________________ दगतीर 2455 - अभिधानराजेन्द्रः - भाग 4 दगतीर तुर्लघुकादारभ्य षड् गुरुके तिष्ठति, संपातिमे चतुर्गुरुकादारभ्य छेदे निष्ठामुपगच्छति। एष तृतीय आदेशः। अथ चतुर्थमादेशमाहअहवा पंचण्हं संजईण समणाण चेव पंचण्ह / पणगादी आरद्धं, नेयव्वं जाव चरिमपदं॥२७४।। अथवा क्षुल्लकाऽऽदिभेदात् पञ्चानां संयतीना, श्रमणानां चैवपञ्चानां पञ्चकाऽऽदेराब्धं प्रायश्चित्तं तावन्नेतव्यं यावच्चरमपदं पाराश्चिकम्। एतदेव सविशेषमाहसंजइ संजय तह संपऽसंप अहलंदपोरिसअहिया। चिट्ठाई अद्दिटे, दिट्टे पणगाइ जा चरिमं // 275 / / संयत्य:-क्षुल्लिका, स्थविरा, भिक्षुणी, अभिषेका, प्रवर्तिनी चेति पञ्चविधाः, संयता अपि क्षुल्लकस्थविरभिक्षुकोपाध्यायाऽऽचार्यभेदात् पञ्चधा / (संपऽसंप त्ति) सूचकत्वात् सूत्रस्य संपातिममसंपातिम वा दकतीरं यथालन्दपौरुष्यधिकपौरुषीलक्षणं कालत्रयं, स्थाननिषदनाऽऽदीनि च दशपदानि, अदृष्टे दृष्ट चेति पदद्वयम्, एतेषु पदेषु पञ्चकाऽऽदिकं चरमप्रायश्चित्तं यावन्नेतव्यम्।। कियन्ति पुनः प्रायश्चित्तस्थानानि भवन्तीति दर्शयतिपण दस पनरस वीसा, पणवीसा मास चउरों छच्चेव। लहु गुरुगा सव्वेते, छेदो मूलं दुगं चेव // 276|| पञ्चरात्रिन्दिवानि, दशरात्रिन्दिवानि, पञ्चदशरात्रिन्दिवानि, विंशतिरात्रिन्दिवानि, पञ्चविंशतिरात्रिन्दिवानि, मासिक, चत्वारो मासाः, षण्मासाश्च / एतानि सर्वाणि लघुकानि गुरुकाणि च / तद्यथालघुक पञ्चरात्रिन्दिवानि इत्यादि / एतानि षोडश संजा-तानि। छेदो, मूलं, द्विकं चैव-अनवस्थाप्यपाराश्चिक युगम् / एवं विंशतिरात्रिन्दिवानि प्रायश्चित्तस्थानानि भवन्ति / अथाऽमीषामेव पदानां चारणिकां कुर्वन्नाहपणगाइ असंपाइम, संपाइम दिट्ठमेवऽदिट्टे य। चउगुरुए ठाइ खुड्डी, सेसाणं वुड्डि एक्के कं // 277 / / असंपातिमे यथालन्दमदृष्टा क्षुल्लिका तिष्ठति लघुपञ्चकं, दृष्टा तिष्ठति गुरुपञ्चक पौरुषीमदृष्टा तिष्ठति गुरुपञ्चकं, दृष्टा तिष्ठति लघुदशकम्, अधिकपौरुषीमदृष्टा तिष्ठति लघुदशकम, दृष्टायां गुरु-दशकम्। संपातिमे यथालन्दमदृष्टा तिष्ठति गुरुपञ्चकं दृष्टा तिष्ठति लघुदशं, पौरुषीमदृष्टा तिष्ठति लघुदशकं, दृष्टायां गुरुदशकं, समधिकां पौरुषीमदृष्टायां तिष्ठन्त्या गुरुदशकम, दृष्टायां लघुपञ्चदशकम् / एवमूर्द्धस्थानमाश्रित्योक्तम् / निषीदन्त्यास्तु गुरुकं पञ्चरात्रिन्दिवेभ्यः प्रारभ्य गुरुपञ्चदशरात्रिन्दियेषु, त्वग वर्तन कुर्वत्या लघुदशरात्रिन्दिवादारभ्य लघुर्विशतिरात्रिन्दिवेषु, एवं निद्रायमाणाया गुरुविंशतिरात्रिन्दिवेषु, उच्चारप्रस्रवणे आचरन्त्या लघुमासे, स्वाध्याय विदधानाया मासगुरुके, धर्मजागरिकया जाग्रत्याश्चतुर्लधुके, कायोत्सर्ग कुर्वत्याश्चतुर्गुरुके इति / एवं क्षुल्लिकायाः प्रायश्चित्तमुक्तम् / शेषाणां तु स्थविराऽऽदीनामेकैकं स्थानमुपरि वर्द्धते, अधस्ताच एकैकं स्थानं हीयते। स्थविराया गुरुपञ्चकादारब्धं यल्लघुकं यावद् भिक्षुण्या लघुदशकादारब्धं षट् गुरुकान्तम् / अभिषेकाया गुरुदशकादारब्धं छेदपर्यन्तम् / प्रवर्त्तिन्या लघुपश्चदशकादारब्धं मूलान्तमवसातव्यम्। एतदेवाऽऽहछल्लहुऐं ठाइ थेरी,भिक्खुणि छग्गुरुऍ छेदें गणिणी तु। मूले पवत्तिणी पुण, जह मिक्खुणि खुड्डए एवं / / 278|| स्थविरा षट् लघुके, भिक्षुणी षट् गुरुके, गणिनी-अभिषेका, सा छेदे, प्रवर्तिनी पुनर्मूल तिष्ठतीति / यथा च भिक्षुण्यामेवं क्षुल्लकेऽपि द्रष्टव्यम्। दशभ्यो लघुरात्रिन्दिवेभ्यः षट् गुरुकान्तमसंपातिमाऽऽदिषु प्रायश्चित्तं भवतीत्यर्थः। गणिणिसरिसो उथेरो, पवत्तिणि विभागसरिसओ भिक्खू / अद्भुकंती एवं,सपयं सपयं गणिगुरूणं / / 276 / / गणिनी अभिषेका, तस्याः सदृशः स्थविरो, यथा अभिषेकायाः गुरुदशकमादौ कृत्वा छेदान्त भणितं, तथा स्थविरस्यापि भणनी-यमिति भावः। प्रवर्त्तिन्याः प्रायश्चित्तविभागेन सदृशो भिक्षुर्भवति, लघुपञ्चदशकात्प्रभृति मूलान्तं प्रायश्चित्तं तस्याऽपि ज्ञेयमिति हृदयम् / एवमर्धापक्रान्ताधस्तनैकपदहासोपरितनपदैकवृद्ध्यात्मिकया गणी उपाध्यायो, गुरुराचार्यः, तयोरपि स्वपदं स्वपदं यावत्प्रायश्चित्तं नेतव्यम् / तत उपाध्यायस्य गुरुपञ्चदशकमादौ कृत्वा स्वपदमनवस्थाप्यम्, आचार्यस्य लघुविंशतिरात्रिन्दिवादारभ्य स्वपदं पाराश्चिकं यावद् द्रष्टव्यम्। एवं तु चिट्ठाणाऽऽदिसु, सव्वेसु पदेसु जाव उस्सग्गो। पच्छित्ते आदेसा, इकिकपयम्मि चत्तारि॥२०॥ एवममुना प्रकारेण स्थाननिषदनाऽऽदिषु सर्वेष्वपि पदेषु कायोत्सर्ग यावदेकैकस्मिन् पदे प्रायश्चित्तविषयाश्चत्वार आदेशा भवन्ति। तद्यथाएकं तावदौधिकं प्रायश्चित्तं, द्वितीयं तदेव तपः कालविशोषितं, तृतीयं छेदान्तम्, चतुर्थ चारणिकाप्रायश्चित्तम् / गतं दकतीरद्वारम्। अथ यूपकस्यावसरः, तमेवाभिधित्सुराहसंकमों जूवे अचलो, चलो य लहुगो य हुंति लहुगा य। तम्मि वि सो चेव गमो, णवरि गिलाणे इमं होइ॥२८१|| यूपकं नाम खेटाऽऽख्यं जलमध्यवर्ति तट, तत्र देवकुलिका गृहं वा भवेत्, तत्र वसतिगृह्णतश्वतुर्लघुकाः। तच यूपं संक्रमेण वा गम्येत, जलेन वा। संक्रमो द्विविधः-चलोऽचलश्च / अचलेन गच्छतो मासलघु। चलो द्विविध:-सप्रत्यपायः, निष्प्रत्यपायश्च। निष्प्रत्यपायेन गच्छतश्चतुर्गुरुकं भवति। सप्रत्यपायेन व्रजतश्चत्वारो लघुकाः / तस्मिन्नपि यूपके, स एव गमः सा वक्तव्यता या दकतीरे भणिता। “अहिगरणमंतराए" (255) इत्यारभ्य यावदेकैकस्मिन् पदे चत्वार आदेशा इति। नवरं ग्लानं प्रतीत्य इदमन्यदधिक दोषजालं भवतिदर्ण य सइकरणं, ओभासण विरहिए य आइयणं / परितावण चउलहुगा, अकप्प पडिसेव मूल दुगं // 282 / / ग्लानस्य तदुदकं दृष्ट्वा स्मृतिकरणमीदृशी स्मृतिरुत्पद्यतेपिवाम्यहमुदकम्। ततो सोऽवभाषणं करोति, यदि दीयते ततः संयमविराधना, अथ न दीयते, ततो ग्लानः परितापितः। विरहिते च कारणतः साधुभिः प्रतिश्रये उदक स्याऽऽपानं कुर्यात्, यदि स्वलिङ्गेनाऽऽपिबति ततश्चतुर्लघुकम्, अथ (दुगं ति) स्वलिङ्ग, गृहिलिङ्ग च, तेनाऽकल्प्यमप्कायं प्रतिसेवते ततो मूलं, तेन चापथ्ये नानागाढ परितापनाऽऽदयो दोषाः, तन्निष्पन्नमाचार्यस्य प्रायश्चित्तम् /