्रव्यमेव तत्, किं विशिष्टम् ? उत्पादव्ययरहितं, निर्विकारमउत्फणविफणकुण्डलिताऽऽकारसमन्वितसर्पद्रव्यवद् विकाररहितं; किं हि नाम तत्राऽपूर्वमुत्पन्नं, विद्यमानं वा विनष्ट, येन विकारः स्यादिति भावः / इति गाथाऽर्थः / / 66 / / ननु कथमुत्पादाऽऽदिरहितमुच्यते, यावता साऽऽदिके द्रव्ये उत्फणविफणाऽऽदयः पर्याया उत्पद्यमाना निवर्तमानाश्च प्रत्यक्षेणैव दृश्यन्ते? इत्याह-- आविब्भावतिरोभावमेत्तपरिणामकारणमचिंतं। निचं बहुरूवं पिय, नडो व्व वेसंतराऽऽवन्नो // 67 / / आविर्भावश्च तिरोभावश्च, तायेव तन्मात्रं, तदेव परिणामः, तस्य कारणं द्रव्यं, यथासर्प उत्फणविफणाऽवस्थयोरिति, नह्यत्रापूर्व किश्चिदुत्पद्यते, किं तर्हि? छन्नरूपतया विद्यमानमेवाऽऽविर्भवति। नाप्याविर्भूतं सद्विनश्यति, किंतुछनरूपतया तिरोभावमेवाऽऽसादयति। एवं च सत्याविर्भावतिरोभावमात्र एव कार्योपचारात्कारणत्वमस्यौपचारिकमेव / तस्मादुत्पादाऽऽदिरहितं द्रव्यमुच्यत इति / आहननु यद्येकस्वभावं निर्विकारं द्रव्यं, तहनन्तकालभाविनामनन्तानामप्याविर्भावतिरोभावानामेकहेलयैव कारणं किमिति न भवति? इत्याह–अचिन्त्यमचिन्त्यस्वभाव द्रव्यं, तेनैकस्वभावस्याऽपि तस्य क्रमेणैवाऽऽविर्भावतिरोभावप्रवृत्तिः, सर्पाऽऽदिद्रव्येष्वेकस्वभावेष्वप्युत्फणविफणाऽऽदिपर्यायक्रमप्रवृत्तेः प्रत्यक्षसिद्धत्वादिति। ननु यद्येवम्, उत्फणविफणाऽऽदिबहुरूपत्वात्पूविस्थापरित्यागेन चोत्तरावस्थाऽधिष्ठानादनित्यता द्रव्यस्य किमिति न भवति? इति चेत् इत्याह-वेषान्तराऽऽपन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव / इदमुक्तं भवति-यथा नायकविदूषककपिराक्षसाऽऽदिपात्रावसरेषुवेषान्तराण्यापन्नो वेषान्तराऽऽपन्नो नटो बहुरूपः, एवमुत्फणविफणाऽऽदिभावैर्यद्यपि द्रव्यमपि बहुरूपम्, तथाऽपि नित्यमेव, स्वयमविकारित्वात, आकाशवत्, यथाहि घटपटाऽऽदिसंबन्धेन बहुरूपमप्याकाशं स्वयमविकारित्वाद् नित्यम्, एवं द्रव्यमपीति भावः / इति गाथाऽर्थः / / 67 // कारणमेव च सर्वत्र त्रिभुवन विद्यते, न क्वचित् कार्यम्, यच्च कारणं तत् सर्व द्रव्यमेव, इति दर्शयन्नाह-- पिंडो कारणमिटुं, पयं व परिणामओ तहा सव्वं / आगाराइ न वत्थु, निकारणओ खपुप्फ व॥६८|| मृदादिपिण्डः कारणमिष्टं कारणमात्रमेवाभ्युपगम्यते। कुतः? इत्याहपरिणामित्वात् परिणमनशीलत्वात्, पयोवद् दुग्धवत्। यथा च पिण्डः, तथाऽन्यदपि सर्व स्थासकोशकुशूलाऽऽदिकं त्रैलोकयान्तर्गतं वस्तु कारणमात्रमेव, परिणामित्वात्, पथोवत् यद्यत् कारणं तत्सर्वं द्रव्यमेव, इति द्रव्यनयस्य स्वपक्षसिद्धिः। ननु मृत्पिण्डाऽऽदीनां कार्यभूताः स्थासकोशकुशूलघटाऽऽदयः प्रत्यक्षेणैव दृश्यन्ते, संबन्धिशब्दश्च कारणशब्दः सर्वदैव कार्यापेक्ष एव प्रवर्तते, तत्कथं कारणमात्रमेवाऽस्ति, नकार्यम्? इति चेत्। नैवम्, आविर्भावतिरोभावमात्र एव कार्योपचारात्, उपचारस्य चावस्तुत्वात्। इति स्वपक्षं व्यवस्थाप्य परपक्षं दूषयितुमाह-- (आगारेत्यादि) द्रव्यमात्र विहाय स्थापनाऽऽदिनवैर्यदाकाराऽऽदिकमभ्युपगम्यते. तत् सर्वमवस्तु / कुतः ? इत्याह-निष्कारणत्वात् कारणमात्ररूपतयाऽनभ्युपगमात्, तदभ्युपगमे त्वस्मत्पक्षवर्तित्वप्रसङ्गात्, इह यत् कारणं न भवति तद् न वस्तु, यथा गगनकुसुमम्, अकारणं च परैरभ्युपगम्यते सर्वमाकाराऽऽदिकम्, अतो वस्तु। इति गाथाऽर्थः // 68 // विशे० दव्वणाम न० (द्रव्यनामन्) द्रव्यलक्षणेऽर्थे , अनु०॥ तच्च "से किं तं दव्वणामे? दवणामे छविहे पण्णते / तं जहा-धम्मस्थिकाए० जाव अद्धासमए य। सेत्तं दवणामे।" अनु०॥ दव्वतो अव्य० (द्रव्यतस्) भावशून्यत्वेनाप्रधानतयाऽयथार्थमि-त्यर्थे , पञ्चा०१६ विव०। दव्वत्त न०(द्रव्यत्व) द्रवति ताँस्तान् पर्यायान् गच्छतीति द्रव्यं, तस्य भावस्तकम्। द्रव्यभावे, द्रव्या० द्रव्यत्वं द्रव्यभावत्वं, पर्यायाऽऽधारतोन्नयः। प्रमाणेन परिच्छेद्यं, प्रमेयं प्रणिगद्यते // 3 // द्रवतिताँस्तान्पर्यायान् गच्छतीतिद्रव्यं, तस्य भावस्तत्त्वम्। द्रव्यभावो हि पर्यायाऽऽधारताऽभिव्यङ्गचजातिविशेषः / "द्रव्यत्वं जातिरूपत्वाद् गुणो न भवति," ईदृक् नैयायिकाऽऽदिवासनया आशङ्का न कर्त्तव्या, यतः-"सहभाविनो गुणाः क्रमभुवः पर्यायाः।" इदृश्येव जैनशासने व्यवस्थाऽस्तीति / द्रव्यत्वं चेद् गुणः स्याद्रूपाऽऽदिवदुत्कर्षापकर्षभागि स्यादिति तु कुचोद्यम्, एकत्वाऽऽदिसंख्यायाः परमतेऽपि व्यभिचारेण तथा व्याप्त्यभावादेव निरसनीयम्॥३॥ द्रव्या०११ अध्या०। दव्वत्थव पुं०(द्रव्यस्तव) द्रव्ये द्रव्यविषयः स्तवः पूजा द्रव्यस्तवः। भावस्तवकारणभूते स्तवभेदे, पञ्चा०। स चदव्वे भावे य थओ, दव्वे भावथयरागओ सम्म / जिणभवणाऽऽदिविहाणं, भावथओ चरणपडिवत्ती।।२।। द्रध्ये द्रव्यविषयः, भावस्तव कारणभूत इत्यर्थः / भावे भावविषयः पारमार्थिकः, परिणामविशेषरूपो वेत्यर्थः / चशब्दः समुथये / स्तवः स्तोतव्यपूजनं, भवतीति गम्यम् / तत्राऽऽद्यं तावदाह-द्रव्ये द्रव्य-विषयः स्तवः। क इत्याह-(जिणभवणाऽऽइ