________________ दत्त 2446- अमिधानराजेन्द्रः - भाग 4 दत्ति भद्राऽङ्ग जे कालिकाऽऽचार्यजामिजे, आ०क०। दर्श०। आ०चू। आ०म०। (यो हि तुर्मिणीपुराधिपं मारयित्वा राजा भूत्वा अनेकान् यज्ञानिष्ट्वा कालिकाऽऽचार्य्यवचनानुसारेण मृत्वा नारको जात इति "सम्मावाय' शब्देऽन्तिसभागे कथा वक्ष्यते) भारते वर्षेऽतीतायामुत्सर्पिण्यामतीते सप्तमे जिने,प्रव०७ द्वार / सङ्ग प्रस्थविराणां जवाबलपरिक्षयेण नियतवासं प्रतिपन्नानां शिष्ये, आ०क०। आ० चू०। उत्सर्पिण्यादौ भविष्यति जिनधौद्धारके महाराजे, तिला विपाकश्रुते नवमेऽध्ययने उदाहृताया देवदत्तायाः पितरि, स्था० 10 ठा०। गन्धर्वनागदत्तस्य पितरि लक्ष्मीपुरवास्तव्ये श्रेष्ठिनि, आ०क०। पार्श्वस्वामिनन्दनकृत ईश्वरराजस्य पूर्वभवे वसन्तपुर-वास्तव्ये पुरोहितपुत्रजीवे, ती० 14 कल्प / समुद्रतटवर्तिविश्वपुरीवास्तव्ये स्वनामख्याते सांयात्रिके, ध०र०। स्वनामख्याते चम्पानगरीराजे महाचन्द्रस्य कुमारस्य पितरि, विपा०१ श्रु०१ अ०) वन्दनाऽऽगते रवनामख्याते गृहपतौ, स च वीरान्तिके प्रव्रज्य अनशनेन मृत्वा सुधर्मायां सभायां तप्ते सिंहासने गङ्गदत्तया देवतया द्विसागरोपमस्थितिक उपपन्न इति सप्तमे पुष्पिकाऽध्ययने सूचितम् / नि०१ श्रु०३ वर्ग 6 अ०॥ स्वनामख्याते कल्किराजपुत्रे, "पण्णरसउतिउत्तरे विक्कमवरिसे सत्तुंजे उद्धारं करित्ता जिणभव-णमेमिअंच वसुहं काउं अज्जियतित्थयरनामो सग्गं गतुं चित्तगुत्तो नाम जिणवरो होति।" ती०२० कल्प। स्वनामख्याते वेश्याया-मश्रद्दधाने पुरुष, पुं० सूत्र०१ श्रु०४ अ०१उ०। दाने, न०। / उत्त०१अ *दात्र न० शस्त्रभेदे, आचा०१ श्रु०१अ०५ उ०। दत्ति स्त्री० (दत्ति) अविच्छिन्नदाने, पञ्चा० 18 विव०। "दत्तीओ जत्तिए वारे, खिवई होति तत्तिया। अवोच्छिन्नानि वा पावो, दत्ती होइ दवंतरं ||1 // " इति / स्था०५ ठा०१ उ०। पञ्चा०। कल्प०। करस्थाल्यादिभ्यो अव्यवच्छिन्नधारया पतति भिक्षा या, सा दत्तिरभिधीयते। भिक्षाविच्छेदे च द्वितीया दत्तिः, एवं शिक् थमात्रेऽपि पतिते मिन्नैव दत्तिरिति / प्रव०४ द्वार। दत्तिसंख्यासूत्रम्संखा दत्तियस्सणं भिक्खुस्स पडिग्गहधारिस्स गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स जावतियं जावतियं अंतो पडिग्गहस्स उविइत्ता दलएज्जा, तावइयाओ साओ दत्तीओ वत्तव्यं सिया। तत्थ से केइ छज्जएण वा दूसएणं वा बालएण वा अंतो पडिग्गहसि उविइत्ता दलएज्जा, सव्वा विणं सा एगा दत्तीति वसव्वं सिया। तत्थ से बहवे भुंजमाणा सब्वे ते सयं सगं पिंडं साहणिय अंतो पडिग्गहंसि उविइत्ता दलएज्जा, सव्वा विणं सा एगा दत्तीति वत्तव्यं सिया॥३६॥ संख्या परिमाणं दत्तिकायाः, सूत्रे पुंस्त्वमार्षत्वाद्, यावद् यावद् | कश्चिदन्तः पतद् गृहे (उविइत्ता) अवगम्य दद्यात्, तत्र तावत्यो दतय इति वक्तव्यं स्यात् / किमुक्तं भवति? एकस्यामपि भिक्षायामुत्पाटिताया यावतो यावतो वारान विच्छिद्य विच्छिद्य ददाति तावत्यस्तत्र दत्तय इति / तत्र 'से' तस्य साधोः कश्चित् छाद्यकेन वंशदलमयेन, दूष्येण ना वस्त्रेण,बालकेन वा गोमहिष्यादिबालकृतेन गालनाऽऽदिना अन्तः पतद् ग्रहे अवनम्य दद्यात्, साऽपि,णमिति वाक्यालङ्कारे,एका दत्तिरिति वक्तव्यं स्यात् / तत्र 'से' तस्य साधोर्बहवो भुञ्जाना भिक्षार्थं साधुमागतं दृष्ट्वा सर्वे ते स्वीयं स्वीयं पिण्ड संहृत्य एक पिण्डं कृत्वा अन्तः पतद् ग्रहे (उविइत्ता) अवनम्य दद्यात् सर्वाऽपि णमिति पूर्ववत्, एका दत्तिरिति वक्तव्यम्। एतत्सूत्रं पतद्ग्रहधारिण उक्तम्। सम्प्रति पाणिपतद्ग्रहविषयमाहसंखा दत्तियस्सणं भिक्खुस्स पाणिपडिग्गहस्स गाहावइ-कुलं पिंडवायपडियाए अणुप्पविट्ठस्स जावतियं जावतियं अंतो पाणिंसि उविइत्ता दलएज्जा, तावइयाओ ताओ दत्तीओ वत्तव्वं सिया / तत्थ से केइ छज्जएण वा दूसरण वा बालएण वा अंतो पाणिंसि उविइत्ता दलएजा, सव्वा विणं सा एगा दत्तीति वत्तव्वं सिया। तत्थ से बहवे मुंजमाणा सव्वे ते सयं सयं पिंडं साहणिय अंतो पाणिंसि उविइत्ता दलएज्जा, सव्वा विणं सा एगा दत्तीति वत्तव्वं सिया।।४०॥ (घाणीत्यादि) पाणिपतद् ग्रहस्यापि विषये एवमेव सूत्रं वक्तव्यमिति सूत्रसंक्षेपार्थः। सम्प्रतिभाष्यविस्तरःहत्थेण व मत्तेण व, भिक्खा होई समुज्जया। दत्तिओ जत्तिए वारे, खिवती होंति तत्तिया॥१०६।। हस्तेन वा, मात्रण वा या समुद्यता उत्पादिता भिक्षा सा भिक्षुत्युच्यते। दत्तयः पुनस्तामेव भिक्षां यावतो वारान् विच्छिद्य क्षिपति तावत्यो भवन्ति। अव्वोच्छिन्ननिवायाओ, दत्ती होइ उतरा। एगाणेगासु चत्तारि, विभागा भिक्खदत्तिसु।।११०।। अव्यवच्छिन्ननिपाताद् दत्तिर्भवति, इतरा वा भिक्षा च भवति, भिक्षादत्तिषु च एकानेकासु विषये चत्वारो विभागा विकल्पाः / तानेवाऽऽहइग भिक्खा इग दत्ती,एगा भिक्खा यऽणेगदत्तीओ। णेगा वि य एगाओ, णेगाओ चेव णेगाओ।।१११।। एका भिक्षा एका दत्तिरिति प्रथमो विकल्पः / एका भिक्षा अनेका दत्तय इति द्वितीयः / अनेका भिक्षा एका दत्तिरिति तृती। अनेका भिक्षा अनेका दत्तय इति चतुर्थः / तत्र प्रथमभङ्ग एव दायकेन अव्यवच्छिन्ना भिक्षा दत्ता, सा एका भिक्षा एका च दत्तिः। द्वितीयभङ्गे व्यवच्छिन्ना दत्ता। तृतीयभङ्गे सूत्रमिदम्- "तत्थ से बहवे भुंजमाणा " इत्यादि "जाव सा एगा दत्ती वत्तव्वं सिया। (४०सू०)" अस्येयं भावनाकेचित्पथिकाः कर्मकरा वा एकत्रावकाशे पृथक् पृथक् उपस्कृत्य भुञ्जते, तेपामेकः साधुना तत्र च भिक्षार्थमागत्य धर्मलाभः समुद्दिष्टस्ततः स परिवेषक आत्मीयाद्ददामीतिव्यवसितः, ततस्तैरपि शेषकैः स भण्यतेप्रत्येक प्रत्येकमस्मदीयमध्यादपि साधवे भिक्षां देहि, ततस्तेन परिवेषकेण सर्वेषां सत्कान् गृहीत्वा एकत्र संमील्याव्यवच्छिन्नं दत्तम्, एवमेनका भिक्षा एका दत्तिरित्युपपद्यते। चतुर्थभङ्गोऽप्येवगेव, नकर व्यवच्छिन्नं दानमिति।