________________ दव्वट्टिय 2468 - अभिधानराजेन्द्रः - भाग 4 दव्वट्ठिय त्याशइ कायां द्रव्यमित्युच्यते, तदपि किम्? पृथिवी, साऽपि का? वृक्षः, सोऽपि कः? चूतः, तत्राप्यर्थित्वे यावत्पुष्पितः फलितः, इत्यादि तावन्निश्चिनोति यावद् व्यवहारसिद्धिरिति / व्यवहारो हि नानारूपतया / सत्तां व्यवस्थापयति, तथैव संव्यवहारसंभवात् / अतो व्यवहरतीति व्यवहार इत्यन्वर्थसंज्ञां विभ्रदशुद्धा द्रव्यास्तिकप्रकृतिर्भवति। विशेषप्रस्तारस्य पर्यायतया मूलव्याकरणी, शब्दाऽऽदयश्च शेषाः पर्यायनयभेदा इति प्रागुक्तं, तत्समर्थनार्थम्मूलणिमेणं पज्जवणयस्स उज्जुसुअवयणविच्छेदो। तस्स उ सद्दाईआ, साहपसाहा सुहमभेया।।५।। इति गाथासूत्रम् / अस्य तात्पर्यार्थ:-पर्यायनयस्य प्रकृतिराद्या ऋजुसूत्रः, सत्वशुद्धा, शब्दः शुद्धा, शुद्धतरा समभिरूढः, अत्यन्तशुद्धा त्वेवंभूत इति। अवयवार्थस्तु-मूलनिमेणमाधारः, पर्यायो विशेषः, तस्य नय उपपत्तिबलात्परिच्छेदः, तस्य, ऋजु वर्तमानसमयं वस्तु, स्वरूपावस्थितत्वात्, तदेव सूत्रयति परिच्छिनत्ति, नातीतानागतं, तस्यासत्त्वेन कुटिलत्वात्। तस्य वचनं पदं वाक्यं वा, तस्य विच्छेदोऽन्तः सीमेति यावत / ऋजुसत्रवचनस्येति कर्मणि षष्ठी। तेन ऋजसत्रस्यायमों नान्यस्येति प्ररूपयतो वचन विच्छिद्यमान यत्तन्मूलनिमेणमत्र गृह्यते। ननु कथं वचनविच्छेदः शब्दरूपः परिच्छेदस्यभावस्य नयस्याऽऽधारः। नैष दोषः, विषयेण विषयिकथनरूपत्वादस्यानच वचनार्थोऽरय विषयो, न शब्द इति वक्तव्यं, वचनार्थयोरभेदात् वचनमपि यतो विषयः। अथ विषय एव किन्नोक्त इति न प्रेरणीयम्, शब्दाभिहितस्यैव प्रमाणत्वमिति ज्ञापनार्थत्वादेवमभिधानम्, तस्य च पूर्वापरपर्यायविविक्त एकपर्याय एव प्ररूपयतो वचन विच्छिद्यते, एकपर्यायस्य परपर्यायासंस्पर्शात्। उक्तं च तन्मतमर्थ प्ररूपयद्भिः-''पलाल न दहत्यग्निर्दह्यते न गिरिः क्वचित्। नासंयतः प्रव्रजति, भव्यजीवो न सिद्ध्यति॥१॥' पलालपर्यायस्याग्निसाद्भावपर्यायादत्यन्तभिन्नत्वाद् यः पलालो नाऽसौ दह्यते, यश्च भरमभावमनुभवति, नासौ पलालपर्याय इति / सम्म०१ काण्ड। ('नाम ठवणा दविए, त्ति एसदव्ववियस्स णिक्खेवो।"(६ गाथा सम्म०१ काण्ड) इत्यादिगाथाया ‘णय' शब्देऽस्मिन्नेव भागे 1888 पृष्ठे व्याख्यातोऽर्थः) एतदेवाऽऽहतिर्यगूर्द्धप्रचयिनः, पर्यायाः खलु कल्पिताः। सत्यं तेष्वन्वयि द्रव्यं, कुण्डलाऽऽदिषु हेमवत् / / 13 / / (तिर्यगति) तिर्यक्प्रचयिनः परस्परसमानाधिकरणत्वे सति परस्परसमानकालीना रूपरसाऽऽदय अणुत्वस्थौल्याऽऽदयश्च, ऊर्द्धप्रचयिनः परस्परसमानाधिकरणत्वे सति परस्परभिन्नकालीना रक्तश्यामत्वाऽऽदयः, संयोगविभागाऽऽदयश्च, पर्यायाः खलु निश्चितं, कल्पिता वासनाविशेषप्रभवविकल्पसिद्धा अपारमार्थिका इति यावत्। तेषु कल्पनारूढेषु पर्यायेष्वन्वयि व्यापकतया प्रतीयमानं द्रव्यं सत्यं, कुण्डलाऽऽदिषु नानाकाश्चनपर्यायेष्वन्वीयमानं, हेमवत् / अयं भाव:-यथा शुक्ती रजतभ्रान्तो बाधाऽवतारानन्तरं रजताभावभानेऽपि शुक्तेर्भासमानत्वाद "शुक्तेः सत्यत्व, रजतस्य चासत्यत्व, तथा कुण्डलाऽऽधभावभानेऽपि हेम्नो भानात् कुण्डलाऽऽदिपर्यायाणामसत्यत्वं हेमद्रव्यस्य सत्यत्वम्। एवमन्यत्रापि भावनीयमिति / नन्वयं अमाधिष्ठानत्वमेव सत्यत्व, भ्रमविषयत्वं चासत्यत्वमित्वागतम्, न चासत्यत्वं प्रत्यक्षप्रमीयमानेषु पर्यायेष्वव्यापकम्, एवं तत्र तदसत्त्वरूपसत्यत्वमपि तेष्वव्यापकमिति चेद्, न, सत्यरजतस्याऽपि प्रतिभासकाले सत्ताभानेन कालत्रयसत एवैतन्नये सत्यत्वस्वीकारात्। अत एव कालवृत्त्यत्यन्ताभावाप्रतियोगित्वमेव परमार्थसत्वत्वमित्यभिप्रेत्याऽऽहैतत्साम्प्रदायिकः // 13 // आदावन्ते च यन्नास्ति, मध्येऽपि हि न तत्तथा। वितथैः सदृशाः सन्तो-ऽवितथा इव लक्षिताः।।१४।। (आदाविति) आदावन्ते च यद्वस्तु नास्ति, तन्मध्येऽपि मध्यकालेऽपि न तथा, नास्ति इत्यर्थः / न हि प्रागभावध्वंसानवच्छिन्नकालसंबन्धः सत्य इत्यभ्युपगन्तुं शक्यम्, उत्पत्तिविनश्यत्तासमययोरुत्पत्तिविनाशव्यापारव्यग्रयोरन्वयिव्यवहारात् : न च तद्विवेके मध्यभागः कश्चिदवशिष्यते, इक्षुदण्डस्येव सकलमूलाग्रभागच्छेदे। किं च-पूर्व पश्वासासत्स्वगावस्य कथं मध्यमक्षणे सत्स्वभावत्वम्, स्वभावविरोधाद्, मध्यमक्षणे सन्नेव पर्यायः पूर्वापरकालयोरसद्-व्यवहारकारीति न स्वभावविरोध इति चेत्, तर्हि पूर्वापरकालयोरसत्स्वभाव एवायं मध्यमक्षणसंबन्धेन सद्व्यवहारकारीत्येव किं न स्वीक्रियते? तस्मान्न निरपेक्षपारमार्थिकसत्ताक (?) न पर्यायाः, किं तु वितथैः शशविषाणाऽऽदिभिः काल्पनिकत्वेन सदृशाः सन्तोऽनादिलौकिकव्यवहारवासनावशादवितथा इव लक्षिताः, लोकैरिति शेषः // 14 // नन्वेवं द्रव्यार्थिकनये पर्यायाणां शशविषाणप्रायत्वात्तदवगाहिज्ञानमलीकविषयत्वेन मिथ्या स्याद, न च घटाऽऽ-- दिज्ञानविनिर्मुक्तविषयको द्रव्योपयोगः कश्चिदवशिध्यते, इति नामशेषता च तस्य स्यादित्याशक्य शुद्धावान्तरद्रव्यार्थिकभेदेन तस्य वैविध्या नानुपपत्तिरित्यभिप्रायवानाहअयं द्रव्योपयोगः स्याद्रिकल्पेऽन्त्ये व्यवस्थितः। अन्तरा द्रव्यपर्याय-धीः सामान्यविशेषवत्॥१५॥ (अयमिति) अयं द्रव्योपयोगी द्रव्यार्थिकनयजन्यो बोधोऽन्त्ये विकल्प शुद्धसंग्रहाऽऽस्ये व्यवस्थितः पर्यायबुद्ध्या अविचलितः स्यात्, अन्तरा शुद्धसंग्रहशुद्धर्जुसूत्रविषयमध्ये द्रव्यपर्यायधीरेव स्यात्, सामान्यविशेष - बुद्धिवत् / यथा हि परेषां द्रव्यत्वाऽऽदिक द्रव्यापेक्षया सामान्य सद् गुणाऽऽद्यपेक्षया विशेषाऽऽख्या लभते, तथाऽस्माकं घटाऽऽदिक स्वपर्यायापेक्षया सामान्य सद्गुणाऽऽद्यपेक्षया पर्यायाऽऽख्यालभते, इति यद्यवगाही अवान्तरद्रव्यार्थिकः पर्यायोपसर्जनता, द्रव्यमुख्यतां चाऽवगाहमानोन विरुध्यते, असतोऽप्युपसर्जनतया आश्रयणं च कर्णशकुल्यवच्छिन्नाऽऽकाशस्य शब्दग्राहकतां वदतांतार्किकाणाम, आनुपूर्वीविशेषविशिष्टस्य शब्दस्य श्रोत्रग्राह्यतां वदतां मीमांसकाऽऽदीनां च दृश्यत एवेति भावः। यद्वा--घटाऽऽदेव्यार्थिकन पर्यायविनिर्मुक्तद्रव्या-5ऽकारेणैव ग्रहः, पर्यायनयेन तत्र पर्यायत्वाऽऽपादने च पर्यायविशिष्टतया ग्रहणमित्येव सूक्ष्मेक्षिकायां शुद्धसंग्रहादन्त्यविशेषं यावदव्यवस्थितिः, अन्त्यविशेषविकल्प च शुद्धर्जुसूत्रलक्षणे कारणाभावादेव द्रव्योपयोगो व्यवस्थितः स्याद्युपरतः स्यादिति व्याख्येयम् / न चानयाऽनवस्थयैवैकस्याऽपि बोधस्यानापत्तिः, तत्तदवान्तरभेदप्रवृत्ती वा विषयान्तरसंचारानुपपत्तिः, पर्यायान्तरजिज्ञासोपरमेतद्बोधविश्रान्तेरितिभावनीयम्। तदिदमुक्तसम्मतौ