SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ दंडपणग 2423 - अभिधानराजेन्द्रः - भाग 4 दंरुवइ तथा वर्षाकाले विदण्डको गृह्यते, यद् यस्मात् लघुको भवति, ततः कल्पान्तरितः कल्पस्याभ्यन्तरे कृतः सुखेनैतन्नीयते जलभयेन, यथाऽप्कायेन न स्पृश्यत इति / / 680 / / इदानीमेतेषां दण्डानां शुभाशुभस्वरूपप्रतिपादनायाऽऽहविसमाइ बद्धमाई, दस य पव्वाइ एगवन्नाइ। दंडेसु अपोल्लाई, सुहाइँ सेसाइँ असुहाई॥६८१॥ पूर्वोक्तेषु पञ्चसु दण्डकेषु, पर्वाणि ग्रन्थिमध्यानि एवंविधानि शुभानि भवन्तीति सम्बन्धः / तत्र विषमाणि एकत्रिपञ्चसप्तनवरूपाणि, तथा दश च दशसंख्यानि / तथा बर्द्धमानानि उपर्युपरि प्रबर्द्धमानानि / तथा एकवर्णानि न पुनश्चित्रलकानि / तथा-(अपोल्लाइ त्ति) अशुषिराणि, निविडानीत्यर्थः, एवंविधविशेषणविशिष्टपर्वोपेताः स्निग्धवर्णा मसृणा वर्तुलावर्तुलाश्च दण्डका यतिजनस्य प्रशस्ता इति भावः / (सेसाई असुहाई ति) शेषाणि पूर्वोक्तविपरीतस्वरूपाणि, पर्वाणि अशुभान्यप्रशस्तानीति / एकाऽऽदिपर्वणां च शुभाशुभफलमित्थमोघनिर्युक्तायुक्तम्। यथा "एगपव्वं पसंसंति, दुपटवा कलहकारिका। तिपय्वा लाभसंपन्ना, चउपव्वा मारणंतिया / / 1 / / पंचपव्वा उ जा लट्ठी, पंथे कलहनिवारिणी। छपवाए य आयंको, सत्तपव्वा निरोगिया // 2 // अट्टपव्या असंपत्तो, नवपव्वा जसकारिया। दसपव्वा उजा लट्ठी, तहियं सव्वसंपई॥३॥" इति। प्रव०८१ द्वार। पं०भा०। जे भिक्खू दंडगं वा लट्ठियाअबहेलणयं वा वेणुसइयं वा सयमेव परिघट्टइवा, संठवेइवा, जम्माइवेएइवा, परिघट्टतं वा संठवंतं वा जम्माइवेयंतं वा साइजइ // 25 // इदमपि प्रथमोद्देशकवद्वक्तव्यम्। गाहादंडग विदंडए वा, लट्ठि विलट्ठीय तिविध तिविधा तु। वेणुमय वेत्त दारुय, बहु अप्प अहाकडे चेव // 170 / / नि०चू०२ उ० दंडपरिहार पुं०(दण्डपरिहार) महत्या जीर्णकम्बलिकायाम् बृ०१ उ०। दंडपह पुं०(दण्डपथ) गोदण्डमार्गे, सूत्रका अंधे व से दंडपहं गहाय, अविओसिए घासति पावकम्मी। (5) यथा ह्यन्धश्चक्षुर्विकलो दण्डपथं गोदण्डमार्ग प्रमुखोज्ज्वलं गृहीत्वाऽऽश्रित्य व्रजन् सम्यगकोविदतया घृष्यते कण्टकश्वापदाऽऽदिभिः पीड्यते, एवं केवललिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्यधिकरणोदीपकस्तथा। (अविओसिए त्ति) अनुपशान्तद्वन्द्वः पापमनार्य कर्मानुष्ठान यस्याऽसौ पापकर्मा, घृष्यते चतुर्गतिके संसारे यातनास्थानगतः पौनःपुन्येन पीड्यत इति / / 5 / / सूत्र०१ श्रु०१३ अ०॥ दंडपासि(ण) पुं०(दण्डपाश्विन्) दण्डस्य पावं दण्डपार्श्व, तद्विद्यते यस्याऽसौ दण्डपा: / स्वल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति यः तस्मिन्, दशाा०६ अ०। सूत्र०।। दंडपुंछणय न०(दण्डपुञ्छनक) दण्डयुक्तायां संमार्जन्याम्, जं०५ वक्षः। सणकहस्तकेशरपर्णाऽऽदिशलाकासमुदाये च, आ०म०१ अ०१ खण्ड। दंडपुरकड पुं०(दण्डपुरस्कृत) सदा पुरस्कृतदण्डे, दशा०६ अ० सूत्रा दंडप्पयार पुं०(दण्डप्रकार) आज्ञाविशेषे, स० *दण्डप्रचार पुं०। सैन्यविचरणे, सा दंडभी स्त्री०(दण्डभी) दण्डं जीवकर्मसमारम्भं मृषावादाऽऽदिकं, दण्डाद्विभेतीति दण्डभीः। दण्डभीते, आचा०१ श्रु० अ०१ उ०। दंडमाइ पुं०(दण्डाऽऽदि) डल्लानां धरणिपाताऽऽद्युभयाङ्कयुद्धप्र भृतिषु, पि। दंडय पुं०(दण्डक) 'दंडग' शब्दार्थे, सूत्र०२ श्रु०२ अ०। दंडरयण न०(दण्डरत्न) रत्नविशेषे, आ०चू०१ अ० "... दंडरयणं परामुसइ / तए णं भवे दंडरयणं रयणपंचसइयं वइरसारमइयं विणासणं सव्वसत्तूसेन्नाणं खंघावारेण खइयस्सगुहादरीविसमपन्भारगिरिपवाताणं समीकरणं संतिकरणं सुभकरणं रन्नो हिदयइच्छितमणोरह पूरगं दिव्वमपडिहतं दंडरयणं गहाय सत्तद्रुपदे पचोसक्कइ।" आ०चू०१ अ०। स्था०। प्रज्ञा०। दंडरुइ पुं०(दण्डरूचि) “एगंतदंडरुइणो।" हिंसनश्रद्धे, प्रश्न०३ आश्र० द्वार। दंडलक्खण न०(दण्डलक्षण) दण्डस्वरूपनिरूपणे, जं० ___ दण्डलक्षणम्"यद्यातपत्राङ्कुशवेत्रचापवितानकुन्तध्वजचामराणाम्। व्यापाततन्त्रीमधुकृष्णवर्णकलाक्रमेणैव हिताय दण्डाः (?)||1 // मन्त्रि१ भूरधन३कुल४क्षयावहा रोग५मृत्युधजननाश्च पर्वभिः। द्वयादिभिर्द्विकविवर्द्धितः क्रमाद्वारशान्तविरतैः समैः फलम् / / 2 / / यात्राप्रसिद्धिपर्द्विषतां विनाशोर, लाभाःप्रभूताः३ वसुधा४ऽऽगमश्च / वृद्धिः५ पशूनामभिवाञ्छितार्थ:६, त्र्यादिष्वयुग्मेषु तदीश्वराणाम्॥३॥" जं०२ वक्ष०। ज्ञा०। सूत्र०ा औ०) स०। (अत्र विशेषो 'लट्टि' शब्दे वीक्ष्यः) दंडलत्तिय पुं०(दण्डलातिक) दण्डो गृहीतो येन स दण्डलातः, सुखाऽऽदिदर्शनाद् निष्ठान्तस्य परनिपातः। दण्डलात एव दण्डलातिकः (प्राकृतत्वात्) स्वार्थिक इप्रत्ययः / यथा-पृथिवीकायिक इत्यत्र / गृहीतदण्डे राज्ञि, व्य०१ उ०। दंडवइ पुं०(दण्डपति) यः पुनस्तं दण्डमुद्गमयति तस्मिन, बृ०२ उ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy