SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ दव्वट्ठिय २४७०-अभिधानराजेन्द्रः - भाग 4 दव्वट्ठिय ज गुणपर्यायभ्यश्चाभिन्नमस्ति, यद्यपि भेदो वर्तते द्रव्याऽऽदीनां गुणपयिभ्यः, तथाऽपि भिन्नविषविण्यर्पणा न कृता, अभेदाख्यैवार्पणा कृता, अतः कारणाद्यद्यद्रव्यं तत्तद्रव्यजन्यगुणपर्यायाभिन्नं तिष्ठति। यदेव द्रव्यं तदेव गुणो, यदेव द्रव्यं तदेव पर्यायो, महापटजन्यखण्डपटवत्तदात्मकत्वात्। अत्र हि विवक्षावशाद भिन्नाभिन्नत्वं शेयमिति / / 12 / / अथ चतुर्थ भेदमाहकर्मोपाधेरशुद्धाऽऽख्यश्चतुर्थो भेद ईरितः। कर्मभावमयस्त्वात्मा, क्रोधी मानी तदुद्भावात् / / 13 / / (कर्मेति) कर्मोपाधेः सकाशात् कर्ममिश्रजीवद्रव्यस्याशुद्धत्व जायते, ततः कर्मोपाधेरशुद्धद्रव्यार्थिकश्चतुर्थो भेदः कथितः / यतः कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिक इति भेदः / अस्य च लक्षणं कथयति-यथा कर्मभावमयः कर्मणां ज्ञानाऽऽवरणाऽऽदीनां भावाः प्रकृतयस्ते प्रचुरा यत्रेति कर्मभावमयः, आत्मा तादृग्रुपो लक्ष्यते। येन येन कर्मणा आगत्य आत्मा निरुद्धयते, तदा तत्तत्कर्मस्वभावतुल्यपरिणतः सन व्यवयिते, यतः कोधोदयाद् जीवः क्रोधीति व्यपदिश्यते, मानकर्मोदयाजीवो मानीति व्यपदिश्यते / एवं यदा यद् द्रव्य येन भावेन परिणमति, तदा तद् द्रव्यं तन्मयं कृत्वा ज्ञेयम्। यथालोहोऽग्निना परिणतो यदा काले प्राप्यते तदा अग्निरूप एतोद्भाव्यते, न तु लोहरूपः / एवमात्माऽपि मोहनीयाऽऽदिकर्मोदयेन यदा क्रोधाऽऽदिपरिणतः स्यात् तदा क्रोधाऽऽदिरूप एव बोद्धव्यः। अत एवाष्टावात्मनो भेदाः सिद्धान्ते व्याख्याता इति। अथ पञ्चमं भेदमाहउत्पादव्ययसापेक्षोऽशुद्धद्रव्यार्थिकोऽग्रिमः। एकस्मिन्समये द्रव्यमुत्पादव्ययध्रौव्ययुक् / / 14 / / उत्पादव्ययसापेक्षः पञ्चमो भेदोऽशुद्धद्रव्यार्थिको ज्ञेयः / यतःउत्पादव्ययसापेक्षः सत्ताग्राहकोऽशुद्धद्रव्यार्थिकःपञ्चम इति / / यथा एकस्मिन्समये द्रव्यमुत्पादव्ययध्रौव्यरूपं कथ्यते / कथं तद्? यः कटकाऽऽद्युत्पादसमयः स एव केयूराऽऽदिविनाशसमयः, परंतु कनकसत्ता कटककेयूरयोः परिणामिन्यावर्जनीयैव। एवं सति त्रैलक्षण्यग्राहकत्वेनेदं प्रमाणवचनमेव स्यान्न तु नयवचनमिति चेन्न / मुख्यगौणभावेनैवानेन नयेन लक्षण्यग्रहणान्मुख्यनयं स्वस्वार्थग्रहणेन नयाना सप्तभडीमुखेनैव व्यापारात् // 14 // अथषष्ठभेदमाहभेदस्य कल्पनां गृहन्नशुद्धः षष्ठ इष्यते / यथाऽऽत्मनो हि ज्ञानाऽऽदिगुणःशुद्धःप्रकल्पनात्।।१५।। (भेदेति) अशुद्धद्रव्यार्थिकः षष्ठो भेदो भेदस्य भेदभावस्य कल्पना गृह्णन् सन् जायते, यथाहि ज्ञानाऽऽदयो गुणाः शुद्धा आत्मनः कथ्यन्ते, इत्यत्र षष्ठी विभक्तिभेदं कथयति, भिक्षोः पात्रमितिवत् / परमार्थतस्तु गुणगुणिनोभेद एव नास्ति, तस्मात् कल्पितो भेदोऽत्र ज्ञेयो, न तु साहजिकः // 15 // अथ सप्तमं भेदं कथयतिअन्वयी सप्तमश्चैकस्वभावः समुदाहृतः। द्रव्यमेकं यथा प्रोक्तं, गुणपर्यायभावितम् / / 16 / / (अन्ययीति) अन्वयद्रव्यार्थिकः सप्तमो भेद एकस्वभाव उक्तः। यथाद्रव्यं चैक गुणैः पर्यायश्च भावितं वर्तते, द्रव्यमेक गुणपर्यायस्वभावमस्ति। | गुणेषु रूपाऽऽदिषु पर्यायषु कम्बुग्रीवाऽऽदिषु द्रव्यस्य घटस्यान्वयोऽस्ति। यतस्तत्सत्त्वे तत्सत्त्वमन्वयः / अथवा-सति सद्भावोऽन्वयः / यथा-सति दण्डे घटोत्पत्तिः / अत एव यदा द्रव्यं ज्ञायते तदा द्रव्यार्थाऽऽदेशेन तदनुगतसर्वगुणपर्याया अपि ज्ञायन्ते। यथा-सामान्यप्रत्यासत्त्या परस्य सर्वा व्यक्तिरपि अवगन्तव्या, तथा अत्राऽपि ज्ञेयमित्यन्वयद्यार्थिकः सप्तम इति / / 16 / / अथाष्टमभेदोत्कीर्तनमाहस्वद्रव्याऽऽदिकसंग्राही, ह्यष्टमो भेद आहितः। स्वद्रव्याऽऽदिचतुष्केभ्यः, सन्नों दृश्यते यथा।॥१७॥ (स्वेति) स्वद्रव्याऽऽदिग्राहको द्रव्यार्थिकोऽष्टमो भेदः कथितः। यथाअर्था घटाऽऽदिः स्वद्रव्यतः स्वक्षेत्रतः स्वकालतः स्वभावतः सन्नेव प्रवर्तते / स्वद्रव्याद घटः काञ्चनो, मृन्मयो वा / / 1|| स्वक्षेत्राद् घटः पाटलिपुत्रो, माथुरो वा / / 2 / / स्वकालाद् घटो वासन्तिको, गैष्मो वा / / 3 / / स्वभावात् घटः श्यामो, रक्तो वा / / 4 / / एवं चतुर्ध्वपि घटद्रव्यस्य सत्ता प्रमाणसिद्धेवाऽस्ति / स्वद्रव्यीऽऽदिग्राहको द्रव्यार्थिकोऽटमो भेद इति ज्ञेयम् // 17 // अथ नवम भेदमाह-- परद्रव्याऽऽदिकग्राही, नवमो भेद उच्यते / परद्रव्याऽऽदिकेभ्योऽसन्नर्थःसंभाव्यते यथा।|१८|| तेषु द्रव्यार्थाऽऽदिषु परद्रव्याऽऽदिग्राहको द्रव्यार्थिको नवमः / / 6 / / यथाऽर्थो घटाऽऽदिः परद्रव्याऽऽदिचतुष्टयेभ्योऽसन् वर्त्तते / घटापेक्षया परद्रव्यं पटः, अतस्तन्त्वादिभ्यो घटोऽसन्नस्ति॥१॥ परक्षेत्राद् यथाघटो माथुरो वर्त्तते, न काशीजः, किंतु घटक्षेत्रं मथुरा, तदपेक्षया काशी भिन्ना। अत एव परक्षेत्रात्काशीलक्षणादसन्घटः ।।सा परकालाद् यथाघटो वसन्ते निष्पन्नोऽतो वासन्तिको घटः, वसन्तापेक्षया ग्रेष्मो भिन्नस्ततो ग्रीष्मकालजाद्वासन्तिको घटोऽसन् / / 3 / / परभावाद्विवक्षितश्यामाऽऽदिभावापेक्षया रक्तो घटोऽसन् वर्तते / / 4 / / एवं परद्रव्याऽऽदिग्राहको द्रव्यार्थिको नवमः।।१८।। अथ दशमभेदोत्कीर्तनमाहपरमभावसंग्राही, दशमो भेद आप्यते / ज्ञानस्वरूपकस्त्वात्मा, ज्ञानं सर्वत्र सुन्दरम् / / 16 / / परमभावसंग्राही परमभावग्राहको दशमो भेदः कथितः / / 10 / / यथाज्ञानस्वरूपक आत्मा ज्ञानस्वरूपी कथितः, दर्शनचारित्र-वीर्यलेश्याऽऽदयो ह्यात्मनो गुणा अनन्ताः सन्ति , परं तु तेषु एकं ज्ञानं सारतर वर्तते / अन्यद्रव्येभ्य आत्मनो भेदो ज्ञानगुणेन दर्शयिष्यते। तस्मात्कारणाच्छीघ्रोपस्थितिकत्वेनाऽऽत्मनः परमस्वभावो ज्ञानमेवाऽऽस्ते / इत्थमन्येषामपि द्रव्याणा परमभावा असाधारणगुणा गृहीतव्याः / परमभावग्राहको द्रव्यार्थिको दशम इति / अत्रानेकस्वभावाना मध्ये ज्ञानाऽऽख्यः परमस्वभावो गृहीत इति द्रव्यार्थिकस्य दश भेदाः // 16 // द्रव्या०५ अध्या द्रव्यार्थिकभेदानाहुःआद्यो नैगमसंग्रहव्यवहारभेदात् त्रिधा ||6|| आद्यो द्रव्यार्थिकः / रत्ना०७ परि०। (तत्र नैगमाऽऽदीनां व्याख्याऽन्यत्र)
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy