________________ दगतीर 2444 - अभिधानराजेन्द्रः - भाग 4 दगतीर म्यमाणं साधुं विलोक्य तत्राऽऽगत्य चङ्क्रम्यते / एवमाचमनं निर्लेपनं तत्कर्तुकामः, संज्ञां वा व्युत्स्रष्टुकामः साधुं दृष्ट्वा अन्यत्र गत्वा, अन्यतो वा तत्राऽऽगत्य निर्लेपयति, व्युत्सृजति वा। तथा कश्चिदगारो गन्तुकामोऽपरकूले चक्रम्यमाणं साधु निरीक्ष्य (कोनालि त्ति) गोष्ठी, तां साधुना सह करिष्यामीति मत्वा तदर्थं च क्रमणं कर्तुं परकूलादपि तत्राऽऽगच्छति, सर्वत्र साधुनिमित्तमागच्छन्नागतस्तिष्ठति च षट्कायान् विराधयेत्। "अत्यंते संकापयं (263)" इत्यत्राऽऽहदगमेहुणसंकाए, लहुगा गुरुगा उ मूल निस्संके। दगतूरर्को चवीरग-पघंसकेसादलंकारे // 265 / / साधु दकतीरे तिष्ठन्तं दृष्ट्वा कश्चिदगारः शड्कां कुर्यात्-किमेष उदकपानार्थं तिष्ठति, उत मैथुने दत्तसंकेतां काश्चिदागच्छन्ती प्रतीक्षते / तत्रोदकपानशङ्कायां चतुर्लघु, मैथुनाऽऽशकायां चतुर्गुरु, निःश किते मूलम्। 'मजण ददु सतीकरणं (263)" इति पदं व्याख्यायते। कोऽपि मज्जनं कुर्वस्तथा कथञ्चिज्जलमास्फालयति यथा दकतूर्यमुदके मुखाऽऽदितूर्याणां शब्दो भवति / यद्वा-कोऽपि क्रौञ्चवीरकेण जलमाहिण्डते, क्रौञ्चवीरको नामपेट्टासदृशो जलयाननिवेशेः / (पघंस ति) स्नात्वा पटवासाऽऽदिभिः स्वशरीरं कोऽपि प्रघर्षति। यदा-(केसादलंकारे त्ति) केशवस्त्रमालाऽऽभरणालङ्कारैरात्मानमलङ्करोति, एतद् मजनाऽऽदिक दृष्ट्वा भुक्ताभुक्तसमुत्थाः समृत्यादयो दोषाः / एवं पुरुषेषु भणिताः। अथ स्त्रीदोषान् दर्शयतिमज्जणक्हणट्ठाणेसु अत्थते इत्थिणं ति गहणाऽऽदी। एमेव कुच्छितेतर-इत्थी सविसेस मिहुणेसु / / 266 / / सपरिग्रहस्त्रीणां वसन्ताऽऽदिपर्वणि, अन्यत्र वा या जलक्रीडा, यद्वा सामान्यतो मलदाहोपशमनार्थं स्नान, तन्मजनमुच्यते। तेषु जलवहनस्थानेषु स्त्रीणां संबन्धिषु तिष्ठन्तं तं दृष्ट्वा तदीयो ज्ञातिवर्गश्चिन्तयतिअस्मदीयस्त्रीणां मज्जनाऽऽदिस्थाने एष श्रमणः परिभवेन कामयमानो वा तिष्ठति, ततो दुष्टशील इतिकृत्वा ग्रहणाऽऽकषर्णाऽऽदीनि कुर्यात् / याः पुनरपि गृहस्त्रियस्ताः कुत्सिता रजक्यादयः, इतरा अकुत्सिता ब्राह्मण्यादयः, तत्राप्येवमेवाऽऽत्मपरोभयसमुत्थाऽऽदयो दोषाः। मिथुनेषु स्त्रीपुरुषेषु मैथुनक्रीडया रममाणेषु सविशेषतरा दोषा भवन्ति / ये च चक्रमणाऽऽदयो दोषाः पूर्वमुक्तास्तेऽप्यत्र तथैव द्रष्टव्याः। यत एते दोषा अतो दकतीरे अमूनि सूत्रोक्ताऽऽदीनि न कुर्यात्। चिट्ठणयनिसीयणया, तुयट्ट निद्दा य पयल सज्झाए। झाणाऽऽहारवियारे, काउस्सग्गे य मासलहुं // 267 / / स्थाने निषदने 2 त्वग्वर्तन३ निद्रायां 4 प्रचलायां 5 स्वाध्याये 6 ध्याने 7 आहारे 8 विचारे 6 कायोत्सर्ग चेति 10 दशसु पदेषु दकतीरे विधीयमानेषु प्रत्येक मासलघु; असमाचारीनिष्पन्नमिति भावः। (वृ०) (निद्रास्वरूपं 'णिद्दा' शब्दे तथानिद्रानिद्रास्वरूपं च 'णिहाणिवा' शब्देऽस्मिन्नेव भागे 2072 पृष्ठे द्रष्टव्यम्) (प्रचलास्वरूपं 'पयला' शब्दे वक्ष्यते, प्रचलाप्रचलास्वरूपंच 'पयलापयला' शब्दे वक्ष्यते) अथ विस्तरतः प्रायश्चित्तं वर्णयितुकाम आह. संपाइमे असंपाइमे य दिढे तहेव अद्दिद्वे / पणगं लहु गुरु लहुगा, गुरुग अहालंदपोरिसी अहिया 266 दकतीरे संपातिमे असंपातिमे वा उभयस्मिन्नपि वक्ष्यमाणलक्षणे दृष्टोऽदृष्टो वा तिष्ठति, कियन्त पुनः कालमित्याह यथा लन्दपौरुषीम्। तत्र यथालन्दं त्रिधाजघन्यं, मध्यमम्, उत्कृष्ट वा / तत्र तरुणस्त्रिया उदकाः करो यावता कालेन शुष्यति तज्जघन्यम्, उत्कृष्ट पूर्वकोटीप्रमाणम्। तयोरपान्तराले सर्वमपि मध्यमम्। तत्र जघन्येन यथालन्देनाधिकारः / एवं यथालन्दाऽऽदिभेदात्रिविधं कालं दकतीरे तिष्ठतः पञ्चक लघुको....(?) गुरुकाश्चत्वारोमासाः प्रायश्चित्तम् / एतदुपरिष्टा व्यक्तीकरिष्यते। अथ संपातिमासंपातिमपदे व्याख्यातिजलजा तु असंपाती, संपातिम सेसगा उपंचिंदी। अहवा मोत्तु विहंगे, होंति असंपातिमा सेसा // 270 / / जलजा मत्स्यमण्डूकाऽऽदयः, तेऽसंपातिमाः, तैर्युक्तं दकतीरमप्यसंपातिमम् / शेषाः पञ्चेन्द्रियस्थलचराः खेचरा वा येऽन्तरादागत्य संपतन्ति ते संपातिमाः, तैर्यधुक्तं तत्संपातिमम्। अथवा-विहङ्गाः पक्षिणो यत्राऽऽगत्य संपतन्ति तत्संपातिमम, तान् मुक् त्वा शेषाः स्थलचरा जलचरा वा सर्वेऽप्यसंपातिमाः, तद्युक्तं दकतीरमसंपातिमम्। अथ पूर्वोक्तं प्रायश्चित्तं व्यक्तीकुर्वन्नाहअस्संपाइ अहालंदें अदिढे पंच दिट्ठि मासो उ। पोरिसि अदिहि दिठे, लहुगुरु अहिगुरुगलहुआओ / / 271 / / असंपातिमे दकतीरे जघन्यं यथालन्दमदृष्टस्तिष्ठति पञ्चरात्रिन्दिवानि. दृष्टस्तिष्ठति मासलधु, असंपातिमे पौरुषीमदृष्टस्तिष्ठति मासलघु, दृष्टस्तिष्ठति मासगुरु, अधिकां पौरुषीमदृष्टस्तिष्ठतिमासगुरु, दृष्टस्तिष्ठति चतुर्लघु / एवमसंपातिमे भणितम्। संपाइमे वि एवं,मासादी नवरिठाइ चउगुरुए। भिक्खूवसमायरिए, तवकालविसेसिवा अहवा।।२७२।। संपातिमेऽप्येवमेवा पक्रान्त्या प्रायश्चित्तं द्रष्टव्यम्, नवर लधुमासादारभ्य चतुर्गुरुके तिष्ठति एतद्दोषतः प्रायश्चित्तमुक्तम् / अथवा-एतान्येव भिक्षुवृषभाभिषेकाऽऽचार्याणां तपःकालविशेषितानि भवन्ति। तथाहिपूर्वोक्तं सर्वमपि प्रायश्चित्तं भिक्षोस्तपसा कालेन च लघुकम्, वृषभस्य कालगुरु तपोलघु, अभिषेकस्य तपोगुरु काललघु, आचार्यस्य तपसा कालेन च गुरुकम्। अत्र चाभिषेकपदं गाथायामनुक्तमपि तन्मध्यपतितस्तद्ग्रहणेनह गृह्यते' इति न्यायात्प्रतिपत्तव्यम्। एष द्वितीय आदेशः। अहवा भिक्खुस्सोवं, वसभे लहुगाइ ठाइ छल्लहुए। अभिसेगे गुरुगादी, छग्गुरुलहुछेदों(?) आयरिए // 273 / / अथ यदेतत्प्रायश्चित्तमुक्तं तद्भिक्षोर्द्रष्टव्यम् / वृषभस्य तु मासलघुकादारभ्य षट् लघुके तिष्ठति, तत्रासंपातिमे यथालन्दपौरुषीसमधिकपौरुषीषु दृष्टादृष्टयोर्मासलघुकादारभ्य चतुर्गुरुके तिष्ठति, संपातिमे एतेष्वेव स्थानेषु मासगुरुकादारभ्य षट् लघुके पर्यवस्यति। अभिषेकस्योपाध्यायस्य असंपातिमे मासगुरुकादारभ्य षट् लधुके तिष्ठति, संपातिमे चतुर्लघुकादारभ्य षड् गुरुके तिष्ठति, आचार्यस्य च