________________ दव्वट्ठिय 2467- अमिधानराजेन्द्रः - भाग 4 दव्वट्ठिय कास्तिकनास्तिक०-।।'' इति निपातनादिकण, द्रव्ये आस्तिको, नतु पर्याय इति द्रव्यास्तिकः / आ०म०१ अ०२ खण्ड। जला द्रव्यमात्रप्ररूपके मूलनयभेदे, रत्ना०७ परि। द्रव्यार्थिकमतम्द्रव्यार्थिकमते द्रव्यं, तत्त्वं नेष्टमतः पृथक् / (12) द्रव्यार्थिकस्य मते द्रव्यं परमार्थतः सत्, अतो द्रव्यात् पृथग भिन्न विकल्पसिद्धं गुणपर्यायस्वरूपं तत्त्वं नेष्टम्, सवृत्तिमतोऽपि तस्य परमार्थतोऽसत्त्वादिति भावः / नयो०। ("तित्थयरवणसंगहविसेसपत्थारमूलवागरणी। दव्वट्टिओ य," (3 गाथा) इत्यादि-गाथया ‘णय' शब्देऽस्मिन्नेव भागे 1876 पृष्ठे द्रव्यार्थिक नयो विवृतः) स च शुद्धाऽशुद्धभेदेन द्विधा / तत्र शुद्धो द्रव्यास्तिको नयग्रहनयाभिमतविषयप्ररूपकः / सर्वमेकं सदविशेषादिति शुद्धद्रव्यास्तिकाभिप्रायः। अशुद्धस्तु द्रव्याथिको व्यवहारनयमतावलम्बी एकान्तनित्यचेतनाचेतनवस्तुद्वयप्रतिपादकसाङ्ख्यदर्शनाऽऽश्रितः, अत एव तन्मतानुसारिणः साख्याः / सम्म०१ काण्ड। वक्ष्यति चाऽऽचार्यः-"जंकाविलं दरिसणं, एयंदव्वडियरसवत्तव्वं।" इति नैगमनयाभिप्रायः। द्रव्यास्तिकः शुद्धाशुद्धतया आचार्येण न प्रदर्शित एष / नैगमस्य सामान्यग्राहिणः संग्रहेऽन्तर्भूतत्वाद्विशेषग्राहिणश्चव्यवहारे इति नैगमाभावादिति द्रव्यप्रतिपादकनय प्रत्ययराशिमूलव्याकरणी द्रव्यास्तिकः शुद्धाऽशुद्धतया व्यवस्थितः, अत्र पर्यायास्तिक ऋजुसूत्रशब्दसमभिरूद्वैवंभूतन-यप्रत्ययराशिमूलव्याकरणी शुद्धाशुद्धतया व्यवस्थितः / सम्म०१ काण्ड / नयो। स्या। ''दव्वद्विअनयपयडी'(सम्म०१ काण्ड 4 गाथा) अस्याश्च गाथायाः सर्वमव शाास्त्रं विवरणम् / 'दव्वढिओ अ पज्जवनओं य' (3) इत्यादिपश्चा? कदेशस्य विवरणायाऽऽह सूरिःदव्वट्ठिअनयपयडी, सुद्धा संगहपरूवणाविसओ। पडिरूवे पुण वयणत्थनिच्छओ तस्स ववहारो॥४॥ इतिगाथासूत्रम्। अत्र च संग्रहनयप्रत्ययः शुद्धोद्रव्यास्तिको, व्यवहारनयप्रत्ययस्त्वशुद्ध इति तात्पर्यार्थः / / अवयवार्थस्तुद्रव्यास्तिकनयस्य व्यावर्णितस्वरूपस्य, प्रकृतिः स्वभावः, शुद्धत्यसंकीर्णा विशेषासस्पर्शवती, संग्रहस्याभेदतया(?) हि नयस्य प्ररूपणाप्ररूप्यते नयेनैव कृत्दोपवर्णना पदसंहतिः, तस्या विषयोऽभिधेयः, विषयाऽऽकारेण विषयिणो वृत्तस्य विषयव्यवस्थापकत्वात्. उपचारेण विषयेण विषयिप्रकथनमेतत् / अन्यथा कः प्रस्तावः शुद्धद्रव्यास्तिके विधातुं प्रक्रान्ते संग्रहप्ररूपणायाः। स च संग्रहप्ररूपणाभिप्रायेण भाव एव / तथाहिजातिद्रव्यगुणक्रियापरिभाषितरूपेण, स्वार्थद्रव्यालिङ्गकर्माऽऽदिप्रकारेण वा सुबन्तस्य योऽर्थः स भावाव्यतिरिक्तो वा भवेदव्यतिरिक्तो वा? यदि व्यतिरिक्तस्तदा निरुपाख्यत्वादत्पन्ताभाववत्तिडन्ताऽऽदिरूप इति कथं सुबन्तवाच्य? अव्यतिरिक्तश्चेत्कथं न भावमात्रता सुवन्तार्थस्य, तिङन्तार्थस्यापिक्रियाकालकारकपुरुषोपग्रहवचनाऽऽदिरूपेण परिभाष्यमाणस्य सत्तारूपतैव / तथाहि-पचतीत्यत्र क्रिया विक्लित्तिलक्षणा, काल आरम्भप्रभृतिरपवर्गपर्यन्तो वर्तमानस्वरूपः, कारकः कर्ता, पुरुषः परः, भावाऽऽत्मकरुपग्रहः परार्थता, वचनमेकत्वं यद्यपि प्रतिपत्तिविषयः, तथाऽपि सत्त्वमेवैतत्। यतः क्रिया ह्यसती चेत्कारकैर्न साध्येत, खपुष्पाऽऽदिवत्, सती चेदस्तित्वमात्रमेव, सा कारकैश्चाभिव्यज्यत इति। एवं कालाऽऽदयोऽप्यसन्तश्चेन्न शशश्रृङ्गाद्विधरन, सदात्मकाचेत्कथं नास्तिवादभिन्नाः(?) इति सत्तैव तिङन्तस्यार्थः, घटोऽस्तीत्यस्यार्थे यद्वाक्य प्रयुज्यते घटः सन्निति, तत्र भावाभिधायिता पदद्वयस्यापि / तथाहि घट इति विशेषणं, सन्निति विशेष्यम्। अत्र द्वयेनाऽपि वा भावविपरीतेन भाव्यम्। न ह्यन्यथा तद्विशेषणं, नापि तद्विशेष्यं स्याद, निरुपाख्यत्वात. अत्यन्ताभाववत्। यदि पुनरभावविपरीतं तदिष्यते, विशेषणविशेष्ययोः कथं न भावरूपता? तेन यदेव घटस्य भादो घटत्वं, तदेवघटः, यच्च सतो भावः, सत्त्वं, तदेव सन्निति सर्वत्र संग्रहाभिप्रायतः प्ररूपणाविषयो भाव एव। उक्तं चैतत् समयसद्भावमभिदधताऽन्येनापि'अस्त्यर्थः सर्वशब्दनामिति प्रत्याय्य लक्षणम्। अपूर्वदेवताशब्दैः समं प्राऽऽहुर्गवादिषु / / 1 / / घटाऽऽदीनां न चाऽऽकारा-त्प्रत्यापयति वाचकः / वस्तुमात्रनिवेशित्वात्तदतिर्नान्तरीयका // 2 // " इति / अत एव 'यत्र विशेषक्रिया नैव श्रूयते तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यमानोऽप्यस्तीति गम्यते," इत्युक्तं शब्दसमयविद्भिरिति / अवगतिश्चैवं युक्ता-यदि सत्ता पदार्थो न व्यभिचरेत्, अव्यभिचरेत् / अव्यभिचारे च तदावेशात्तदात्मकतैव, आसन्नापरित्यागे वा स्वरूपहानमितिनसन्मात्रमेवाध्यक्षस्य, शब्दस्य वा विषयः, निःशेषमशेषपृथक् व्यवस्थापितमधुराऽऽदिरसपानकद्रव्यवत्। भेदप्रतिभासस्तु भेदप्रतिपादकाऽऽगमोपहतान्तःकरणानां तिमिरोपप्लुतदृशामेकशशलानमण्डलस्यानेकत्वावभासनवदसदिति सर्वमदानपन्हुवानः सर्व सन्मात्रतया संगृहन् संग्रहः, शुद्धा द्रव्यास्तिकप्रकृतिरिति स्थितम्। तामेव शुद्धा 'पडिरूवे पुण (4) इत्यादिगाथापश्चार्द्धन दर्शयत्याचार्यः-प्रतिरूपं प्रतिबिम्ब, प्रतिनिधिरिति यावत्। विशेषेण घटाऽऽदिना द्रव्येण संकीर्णा सत्ता, पुनरिति प्रकृति स्मारयति। तेनाऽयमर्थः-विशेषेण संकीर्णा सत्ता प्रकृतिःस्वभायो वचनार्थनिश्चय इति हेयोपादेयोपेक्षणीयवस्तुविषयनिवृत्तिप्रवृत्त्युपेक्षालक्षणव्यवहारसंपादनार्थम्, उच्यत इति वचनं, तस्य घट इति विभक्तरूपतयाऽस्तीत्यविभक्ताऽऽत्मतया प्रतीयमानो व्यवहारक्षमोऽर्थः, तस्य निश्चयो निर्गतः पृथग्भूतश्चयः परिच्छेदः, तस्येति द्रव्यास्तिकस्य, व्यवहार इति लोकप्रसिद्धव्यवहारप्रवर्तनपरो नयः सोऽभिमन्यते। यदि हि हेयोपादेयोपेक्षणीयस्वरूपाः परस्परतो विभिन्नस्वभावाः सद्रूषतया शब्दप्रभवे संवेदने भावाः प्रतिभान्ति, ततो निवृत्तिप्रवृत्त्युपेक्षणो व्यवहारस्तद्विषयः प्रवृत्तिमासादयति, नान्यथा / न चैकान्ततः सन्मात्राविशिष्टेषु संग्रहामिमतेषु प्रथक् स्वरूपतया परिच्छेदो बाधितरूपो व्यवहारनिबन्धन, संभवतीति / तथाहि-यदाद्याऽऽकारे निरपेक्ष-तया स्वग्राहिणो ज्ञाने प्रतिभासमाधत्ते, तत्तथैव सदिति व्यवहर्त्तव्यं, यथा प्रतिनियतं सत्ताऽऽदिरूपम्, सन्निवेशघटाद्याकारनिरपेक्ष च घटाऽऽदिकं स्वावभासिनि ज्ञाने स्वरूपं सन्निवेशयतीति स्वभावहेतुः। घटाऽऽदिनिरपेक्षत्वं च पटाऽऽदेः घटाऽऽद्यभावेऽपि भावादवभासमानाच सिद्धम् / यदा-प्रतिशब्दो वीप्सायाम, रूपशब्दश्च वस्तुन्यत्र प्रवर्तते। तेनायमर्थ:-रूपं रूपं प्रति प्रतिवस्तु, वस्तु प्रति यो वचनार्थनिश्चयः, तस्य प्रकृतिः स्वभावः स व्यवहार इति। तथाहि-प्रतिरूपमेव वचनार्थनिश्चयो व्यवहारहेतुः, न पुनरस्तित्वमात्रनिश्चयः, यतोऽस्तीत्युतेऽपि श्रोता शङ्कामुपगच्छन् लक्ष्यते, अतः किमिच्छन् लक्ष्यतेऽस्ती