________________ दग 2442 - अभिधानराजेन्द्रः - भाग 4 दगतीर दग न०(दक) पानीये, ग०३ अधि० स्था०। प्रश्न०। आ०म०। दश०। | प्रज्ञा०। नि०चू०। कल्प०। बृ०। अप्काये, आ०चू०४ अ० आव०/ अष्टाशीतिमहाग्रहान्तर्गते स्वनामख्याते ग्रहे, चं०प्र०२० पाहु०। "दो दगा।' स्था०२ ठा०३उ०। कल्प०। सू०प्र०) दगकलसग पुं०(दककलशक) उदकभृते भृङ्गारे, रा०। दगकुंभग पुं०(दककुम्भक) दकघटे. रा०। दगगब्भ पुं०(दकगर्भ) दकस्योदकस्य गर्भा इव गर्भादकगर्भाः। कालान्तरे जलवर्षणस्य हेतुषु तत्संसूचकेषु, स्था०४ ठा०४उ० (चतुर्दा दक्गर्भाः 'उदगगब्भ' शब्दे द्वितीयभागे 771 पृष्ठे द्रष्टव्याः) दगछड्डण न०(दकछर्दन) उदकप्रतिष्ठापने, उदकप्रक्षेपस्थाने च / आचा०२ श्रु०१ चू०१ अ०६उ०। दगछड्डणमत्तय पुं०(दकछर्दनमात्रक) उदकप्रतिष्ठापनमात्रके, उपकरणधावनोदकप्रक्षेपस्थाने च। आचा०२ श्रु०१ चू०१ अ०६उ०। दगणिग्गम पुं०(उदकनिर्गम) जलवीणिकायाम, नि०चू० 10 उ०।। दगतीर न०(उदकतीर) उदकाऽऽकराद्यतो नीयते उदकं तस्मिन्, नि०चू०१६ उ०॥ उदकोषकण्ठे, बृ०१ उ०। नो कप्पइ निग्गंथाण वा निग्गंथीण वा दगतीरंसि चिट्ठित्तए वा निसीइत्तए वा तुयट्टित्तए वा णिद्दाइत्तए वा पयलाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारमाहारित्तए, उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिट्ठवित्तए, सज्झायं वा करित्तए,धम्मं जागरित्तए, झाणं वा झाइत्तए, काउस्सग्गं वा ठाणं ठाइत्तए||१६|| न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा दकतीरे उदकोपकण्ठे स्थातुं वा ऊर्द्धस्थितस्यासितुम्, निषत्तुं वा उपविष्टस्य स्थातुम्, त्वग्वतयितुं वा दीर्घ कार्य प्रसारयितुम्, निद्रायितुं वा सुखप्रतिबोधावस्थया निद्रया शयितुम्, प्रचलायितुं वा स्थितस्य स्वप्तुम्, अशनं वा पानं वा खादिम वा स्वादिम वाऽऽहारमाहारयितुम, उच्चार वा प्रस्रवणं वा खेलं वा सिडाणं वा परिष्ठापयितुम, स्वाध्यायं वा वाचनाऽऽदिकं कर्तुम्, धर्म ध्यानलक्षणं जागरयितुम्, धातूनामनेकार्थत्वात् (झाणं वा झाइत्तए) ध्यानमनुस्मर्तुमिति, कायोत्सर्ग वा चेष्टाऽभिभवभेदाद् द्विविधकायोत्सर्गलक्षणं स्थानं स्थातुं, कर्तुमित्यर्थः / एष सूत्रार्थः / / 19 / / __ अथ नियुक्तिविस्तरःदगतीरें चिट्ठणाऽऽदी,जूवगें आयावणा य बोधव्वा। लहुओ लहुया लहुया,तत्थ वि आणाइणो दोसा / / 252 / / दकतीरे स्थानाऽऽदीनि कुर्वतः प्रत्येकं लघुको मासः, यूपके वक्ष्यमाणलक्षणे वसतिं गृह्णाति चतुर्लघुकाः, आतापना प्रतीता, तामपि दकतीरे कुर्वन् चतुर्लघुकाः प्रायश्चित्तं बोद्धव्यम्, तत्रापि प्रत्येकमाज्ञाऽऽदयो दोषाः। अत्र दकतीरस्य प्रमाणे च आदेशाः सन्ति, तानेव दर्शयतिनयणे पूरे दिटे, तडि सिंचण वीइमेव पुढे य। अत्यंते आरण्णय-गामपसुमणुस्सइत्थीओ।।२५३।। नोदक आह- उदकाऽऽकराद्यत्रोदकं नीयते तद्दकतीरम् / यावन्मात्रं नदीपूरेणाऽऽक्रम्यते तद्दकतीरम् / यद्वा-यत्र स्थितैर्जल दृश्यतेतद्दकतीरम्। अथवा-या नद्यास्तटी भवति / यदि वा-यत्र जले स्थिते जलस्थितेन शृङ्ग काऽऽदिना सिच्यते। अथ यावन्तं भूभागं वीचयः स्पृशन्ति। यदि वा यावान् प्रदेशो जलेन स्पृष्टः / एतदुदकतीरम् / सूरिराहयानि त्वया दकतीरलक्षणानि प्रतिपादितानि, तानि न भवन्तीति, किं तु आरण्यका ग्रामेयका वा पशवो मनुष्याः स्त्रियो वा जलार्थिन आगच्छन्तः साधु यत्र स्थितं दृष्ट्वा तिष्ठन्ति, निवर्तन्ते वा तद्दकतीरमुच्यते। एतदेव सविशेषमाहसिंचणवीईपुट्ठा, दगतीरं होइन पुण तम्मत्तं / ओतरिउत्तरिउमणा, जहिं दट्ट तसंति तं तीरं / / 254|| नयनपूरदृष्टप्रभृतीनां सप्तानामादेशानां मध्याचरमाणि त्रीणि सिञ्चनचीचिस्पृष्टलक्षणानि दकतीरं भवन्ति, न पुनस्तावन्मात्रमेव, किं तु आरण्यका ग्रामयेका वा तिर्यग्मनुष्या जलपानाऽऽद्यर्थमवतरीतुमुत्तरीतुमनसो जलचरा वा यत्र स्थितं साधं दृष्ट्वा त्रस्यन्ति, तदव्यभिचारि दकतीरमुच्यते। तत्र च स्थाननिषीदनाऽऽदिकरणे दोषान् दर्शयति-- अहिगरणमंतराए, छेदण ऊसास अणहियासे य / आहणण सिंच जलचर-खहथलपाणाण वित्तासो।।२५५।। दकतीरे तिष्ठतः साधोरधिकरणं वक्ष्यमाणलक्षणं, बहूनां च प्राणिनामन्तराय भवति तथा साधोः सम्बन्धिनीना पादरेणूनां छेदनकाः सूक्ष्मावयवरूपा उड्डीय पानीये निपतेयुः / यद्बा-छेदनं नाम ते प्राणिनः साधु दृष्ट्वा प्रतिनिवृत्ताः सन्तो हरिताऽऽदिच्छेदनं कुर्वते। (ऊसास त्ति) उच्छासविमुक्ताः पुद्गला जले निपतन्ति, ततोऽप्कायविराधना। यदि वा तेषां प्राणिनां तृषाऽऽत्तानामुच्छासोदञ्चनं भवेत्, मरणमित्यर्थः / (अणहियासे इति) अनधिसहा-स्तृषामसहिष्णवस्ते अतीर्थ जलमवतरेयुः, साधुर्वा कश्चिदनधि-सहस्तृषार्त्तः पानीयं पिबेत्, दुष्टगवाश्वाऽऽदिना वा तस्याऽऽहननं भवेत्, दकतीरस्थित वा अनुकम्पया प्रत्यनीकतया वा कश्चिद् दृष्ट्वा सिञ्चन कुर्यात्. जलचरखचरस्थलचरप्राणिना च वित्रासो भवेत्। तत्राधिकरणं व्याचिख्यासुराहदवण वा नियत्तण, अभिहणणं वा वि अन्नरूवेणं / गामाऽऽरण्णपसूणं, जा जहिं आरोवणा भणिया॥२५६।। साधुं दृष्ट्वा आरण्यकाऽऽदिप्राणिनां निवर्त्तनं भवति / अभिहननं वा परस्परं तेषां भवेत्। (अन्नरूवेणं ति) अन्यतीर्थन वा ते जलमवतरेथुः। तेषां च ग्रामाऽऽरण्यपशूनां निवर्तनाऽऽदौ षट् कायोपमर्दः संभवेत् / "छक्काय चउसुलहुगा" इत्यादिना या यत्राऽऽरोपणा सा तत्र द्रष्टव्या। एष नियुक्तिगाथासमासार्थः। अथैनामेव विवृणोतिपडिपथनियत्तमाणम्मि अंतरायं च तिमरणे चरिमं /