SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ दंसणावरण 2438 - अभिधानराजेन्द्रः - भाग 4 दसणावरण (नवेत्यादि) सामान्यविशेषाऽऽत्मके वस्तुनि सामान्यग्रहणाऽऽत्मको बोधो दर्शन, तस्याऽऽवरणस्वभावं कर्म दर्शनाऽऽवरण, तन्नवविधम् / तत्र निद्रापञ्चकं तावत्- 'द्राक्' कुत्सायां गतौ, नियतं द्राति कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था, नखच्छोटिकामात्रेणाऽपि यत्र प्रबोधो भवति। तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते। तथा निद्राऽतिशायिनी निद्रा निद्रानिद्रा, शाकपार्थिवाऽऽदित्वान्मध्यपदलोपी समासः / सा पुनर्दुःखप्रबोधा स्वापावस्था, तस्यां हि अत्यर्थमस्फुटतरीभूतचैतन्यत्वाद् दुःखेन बहुभिर्घोलनाऽऽदिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्राऽपेक्षया अस्याअतिशायिनीत्वम्, तद्विपाकवेद्या कर्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते। उपविष्ट ऊर्द्धस्थितो वा प्रचलात्यस्यां स्वापावस्थायामिति प्रचला ! सा झुपविष्टस्योर्द्धस्थितस्य वा घूर्णमानस्य स्वतुर्भवति / तथाविध-विपाकवेद्या कर्मप्रकृतिरपि प्रचलेत्युच्यते। तथैव प्रचलाऽतिशायिनी प्रचला प्रचलाप्रचला। सा हि चड्क्रमणाऽऽदि कुर्वतः स्वातुर्भवति, अतः स्थानस्थितस्वतृभवां प्रचलामपेक्ष्यातिशायिनी। तद्विपाका कर्मप्रकृतिरपि प्रचलाप्रचला। स्त्याना बहुत्वेन संघातमापन्ना गृद्धिरभिकाङ्का जाग्रदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापात्रस्थायां सा स्त्यानगृद्धिः, तस्यां हि सत्यां जाग्रदवस्थाऽध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा पिण्डीभूता ऋद्धिरात्मशक्तिरूपा यस्यामिति स्त्यामद्धिरित्यप्युच्यते, तद्भावे हि स्वप्नुः केशवाईबलसदृशी शक्तिर्भवति / अथवा स्त्याना जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानद्धिरिति / तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानर्द्धिः, स्त्यानगृद्धिरितिवा। तदेवं निद्रापञ्चकं दर्शनाऽऽवरणक्षयोपशमाद् लब्धात्मलाभाना दर्शनलब्धीनामावारकमुत्तम्। अधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनाऽऽवरणचतुष्कमुच्यते। चक्षुषा दर्शन सामान्यग्राही बोधश्चक्षुर्दर्शनं, तस्याऽऽवरणं चक्षुर्दर्शनाऽऽवरणम् / अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टन मनसा वा दर्शनं यत् तदचक्षुर्दर्शन, तस्याऽऽ-- वरणमचक्षुर्दर्शनाऽऽवरणम् / अवधिना रूपिमर्यादयाऽवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनम्, तस्याऽऽवरणमवधिदर्शनाऽऽवरणम् / तथा केवलमुक्तस्वरूपं, तच तदर्शनं च, तस्याऽऽवरणं केवलदर्शनाऽऽवरणमित्युक्तं नवविधं दर्शनाऽऽवरणम् / स्था०६ ठा० इदानीं नवविधं दर्शनाऽऽवरणं कर्म व्याख्यानयन्नाहदंसणचउ पण निद्दा, वेत्तिसमंदसणाऽऽवरणं / / (8) इह 'भीमो भीमसेनः' इति न्यायात, पदैकदेशे पदसमुदायोपचारादा "दंसणचउ' इतिशब्देन दर्शनाऽऽवरणचतुष्कं गृह्यते / तत्र दृष्टिदर्शनं, दृश्यते परिच्छिद्यते सामान्यरूपं वस्त्वनेनेति वा दर्शनं, तस्याऽऽवरणान्याच्छादनानि दर्शनाऽऽवरणानि, तेषां चतुष्कं दर्शनाऽऽवरणचतुष्कम् / तथा-"पण निद ति'' द्राक् कुत्सितगतौ (धातुपाठः) द्राति कुत्सितत्वमवि स्पष्टत्वं गच्छति चैतन्यं यासुता निद्राः। "भिदादयः" // 5 // 3 / 108 // इति (सूत्रेण) अड् प्रत्ययः। पञ्चेति पञ्चसंख्याःनिद्रानिद्रानिद्राप्रचलाप्रचलास्त्थानर्द्धिरूपाः निद्राः पञ्च, निद्रापञ्चकमित्यर्थः / ततो दर्शनाऽऽवरणचतुष्कं निद्रापञ्चकमिति नवधा दर्शनाऽऽवरणं भवति / किंविशिष्टमित्याह--(वेत्तिसम ति) वेत्रिणा प्रतीहारेण समतुल्यं वेत्रिसमम्। यथा राजानं द्रष्टुकामस्याप्यनभिप्रेतस्य | लोकस्य वेत्रिणा स्खलितस्य राज्ञो दर्शनं नोपजायते, तथा दर्शनस्वभावस्याप्यात्मनो येनाऽऽवृतस्य स्तम्भकुम्भाम्भोरुहाऽऽदिपदार्थसार्थस्य न दर्शनमुपजायते, तद्वेत्रिसमंदर्शनाऽऽवरणम्। उक्तं च"दंसणसीले जीवे, दंसणघायं करेइ जं कम्म। तं पडिहारसमाण, दंसणवरणं भवे कम्मं / / 1 / / जह रन्नो पडिहारो, अणभिप्पेयस्स सो उलोगस्स। रन्नो तह दरिसावं, न देइ दुटुं-पि कामस्स।।२।। जह राया तह जीवो, पडिहारसमं तु दसणाऽऽवरणं / तेण हि विबंधगेणं, न पेच्छई सो घडाईयं // 3 // इति / / अथ दर्शनाऽऽवरणचतुष्कं व्याचिख्यासुराहचक्खुद्दिट्ठिअचक्खू-सेसिंदियओहिकेवलेहिं च / / दंसणमिह सामन्नं, तस्साऽऽवरणं तयं चउहा।।१०।। इह चक्षुःशब्देन दृष्टिगुह्यते, अचक्षुःशब्देन 'सेसिंदिय त्ति'' चक्षु-- वर्जशेषेन्द्रियाणि गृह्यन्ते / ततश्च चक्षुश्चाचक्षुश्चावधिश्च केवलं च चक्षुरचक्षुरवधिकेवलानि, तैः चक्षुरचक्षुरवधिकेवलैः / चशब्दोऽचक्षुःशेषेन्द्रिय इत्यत्र मनसः संसूचकः / दर्शनमिह प्रवचने सामान्य सामान्योपयोग उच्यते। यदुक्तम्-"जं सामन्नग्गहणं, भावाणं नेव कटु आगारं / अविसे सिऊण अत्थे, दंसणमिय वुचए समए // 1 // " तस्याऽऽवरणं दर्शनाऽऽवरणं, तचतुर्धा भवति-चक्षुर्दर्शनाऽऽवरणमचक्षुर्दर्शनावरणमवधिदर्शनावरणं केवलदर्शनावरणमिति गाथाsक्षरार्थः / भावार्थस्त्वयम्-- इह चक्षुर्दर्शनं नाम यच्चक्षुषा रूपसामान्यग्रहणं, तस्याऽऽवरणं चक्षुदर्शनाऽऽवरणं, चक्षुःसामान्योपयोगाऽऽवरणमिति यावत्। अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसाच यदर्शनं स्वस्वविषयसामान्यपरिच्छेदोऽचक्षुर्दर्शनं, तस्याऽऽवरणमचक्षुर्दर्शनाऽऽवरणम् / अवधिना रूपिद्रव्य मर्यादया दर्शनं सामान्यार्थग्रहणमवधिदर्शनं, तस्याऽऽवरणमवधिदर्शनाऽऽवरणम्। केवलेन सम्पूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद्दर्शनं वस्तुसामान्यांशग्रहणं तत् केवलदर्शनं, तस्थाऽऽवरणं केवलदर्शनाऽवरणम् / अत्राऽऽहननु यथाऽवधिदर्शनाऽऽवरणं कर्मोच्यते, तथा मनः पर्यायज्ञानस्यापि दर्शनाऽऽवरणं कर्म किमिति नोच्यते? उच्यते-मनःपर्यायज्ञानंतथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृह्णदुत्पद्यते, नसामान्यम्, अतस्तदर्शनाभावातदावरणं कर्माऽपि न भवति। अत्र च चक्षुर्दर्शनाऽऽवरणोदय एकद्वित्रीन्द्रियाणां मूलत एव चक्षुर्न भवति, चतुःपञ्चेन्द्रियाणां तु भूतमपि चक्षुस्तथाविधे तदुदये विनश्यति, तिमिराऽऽदिना वाऽस्पष्ट भवति / चक्षुर्वर्जशेषेन्द्रियमनसा पुनर्यथासम्भवमभवनमस्पष्टभवनं वाऽचक्षुर्दर्शनाऽऽवरणोदयादित्यभिहितं दर्शनाऽऽवरणचतुष्कम् // 10 // कर्म०१ कर्मा चक्षुषा दर्शनं चतुर्दर्शनं, तस्याऽऽवरणं चक्षुर्दर्शनाऽऽवरणम्।६। अचक्षुषा चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनं, तस्याऽऽ--- वरणमचक्षुर्दर्शनाऽऽवरणम् 7 / अवधिरेव दर्शनं रूपिद्रव्यसामान्यग्रहणम् अवधिदर्शनं, तस्याऽऽवरणमवधिदर्शनाऽऽवरणम् / / केवलमे व सकलजगद्भाविवस्तुस्तोमसामान्यग्रहणरूपं दर्शन केवलदर्शनं, तस्याऽऽवरणं केवलदर्शनाऽऽवरणम् / अत्र निद्रापञ्चक प्राप्ताया दर्शनलब्धरुपघातकृत, चक्षुर्दर्शनाऽऽवरणाऽऽदि-चतुष्टयं तु मूलत एव दर्शनलब्धिमुपहन्ति। आह च गन्धहस्ती-निद्राऽऽदयः सम
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy