________________ दंसणभावणा 2434 - अभिधानराजेन्द्रः - भाग 4 दंसणरइय दसणभावणा स्त्री०(दर्शनभावना) सम्यक्त्वपर्यालोचने' आचा० / तित्थगराण भगवओ, पवयणपावयणिअइसइड्ढीणं / अहिगमणणमणदरिसण-कित्तणओ पूयणा थुणणा / / 4 / / तीर्थकृतां भगवता, प्रवचनस्य च द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनामाचार्याऽऽदीनां युगप्रधानानां, तथाऽतिशायिनामृद्धिमतां केवलिमनः पर्यायावधिमचतुर्दशपूर्वबिदा, तथाऽमर्पोषध्यादिप्राप्तऋद्धीनां यदभिगमनं, गत्वा च दर्शनम्, तथा नमनम्, गुणोत्कीर्तन, संपूजनं गन्धाऽऽदिना, स्तोत्रैः स्तवनम्, इत्यादिका दर्शनभावना। अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति॥४॥ किंचजम्माभिसेयणिक्खमणचरणणाणुप्पतीय णिव्वाणी। दियलोयभवणमंदिर-णंदीसरभोमनगरेसुं // 5|| तीर्थकृतां जन्माभिषेकभूमिषु, तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु, तथा देवलोकभवनेषु, मन्दिरेषु, तथा नन्दीश्वरद्वीपाऽऽदौ, भौमेषु च पातालभवनेषु, यानि शाश्वतानि चैत्यानि, तानि वन्देऽहमिति द्वितीयगाथाऽन्ते क्रिया // 1 // अट्ठावयमुजंते, गयग्गपयए य धम्मचक्के य। पासरहावत्तणयं, चमरुप्पायं च वदामि // 6 // एवमष्टापदे, तथा श्रीमदुजयन्तगिरी, गजाग्रपदे दशार्णकूटवर्तिनि, तथा तक्षशिलायां धर्मचक्रे, तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिभास्थाने, एवं रथाऽऽवर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं, यत्र च श्रीवर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु च स्थानेषु यथासम्भवमभिगमनवन्दनपूजनगुणोत्कीर्तना-ऽऽदिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति // 6 // किंचगणियं णिमित्त जुत्ती, संदिट्ठी अवितहं इमं गाणं / इय एगंतमुवगया, गुणपञ्चइया इमे अत्था // 7 // प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति / तद्यथा-गणितविषये बीजगणिताऽऽदौ परं पारमुपगतोऽयम् / तथा अष्टाङ्गस्य निमित्तस्य पारगोऽयम् / तथा-दृष्टिपातोक्ता नानाविधा युक्तिव्यसयोगाद्, हेतुत्वाद्वेति / तथा सम्यगविपरीता दृष्टिदर्शनमस्य त्रिदशैरपि चालयितुमशक्या। तथा अवितथमस्येदं ज्ञानं यथैवा-यमाह तत्तथैव प्रावचनिकस्याऽऽचार्याऽऽदेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवति। एवमन्यदपिगुणमाहप्पं इसिणामकित्तणं सुरणरिंदपूया य / पोराणचेइयाणि य, इइएसा दंसणे होइ॥८|| गुणमाहात्म्यमाचार्याऽऽदेवर्णयतः, तथा पूर्वमहर्षीणां च नामोत्कीर्तनं कुर्वतः, तेषामेव च सुरनरेन्द्रपूजाऽऽदिकं कथयतः, तथा चिरन्तनचैत्यानि पूजयत इत्येवमादिकां क्रिया कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति। आचा०२ श्रु०३ चू० 15 अ०! साम्प्रतं दर्शनभावनास्वरूपगुणदर्शनार्थमिदमाह-- संकाऽऽइदोसरहिओ, पसमत्थिन्जाऽऽइगुणगणोवेओ। होइ असंमूढमणा, दंसणसुद्धीइ झाणम्मि॥३२।। शङ्काऽऽदिदोषरहित इति-शङ्कन शङ्का / आदिशब्दात्काजाऽऽदिपरिग्रहः / उक्तं च-"शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसापरपाषण्डसंस्तयाः सम्यग्दृष्टरतीचाराः।" इति / एतेषां च स्वरूप प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः। तत्रशाऽऽदय एव सम्यक्त्वाऽऽख्यप्रशमगणातिचारत्वाद्दोषाः शङ्काऽऽदिदोषाः,तैरहितः त्यक्तः। उक्तदोषरहितत्वादेव किम्? प्रशमस्थैर्याऽऽदिगुणगणोपेतः ,तत्र प्रकर्षेण श्रमः प्रश्रमः खेदः, सच स्वपरसमयतत्त्वाधिगमरूपः, स्थैर्य तु जिनशासने निष्प्रकम्पिता। आदिशब्दात्प्रभावनाऽऽदिपरिग्रहः। उक्तं च - "सपरसमयकोसल्लं, थिरया जिणसासणे पभावणया। आययणसेवभत्ती, दंसणदीवा गुणा पंच" ||1|| प्रशमस्थैर्याऽऽदय एव गुणाः, तेषां गणः समूहः, तेनोपेतो युक्तो यः स तथाविधः। अथवा-प्रशमाऽऽदिना स्थैर्याऽऽदिगबुणगणेनोपेतः। तत्र प्रशमाऽऽदिगुणगणः प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्याभि-व्यक्तिलक्षणः, स्थैर्याऽऽदिस्तु दर्शित एव / य इत्थंभूतः असौ भवत्यसमूढमनाः, तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः / दर्शनशुद्ध्योक्तलक्षणया हेतुभूतया / त? ध्याने / इति गाथाऽऽर्थः // 32 / / आव० ४अ० दंसणभेइणी स्त्री०(दर्शनभेदिनी) ज्ञानाऽऽद्यतिशयतः कुतीर्थकप्रशंसारू पायां विकथायाम् तद्यथा-"सूक्ष्मयुक्तिशतोपेत सूक्ष्मबुद्धिकरं परम् / सूक्ष्मार्थदर्शिभिर्दृष्ट, श्रोतव्यं बुद्धशासनम्॥१॥" इत्यादि / एवं हि श्रोतॄणां तदनुरागात् सम्यग्दर्शन भेद इति / स्था०७ ठा०। ध० ग01 दंसणमत्त न०(दर्शनमात्र) दृष्टिमात्रे, पञ्चा०१२ विव०। दसणमूढ पुं०(दर्शनमूढ) मिथ्यात्विषु, दर्शनमूढा मिथ्यात्व्यादयः। स्था०३ ठा०१उ०॥ दंसणमोह पुं०(दर्शनमोह) दृष्टिदर्शन यथावस्थितवस्तुपरिच्छेदः, तन्मो हयतीति 'कर्मणोऽण" / / 5 / 1172 / / इत्यण प्रत्ययः / मोहनीयकर्मभेदे, कर्म। दंसणमोहं तिविहं, सम्मं मीसं तहेव मिच्छत्तं। सुद्धं अद्धविसुद्ध, अविसुद्धं तं हवइ कमसो ||14|| दर्शनमोह पूर्वोक्तशब्दार्थ, त्रिविधं त्रिकारं भवति। (सम्मति) सम्यक्त्वं, मिश्रं सम्यग् मिथ्यात्वं, तथैव मिथ्यात्वम् / एतदेव स्वरूपत आहशुद्धम विशुद्धमविशुद्धं तद्भवति क्रमशः क्रमेणे ति / अयमत्रार्थ:मिथ्यात्वपुद् गलकदम्बकं मदनकोद्रवन्यायेन शोधित सद् विकाराजनकत्वेन शुद्धं सम्यक्त्वं भवति, तदेव किञ्चिद्विकारजनकत्वेनार्द्धविशुद्ध मिश्रम्, तदेव सर्वथाऽप्यविशुद्ध मिथ्यात्वमिति। उक्तं हि "तद्यथेह प्रदीपस्य, स्वच्छाभ्रपटलैगुहम्। न करोत्यावृति काञ्चिदेवमेतद्रुचेरपि / / 1 / / एकपुजी द्विपुजी च, त्रिपुञ्जी वाऽननुक्रमात्। दर्शन्युभयवाश्चैव, मिथ्यादृष्टिः प्रकीर्तितः / / 2 / / " अत्राऽह-सम्यक्त्वं कथं दर्शनमोहनीयं स्यात्, न हि तद्दर्शनं मोहयति, तस्यैव दर्शनत्वात्? उच्यते-मिथ्यात्वप्रकृतित्वेनाति-वारसंभवादौपशमिकाऽऽदिमोहत्वाच दर्शनमोहनीयमिति / कर्म०१ कर्म०। स्था०। दंसणरइय त्रि० (दर्शनरचित) दर्शने दृष्टिमार्गे रचितो विहितो दर्शनरचितः। दृष्टिमार्गविहिते वस्तुनि, औ०।