________________ दव्वट्ठिय 2466 - अभिधानराजेन्द्रः - भाग 4 दव्वट्ठिय "पज्जवणयवुझंत, वत्थुदव्वट्टियस्स वएणिज्ज। जाव दविओवओगो अपच्छिमविअप्पणिव्वयणो॥८॥" (पूर्व ‘णय' शब्देऽस्मिन्नेव भागे 1886 पृष्ठे गाथेयं व्याख्याता) किं त्विहाप्युपयुक्तत्वेन किञ्चिद् विवियते न विद्यते पश्चिमे विकल्पनिर्व-चने सविल्पधीव्यवहारलक्षणे यत्र स तथा, संग्रहावसान इति यावत। ततः परं विकल्पवचनाप्रवृत्तेरीदृशो यावद्द्रव्योपयोगः प्रवर्तते तावद्रव्यार्यिकस्य वचनीयं वस्तु, तच पर्यायनयेन वि-विशेषेण उद्धं क्रान्तमेव विषयीकृतमेव पर्यायनयाऽऽक्रान्तं सत्तायां मानाभावादित्येकोऽर्थः / यद्वा-यद वस्तु सूक्ष्मतरसूक्ष्मतमाऽऽदिबुद्धिना पर्यायनयेन स्थूलरूपं त्यजता व्युत्क्रान्तंगृहीत्वा मुक्त, किमिदं मृत्सामान्यं, यद्घटाऽऽदिविशेषानुपरक्तविषयीभवदन्त्यमाकारेण(?) यावच्छुक्लरूपतमोऽन्त्यो विशेषस्तावत्तत्सर्वं द्रव्यार्थिकस्य वचनीयमतो यावदपश्चिमविकल्पनिवचनो योऽत्यो विशेषस्तावद् द्रव्योपयोगः प्रवर्तते इति द्वितीयोऽर्थः / अत एव द्रव्यपर्यायविषयतया, तदितराविषयतया वा न शुद्धजातीयद्रव्यार्थिकपर्यायार्थिक व्यवस्था, किं तूपसर्जनीकृतानर्थप्रधानीकृतस्वार्थविषयतया। तदुक्तम्"दव्वडिओ त्ति तम्हा, णत्थि णओ नियमसुद्धजाईओ। ण य पज्जवडिओ णाम को अभयणाय उ विसेसो // 6 // " भजनोपसर्जनप्रधानभावावगाहनादसामान्यसंग्रहेऽपि शुद्धद्रव्याथकान्तिको न स्यादिति चेन्न, स्थादेवं पर्यायनयविचारानवतारदशायामेव तस्य शुद्धत्वव्यवस्थितेः, तदवतारे तु पूर्वप्रवृत्तद्रव्यार्थिकाप्रामाण्यनिश्चयेन तदर्थाभावस्यैव निश्चयात्। तदुक्तम्"दव्वट्ठिअवत्तव्यं, अवत्थु णियमेण होइ पज्जाए। तह पज्जववत्थु अव-त्थुमेव दव्वट्टिअणयस्स॥१०॥" (सम्म०१ काण्ड) अवस्तु इतरनयप्राधान्योपस्थितिजनितं नयाप्रामाण्यनिश्चयकृताऽवस्तुत्वनिश्वयविषयः, तस्मात्पर्यायविनिर्मुक्तप्रकारताकस्य पर्यायनिष्टोपसर्जनत्वस्य विषयताकस्य वा द्रव्यार्थिकस्य तत्तत्तापनीतस्वार्थविचारदशायामेव शुद्धत्वं, पर्यायनयाऽऽयातभावाऽऽकालाया चाशुद्धत्वमिति विवेकः / नयो०। अथ नवसु नयेषु प्रथमो द्रव्यार्थिकनय उक्तः, अतस्तस्या भेदा दश, तेषु प्रथमं भेद विवरीषुराहद्रव्यार्थिकनयस्त्वाद्यो, दशधा समुदाहृतः। शुद्धद्रव्यार्थिकस्तत्र, ह्यकर्मोपाधितो भवेत् ||6|| (द्रव्यार्थिकति ) द्रव्यार्थिकपर्यायार्थिकाऽऽदिक्रमेण नया नव वर्तन्ते, तेषु आद्यः प्रथमो द्रव्यार्थिको नयः दशधा दशप्रकारः समुदाहृतः, तत्र च प्रथमो द्रव्यार्थिकनयः शुद्धद्रव्यार्थिक इति अकर्मोपाधितः कर्मणामुपाधितो रहितः शुद्धद्रव्यार्थिकः कथ्यते। सद् द्रव्यम् / लक्षणं त्विदम्सीदति स्वकीयान गुणपर्यायान् व्याप्नोतीति सत्, उत्पादव्ययध्रौव्ययुक्त सद, अर्थक्रियाकारिच सत्। यदेवार्थक्रियाकारितदेव परमार्थसत्, यच नार्थक्रियाकारितदेव परतोऽप्यसत्, इति निजनिजप्रदेशसमूहैरखण्डवृत्तात्स्वभावविभावपर्यायाद् द्रवति, द्रोष्यति, अदुद्रुयत् इति द्रव्यम्। गुणपर्याय-बद् द्रव्यम, गुणाश्रयो द्रव्यं वा / यदुक्तं विशेषाऽऽवश्यकवृत्ती "दवए दुयए दोरवयवो विगारो गुणाण संदावो। दवं भव्वं भावस्स भूअभावं च जं जोग॥२८॥" ('दव्य' शब्देऽनुपदमेवास्याः 2462 पृष्ठे व्याख्या गता) द्रवति तो स्तान्पर्यायान प्राप्नोति मुञ्चति वा 1 / द्रूयते स्वपर्यायरेव प्राप्यते मुञ्चते वा 2 / द्रुः सत्ता.तस्या एवावयवो विकारो वेति द्रव्यम्। 34| अवान्तरसत्तारूपाणि द्रव्याणि महासत्ताया अवयवो विकारो भवत्येवेति भावः / गुणाः रूपरसाऽऽदयः, तेषां संद्रावः समूहो घटाऽऽदिरूपो द्रव्यम् 5 / तथा (भव्वं भविस्सति) भविष्यतीति भावः, तस्य भाविनः पर्यायस्य योग्यं यद्व्यं तदपि द्रव्यम्, राजपर्यायाहकुमारवत् 6 / तथा भूतं हि पश्चात्कृतो भावः पर्यायो यस्य तदपि द्रव्यम्। इति दिक् / तदेव द्रव्यमर्थः प्रयोजनं यस्यासौ द्रव्यार्थिकः, अस्त्यर्थे ठक् प्रत्ययः / शुद्धः कर्मोपाधिरहितश्वाऽसौ द्रव्यार्थिकश्व शुद्धद्रव्यार्थिक इति // अथ तस्य द्रव्यार्थिकस्य शुद्धताया विषय दर्शयन्नाहयथा संसारिणः सन्ति, प्राणिनः सिद्धसन्निभाः। शुद्धाऽऽत्मानं पुरस्कृत्य, भवपर्यायतां विना / / 10 / / उत्पादव्यययोर्गौणे, सत्तामुख्यतयाऽपरः। शुद्धद्रव्यार्थिको भेदो, ज्ञेयो द्रव्यस्य नित्यवत् // 11 // प्राणा द्रव्यभावभिन्नाः सन्ति येषां ते प्राणिनः / संसारो गतिचतुष्काऽऽविर्भावः, सोऽस्ति येषा ते संसारिणः / यथा येन प्रकारेण शुद्धाऽऽत्मत्वाऽऽदिलक्षणेन, सिद्धसन्निभाऽष्टकर्मनिर्मुक्तजीवनिभा विद्यन्ते। किं कृत्वा सन्ति? शुद्धाऽऽत्मानं मूलभावं, तथा सहजभावं शुद्धाऽऽत्मनः स्वरूप, पुरस्कृत्याग्रे कृत्वा, कथम्? विना केन विना? भवपर्यायता, भवः संसारस्तस्य पर्यायो भावस्तत्ता भवपर्यायता, ता विना। एतावता या चाऽनादिकालिकी जीवस्य संसारावस्था वर्तते, सा प्रस्तुताऽपि न गण्यते / अविद्यमानोऽपि बाह्याऽऽकारेण सिद्धाऽऽकारः, तथाऽपि गृह्यतेऽन्तर्विद्यमानत्वात्। तदायमात्मा शुद्धद्रव्यार्थिकनयेन सिद्धसम एवास्तीति भावः / अत्र भावमात्रपरा द्रव्यसंग्रहगाथा'मग्गणगुणठाणेहि, चउदसहि हवंति तह असुद्धणया। विण्णेया संसारी, सव्वे सुद्धा हु सुद्धणया / / 1 / / / / 10 / / (उत्पादेति) उत्पादस्य व्ययस्य च गौणतायां, तथा सत्ताया ध्रवात्मकतायाश्च मुख्यतायाम्, अपर इति द्वितीयो भेदः शुद्धद्र-वयार्थिकस्य ज्ञेयः। यतः उत्पादव्यययोर्गौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिको नाम द्वितीयो भेदः२। अस्य मते द्रव्यं नित्यं गृह्यते, नित्यं तु कालत्रयेऽप्यविचलितस्वरूप, सत्तामादायैवेदं युज्यते, कथम्? पर्यायाणां प्रतिक्षणं ध्वंसिनां परिणामित्वेनान्त्यित्वोलब्धेः परं तु जीवपुद्गलाऽऽदिद्रव्याणां सत्ता अव्यभिचारिणी नित्यभावमवलम्ब्य त्रिकालाविचलितस्वरूपाऽवतिष्ठते, ततो द्रव्यस्य नित्यवदिति द्रव्यस्य नित्यत्वेन द्वितीयो भेदः / / 11 / / अथ तृतीयभेदमुपदिशन्नाहकल्पनारहितो भेदः, शुद्धद्रव्यार्थिकाऽभिधः। तृतीयो गुणपर्यायादभिन्नः कथ्यते ध्रुवम् / / 12 / / भेदः कल्पनया रहितः कल्पनारहितस्तृतीयो भेदः शुद्धद्रव्यार्थि कनामाऽस्ति 3 / यथा जीवद्रव्य, पुद्गलाऽऽदिद्रव्यं च निजनि