________________ दगतीर 2443 - अभिधानराजेन्द्रः - भाग 4 दगतीर सिग्घगइ तंनिमित्तं, अभिघातो काय आयाए।।२५७।। आरण्यकास्तिर्यश्चः तिर्यक् स्त्रियो वा पानीय पिवाम इत्याशया तीर्थाभिमुखमायान्तं साधु दृष्ट्वा, दकतीरस्थितं वा दृष्ट्वा प्रतिपथेन निवर्तन्ते, निवर्तमाने च तत्राऽऽरण्यकप्राणिगणे साधोरधिकरणं भवति / तेषां च तृषाऽऽर्तानामन्तराय, चशब्दात् परितापना च कृता भवति / तत्रैकस्मिन् परितापिते छेदः, द्वयोस्तु मूलं,त्रिष्वनवस्थाप्य, चतुर्ष परितापितेषु पाराशिकम्। एतेनान्तरायपदं व्याख्यातम्। (तिमरणे चरिमं ति) यद्येकस्तृषाऽऽर्तो नियते ततो मूलं, द्वयोमियमाणयोरनवस्थाप्यं, त्रिषु म्रियमाणेषु साधोः पाराञ्चिकम् / एतेनोच्छ्रासपदं विवृतम् / साधु दृष्ट्वा ते तिर्यची भीताः शीघ्रगत्या पलायमाना अन्यमन्योऽन्यं वा अभिधातयेयुः, षट् का-याना वा तन्निमित्तमभिघातं विदध्युः / तत्र "छक्काय चउसु लहुगा'' इत्यादिकं कायविराधनानिष्पन्नं प्रायश्चित्तम्, तृप्ता वा तिर्यञ्चस्तस्यैव साधोराहननाऽऽदिना आत्मविराधनां कुर्युः। अनेन हननपदं व्याख्यातम्। "अणहियासे अन्नरूवेणं (256)" इति पदद्वयं भावयतिअत. पवाते सो चेव मग्गों अपरिहुत्तहरियाऽऽदी। ओवगें कूडे मगरा, जइ घुटे तसे य दुहओ वि / / 258 // अथ तृषामसहिष्णवस्ते गवादय अतटेनादीर्घेण वाऽवतरेयुः, छिन्नटङ्के वाऽवपातं दद्युः, ततः परितापनाऽऽद्युत्था सैवाऽऽरोपणा / अथ वा स एवाऽऽभिर्नवा मार्गः प्रवर्तते, तत्र चापरिभुक्तेन वा काशेन गच्छन्तो हरिताऽऽदीनां छेदनं कुर्युः, तत्र तन्निष्पन्नं प्रायश्चित्तम् / एतेन छेदनपद व्याख्यातम्। (ओवग त्ति) गर्ता, तत्र प्रपतेयुः, अतीर्थे वा केनचित् कूट स्थापितं भवेत् तेन कूटेन बद्धा विनाशमश्नुवते / एतोपि छेदनपदं व्याख्यातम् / उदकेन वा जलमवतीर्णा मकराऽऽदिभिः कवलीक्रियन्ते। अन्यतीर्थेनातीर्थेन वा साधुनिमित्तमवतीर्णास्तु समविरहिते अप्काये यावतः घुण्टान् कुर्वन्ति तावन्ति चतुर्लघूनि। (तसे यत्ति) अचित्ते अप्काये यदि द्वीन्द्रियमश्राति ततः षट् लघुकं, चतुरिन्द्रिये छेदः, पञ्चेन्द्रिये एकस्मिन् मूलं, द्वयोरनवस्थाप्यम्, त्रिषु पञ्चेन्द्रियेषु पाराञ्चिकम्। (दुहओ वि त्ति) यत्राप्कायोऽपि, सचित्तद्वीन्द्रियाऽऽदयश्च त्रसास्त-त्रद्वाभ्यामकायसविराधनाभ्यां निष्पन्नं प्रायश्चित्तम् / सर्वत्रापि च द्वीन्द्रियेषु षट् सुत्रीन्द्रियेषु.......(?) चतुरिन्द्रियेषु चतुर्षु पञ्चेन्द्रियेषु त्रिषु पाराश्चिकम्। एते तावदारण्यकतिर्यसमुत्था दोषा उक्ताः। अथ ग्रामेयकतिर्यक् समुत्थान् दोषानुपदर्शयतिगामेयकुच्छियाऽकुच्छिया य एकेक दुट्ठऽदुवा या दुट्ठा जह आरण्णा, दुगुंछियऽदुगुंछिया नेया॥२५६।। ते ग्रामेयकास्तिर्यञ्चो द्विविधाः-कुत्सिता जुगुप्सिताः, अकुत्सिता अजुगुप्सिताः, ते द्वयेऽपि यथा आरण्यकाः तथैव दोषानाश्रित्य ज्ञेयाः, जुगुप्सिताः साधुना गर्दभाऽऽदयः, अजुगुप्सिता गवाऽऽदयः / पुनरेकैके द्विविधाः-दुष्टा अदुष्टाश्च। तत्र ये जुगुप्सिता अजुगुप्सिता दुष्टाः ते द्वयेऽपि यथा आरण्यकास्तथैव दोषानाश्रित्य ज्ञेयाः। ये अजुगुप्सिता अदुष्टास्तेष्वपि यथासंभवं दोषा उपयुज्य वक्तव्याः। ययुत जुगुप्सिता अदुष्टास्तेषु दोषानाहभुत्तित्तरदोसे कुच्छियपडिणीयछोडे गिण्हणाऽऽदीया। आरण्णमणुयथीसु वि, ते चेव नियत्तणाऽऽईया।।२६०।। येन साधुना महाशब्दिका, या जुगुप्सिता तिरश्चीगृहस्थकाले भुक्ता, तस्य तां दृष्ट्वा स्मृतिः, इतरस्य कौतुकम्, एवं भुक्ताभुक्तसमुत्था दोषा भवन्ति / अथवा तासु जुगुप्सितासु तिरश्चीसु पार्श्ववर्तिनीषु प्रत्यनीकः कोऽपि (छोभत्ति) अभ्याख्यानं दद्यात्-"मयैष श्रमणको महाशब्दिका प्रतिसेवमानो दृष्टः / " इति / तत्र ग्रहणाऽऽकर्षणप्रभृतयो दोषाः / एवं ग्रामेयकाऽऽरण्यकेषु तिर्यक्षुदोषा उपदर्शिताः। अथ मनुष्येष्वभिधीयते(आरण्ण इत्यादि) मनुष्या द्विविधाः-आरण्यकाः, ग्रामेयकाश्च / तत्राऽऽरण्यकेषु पुरुषेषु त एव दोषाः, स्त्रीष्वप्यारण्यकासुत एव निवर्तनान्तरायाऽऽदयो दोषाः। एते चान्ये अभ्यधिका:-- पायं अपाउडाओ, सवराईआ तहेव निच्छेका। आरियपुरिसकुतूहल, आउभय पुलिंद आसु वहे / / 261 // प्रायो बाहुल्येन शबरीप्रभृतय आरण्यका अनार्यस्त्रियोऽपावृता वस्त्रविरहिता निश्छेका निर्लज्जाश्च भवन्ति, ततः साधुं दृष्ट्वा आर्योऽयं पुरुष इति कृत्वा कौतूहलेन तत्राऽऽगच्छेयुः, ताश्च दृष्ट्वा साधोरात्मपरोभयसमुत्था दोषा भावेयुः। तदीयपुलिन्दश्च तां साधुसमीपाऽऽयातां विलोक्य ईर्ष्याभरेण प्रेरितः साधोः, पुलिन्द्याः, उभयस्य वा आशुशीघ्रं वधं कुर्यात्। थीपुरिसअणायारे, खोभो सागारियं ति वा पहणे। गामित्थीपुरिसेहि वि, तच्चिय दोसा इमे अन्ने // 262|| अथवा स पुलिन्दः पुलिन्द्या सहानाचारमाचरेत्, ततः स्त्रीपुरुषानाचारे दृष्ट चित्तक्षोभो भवेत्, क्षुभिते च चित्ते प्रतिगमनाऽऽदयो दोषाः / यद्वा-स पुलिन्दस्ता प्रतिसेवितुकामः सागारिकमिति कृत्वा तं साधुं प्रहण्यात्। एते आरण्यकेषु स्त्रीपुरुषेषु दोषा उक्ताः / ग्रामेयकस्त्रीपुरुषेष्वपि त एव दोषाः / एतेचाऽन्येऽधिका भवन्तिचंकमणं निल्लेवण, चिट्टित्ता तम्मि चेवमहियं तु / अत्यंते संकापद, मन्नण दटुं सतीकरणं / / 263 / / चक्रमण, निर्लेपनं वा तत्र गृहस्थः कर्तुकामोऽपि साधुं दृष्ट्वा कश्चिदन्यत्र गत्वा करोति, कश्चित्तु तत्रैव तीर्थे साधुसमीपे गत्वा करोति, तथा (चिद्वित्त त्ति) कश्चिद् गृहस्थः साधुना सह गोष्ठीनिमित्तं तत्रैवं स्थित्वा पश्चादन्यत्र गच्छति, एवमधिक भवेत् / तथा दकतीरे तिष्ठति साधौ शड कापदं वक्ष्यमाणलक्षणमगारिणां जायते, मजनं च विधीयमानं दृष्ट्या स्मृतिकरणं भुक्तभोगिनाम, उपलक्षणत्वात् अभुक्तभोगिनां कौतुकमुपजायते। अथैनामेव नियुक्तिगाथां विवृणोतिअन्नत्थ व चंकम्मति, आयमणण्णत्थ वा वि वोसिरइ। कोनाली चंकमणे, परकूलातो वि तत्थेइ // 26 // कश्चिद्दकतीरे चक्र मणं करिष्यामीति भुक्तभोगिनामुपलक्षण त्वादभुक्तभोगिनां च कौतुकाभिप्रायेणाऽऽयातः साधुं दृष्ट्वा ततः स्थानादन्यत्र चक्र म्यते / वाशब्दात् कश्चिदन्यत्र चक्र -