________________ थूलभद्द 2417 - अमिधानराजेन्द्रः - भाग 4 थूलभद्द ततोऽधुना किं क्रियते, सोऽवग्मोद्धाटनं कुरु॥११५॥ शिष्यान् प्रेषयतां प्राज्ञान्, दास्ये सप्ताहि वाचनाः। भिक्षाचर्याः समायातः, कालवेलाविकालयोः / / 116 // संज्ञाभूम्यागतश्चैव, तिस्रश्चाऽऽवश्यके पुनः। सिद्धे ध्याने महाप्राणे, स परावर्त्तते श्रुतम्॥११७॥ आदेरन्तं ततोऽप्यादि,यावदन्तर्मुहूर्ततः।। स्थूलभद्राऽऽदिकाऽऽयासी-च्छिष्यपञ्चशती ततः |11|| निरन्तरं वाचनानामभावेऽध्येतुमक्षमाः। स्थूलभद्रं विना सर्वे , पराभज्याऽपरे ययुः॥११६।। ध्याने स्तोकावशेषे स, पृष्टः श्रीभद्रबाहुना। किं खिद्यसे न खिद्येऽहं, कञ्चित्कालं क्षमस्व तत्।।१२०।। सिद्धध्यानः सदा सर्व-दिनं दास्यामि वाचनाम्। सोऽप्राक्षीत्किं मयाऽधीतं, शेष वा सूरयोऽभ्यधुः / / 121 / / अष्टाशीतिर्हि सूत्राण्यौपम्यं सिद्धार्थमन्दरौ। इतो न्युनेनाऽपिपरं, समयेन पठिष्यसि / / 12 / / दशपूर्वी द्विवस्तूना-ऽध्यापिध्याने समर्थिते। अत्रान्तरे विहारण, प्रययुः पाटलीपुरे॥१२३।। सप्ताप्यात्तव्रतास्तत्र, स्थूलभद्रस्य जामयः / उद्यानस्थान् गुरून् स्थूलभद्रं चाऽऽनन्तुमाययुः / / 124|| गुरुन्नत्वाऽवदन् कुत्र, ज्येष्ठाऽऽर्यः सूरयोऽभ्यधुः। परत्र गुणयन्नस्ति, वीक्ष्याऽऽयान्तीः सहोदराः / / 125|| ऋद्धि दर्शयितुं सिंह-रूपमाधाय तस्थिवान्। ताः सिंह वीक्ष्य पूच्चक्रुरायः सिंहेन भक्षितः / / 126 / / गुरुरूचे न सिंहः स, भाता वो लब्धिमैक्षयत्। हृष्टास्तास्तमथाऽऽनेमुरप्राक्षीत्सोऽपि कौशलम् // 127 / / यक्षोवाच परिव्रज्य, श्रीयको वर्षपर्वणि। अभक्तार्थ मयाऽकारि, निशीथे मृत्युमाप्तवान्।।१२८|| ततश्च मामभुजाना, विदेहे देवताऽनयत्। तत्र पृष्टः प्रभुः प्राऽऽह, ऋषिहत्याऽत्र ते न तत्॥१२६।। मया निन्येऽध्ययने, स्वाम्युक्ते मुक्तिभावने (?) / वन्दित्वा तास्ततो याताः, द्वितीयेऽयुपतस्थुषः / / 130 // न गुरुचिनां दत्ते, स ज्ञात्वा ह्यः कृतंततः। नैतत्पुनः करिष्यामीत्येवं कष्टन भूयसा।।१३१।। क्षामितोऽध्यापयच्छेषमुक्तो माऽन्यं हृदेः पुनः। व्युच्छिन्नाऽथ चतुःपूर्वी, दशमाऽन्त्यद्विवस्तुयुक्॥१३२|| योगसंग्राहिता चैवं, शिक्षायां स्थूलभद्रवत्।" आ०क०। थेरस्सणं अज्जसंभूइविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अजथूलभद्दे गोयमसगुत्ते। स्थविरस्याऽऽर्यसभूतिविजयस्य माठरगोत्रस्य शिष्यः स्थविर आर्यः स्थूलभद्रो गौतमगोत्रोऽभूत्। तत्संबन्धश्चाऽयम् - पाटलिपुरे शकटालमन्त्रिपुत्रः श्रीस्थूलभद्रो द्वादश वर्षाणि कोशागृहे स्थितो वरस्वविद्विजप्रयोगात्पितरि मृते नन्दराजेनाऽऽकार्य मन्त्रिमुद्रादानायाभ्यर्थितः सन् पितृमृत्यं स्वचित्ते विचिन्त्य दीक्षामादत्त, पश्चाच संभूतविजयान्तिके व्रतानि प्रतिपद्य तदादेशपूर्वकं कोशागृहे चतुर्मासीमस्थात्, तदन्ते च बहुहावभावविधायिनीमपि तां प्रतिबोद्धय गुरुसमीपमागतः सन् तैर्दुष्करदुष्करकारक इति संघसमक्षं प्रोचे, तद्वचसा पूर्वाऽऽयाताः सिंहगुहासर्पबिलकूपकाष्ठस्थायिनस्त्रयो मुनयो दूनाःतेषु सिंहगुहास्थायी मुनिर्गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्वा च तां दिव्यरूपा चलचित्तोऽजनि, तदनु तया नेपालदेशाऽऽनायितरत्नकम्बलं खाते क्षिप्त्वा प्रतिबोधितः सन्नागत्योवाच"स्थूलभद्रः स्थूलभद्रः, स एकोऽखिलसाधुषु / युक्त दुष्करदुष्कर-कारको गुरुणा जगे" ||1|| "पुप्फफलाण च रस, सुराण मंसाण महिलियाणं च। जाणता जे विरया, ते दुक्करकारए वंदे" // 2 // कोशाऽपि तत् प्रतिबोधिता सती स्वकामिनं पुडार्पितवाणैदूरस्थानलुम्ब्यानयनगर्वित रथकारं सर्षपराशिस्थसूच्यग्रस्थपुष्पोपरि नृत्यन्ती प्राऽऽह"न दुक्करं अम्बयलुंबितोडण, न दुक्करं सरिसवनचियाई। तंदुकरं तं च महाणुभावं, जं सो मुणी पमयवणम्मि वुच्छो // 3 // " कवयोऽपि"गिरौ गुहायां विजने वनान्तरे, वासंश्रयन्तो वशिनः सहस्रशः। हयेऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालनन्दनः // 4|| योऽनौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न खड्गाग्रकृतप्रचारः। कृष्णाहिरन्ध्रेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः // 5 // वेश्या रागवती सदा तदनुगा षड्भि रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयः सङ्गमः। कालोऽयं जलदाऽऽविलस्तदपि यः काम जिगायाऽऽदरात्, तं वन्दे युवतिप्रबोधकुशल श्रीस्थूलभद्रं मुनिम्।।६।। रेकाम! वामनयना तव मुख्यमस्त्र, वीरा वसन्तपिकपञ्चमचन्द्रमुख्याः। त्वत्सेवका हरिविरचिमहेश्वराऽऽद्याः हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ? |7|| श्रीनन्दिषेणरथनेमिमुनीश्वराऽऽर्द्रबुद्ध्या त्वया मदन रे ! मुनिरेष दृष्टः / ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम्॥८॥ श्रीनेमितोऽपि शकटालसुतं विचार्य मन्यामहे वयमडु भटमेकमेव। देवाऽद्रिदुर्गमधिरुह्य जिगाय मोहं यन्मोहनाऽऽलयमयं तु वशी प्रविश्य / / 6 / / " अन्यदा द्वादशवर्षदुर्भिक्षप्रान्ते संघाऽऽग्रहेण श्रीभद्रबाहुभिः साधुपवशत्याः प्रत्यहं वाचनासप्तकेन दृष्टिवादे पाठ्यमाने सप्तभिर्वाचनाभिरन्येषु साधुषु उद्विग्रेषु श्रीस्थूलभद्रो वस्तुद्वयोनांदशपूर्वी पपाठ। अथैकदा यक्षसाध्वीप्रभृतीनां वन्दनार्थमागतानां स्वभगिनीनां सिंहरूपदर्शनेन दूनाः श्रीभद्रबाहवो वाचनायामयोग्यस्त्वम्' इति श्रीस्थूलभद्रभूचिवांसः। पुनः संघाऽऽग्रहात्। 'अथाऽन्यस्मै वाचना न देया' इत्युक्त्वा सूत्रतो वाचनां ददुः। तथा चाऽऽहुः''केवली चरमो जम्बूस्वाम्यथ प्रभवप्रभुः।