________________ थावचापुत्त 2407 - अभिधानराजेन्द्रः - भाग 4 थावचापुत्त ख्यसमये साड् ख्यसमाचारे लब्धार्थः / वाचनान्तरे तु यावत्करणादेवमिदभवगन्तव्यम् - ऋग्वेदयजुर्वेदसामवेदार्थवणवेदानामितिहासपञ्चमानामितिहासः पुराणं, निघण्टुषष्टानां निघण्टुर्नामकोशः, साङ्गोपाङ्गानामङ्गानि शिक्षाऽऽदीनि, उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः / सरहस्यानामैदंपर्ययुक्तानां, सारक:-अध्यापनद्वारेण प्रवर्तकः, स्मारको वाऽन्येषां विस्मृतस्य स्मारणात्। वारकोऽशुद्धपाठनिषेधकः, पारगः पारगामी षडङ्ग वित् / षष्टितन्त्रविशारदः षष्टितन्त्र कापिलीयकशास्त्र, षडङ्ग वेदकत्वमेव व्यनक्तिसंख्याने गणितस्कन्धे, शिक्षाकल्पे शिक्षायामक्षरस्वरूपनिरूपके शारत्रे, कल्पे तथाविधसामाचारीप्रतिपादके, व्याकरणे शब्दलक्षणे छन्दसि पद्यवचनलक्षणनिरूपके, निरुक्ते शब्दनिरुक्तप्रतिपादके,ज्योतिषामयने ज्योतिःशास्त्रे / अन्येषु च ब्राह्मणकेषु शास्त्रेषु च परिनिष्ठित इति वाचनान्तरम्। पञ्चयमपञ्चनियम-युक्तम्।तत्रपञ्च यमाः-प्राणातिपातविरमणाऽऽदयः, नियमास्तुः शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि / शौचमूलकं यमनियममीलनाद्दशप्रकारम् / धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा। त्रिदण्डाऽऽदीनि सप्त हस्ते गतानि यस्य स तथा। तत्र कुण्डिका कमण्डलुः, क्वचित् काञ्चनिका करोटिका वाऽधीयते, ते च क्रमेण रुद्राक्षकृतमाला मृद्धाजनं चोच्यते / षण्णालिकं त्रिका-ष्ठिका, अडशो वृक्षपल्लवच्छेदार्थः, पवित्रक ताममयमङ्गलीयकं, केसरी चीवरखण्ड प्रमार्जनार्थम्। (संखाणं ति) साङ्ख्यमतम्। (सज्जपुढवित्ति) कुमारपृथिवी (पययणं आरुहेइ) पाकस्थाने चुल्ल्यादावारोपयति, ऊष्माणमुष्णत्वं ग्राहय ति, (दिदि वामेत्तए त्ति) मतं वमयितुंत्याजयितुमित्यर्थः। (अट्ठाई ति) अर्थान् अर्यमानत्वादधिगम्यमानत्वादित्यर्थः / प्रार्थ्यमानत्वाद्वा याच्यमानत्वादित्यर्थः / वक्ष्यमाणयात्रायापनीयाऽऽदीन् / तथा तानेव (हेऊइंत्ति) हेतून, अन्तर्वर्त्तिन्यास्तदीयज्ञानसंपदो गमकात्। (पसिणाई ति) प्रश्नान, पृच्छ्यमानत्वात् / (कारणाई ति) कारणानि, विवक्षितार्थनिश्चयस्य जनकानि / (वागरणाई ति) व्याकरणानि, प्रत्युतरतया व्याक्रियमाणत्वादेषामिति / (निप्पट्ठपसिणवागरेणं ति) निर्गतानि स्पष्टानि स्फुटानि प्रश्रव्याकरणानि प्रश्रोत्तराणि यस्य स तथा तम् / (खीणाउवसंत त्ति) क्षयोपशममुपगता इत्यर्थः / एतेषां च यात्राऽऽदिपदानामागमिकगम्भीरार्थत्वेनाऽऽचार्यस्य तदर्थपरिज्ञानमसंभावयताऽपभ्राजनार्थ प्रश्नः कृत इति। (सरिसवय त्ति) एकत्र सवयसः सदृशवयसः, अन्यत्र सर्षपाः सिद्धार्थकाः। (कुलत्थ त्ति) एकत्र कुले तिष्ठन्तीति कुलस्थाः, अन्यत्र कुलत्थाधान्यविशेषाः / सरिसवयाऽऽदिपदप्रश्रश्च छलग्रहणेनोपहासार्थ कृत इति। (एगे भवं ति) एको भवान् इतिएकत्वाभ्युपगमे आत्मनः कृते सूरिणा श्रोत्राऽऽदिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्ध्या एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगः शुक्रेन कृतः (दुवे भवंति) द्वौ भवानिति च द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्ट स्यार्थसय द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुद्ध्या पर्यनुयोगो विहितः / अक्षयः अव्ययः; अवस्थितो भवान्, अनेन नित्यात्मपक्षः पर्यनुयुक्तः। अनेके भूता अतीता भावाः सत्त्वाः परिणामा वा भाव्याश्च भाविनो यस्य सत्तथा। अनेन चातिकान्तमाविसत्तामधेन अनित्याऽऽत्मपक्षः पर्यनयुक्तः। एकतरपरिग्रहे अन्यतरस्य दूषणायेति / तत्राऽऽचार्येण स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायिएकोऽप्यहम्, | कथम्? द्रव्यार्थतया, जीवद्रव्यस्यैकत्वात्, न तु प्रदेशार्थतया / तथा हानेकत्वान्ममेत्यवयवाऽऽदीनामनेकत्वोपलम्भो न बाधकः / तथा कश्चित्स्वभावमाश्रित्यैकत्व-संख्याविशिष्टस्याऽपिपदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धम्, इत्यत उक्तम्-द्वावप्यह ज्ञानदर्शनार्थतया, न चैकस्य स्वभावभेदो दृश्यते। एको हि देवदत्ताऽऽदिपुरुषः एकदैव तत्तदपेक्षतया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वपितृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावाँल्लभत इति / तथा प्रदेशार्थतया असंख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात् / अव्ययः कियतामपि च व्ययाभावात् / किमुक्तं भवति? अवस्थितो नित्यः / असंख्येयप्रदेशो हि न कदाचनापि व्यपैति, अतो नित्य-ताऽभ्युपगमेऽपिनदोषः। उपयोगार्थतया विविधविषयानुपयोगानाश्रित्य अनेकभूतभावभविकोऽपि अतीतानागतयोहि कालयोरनेकविषयबाधानामात्मनः कथञ्चिदभिन्नानामुत्पादाद्विगमाद्वा नित्यपक्षो न दोषायेति। पुण्डरीकेण आदिदेवगणधरेण निर्वाणत उपलक्षितः पर्वतः, तस्यतत्र प्रथमं निर्वृतत्वात्पुण्डरीकपर्वतः शत्रुञ्जयः। (अंतेहि येत्यादि) अन्तर्वल्लचणकाऽऽदिभिः प्रान्तै-स्तैरेव भुक्तावशेषैः पर्युषितै, रूक्षैर्निस्नेहै:, तुच्छरल्पैः, अरसैः हिङ्ग्वादिभिरसंस्कृतैः, विरसैः पुराणत्वाद्विगतरसैः, शीतैः शीतलैः, उष्णैः प्रतीतैः, कालातिक्रान्तैः तृष्णाबुभुक्षाकालाप्राप्तैः; प्रमाणातिक्रान्तैः बुभुक्षापिपासामात्रानुचितैः। चकाराः समुच्चयार्थाः / एवंविधविशेषणान्यपि पानाऽऽदीनि निष्ठुरशरीरस्य न भवन्ति बाधायै। अत आह-प्रकृतिसुकुमारकस्येत्यादि। "वेयणा पाउन्भूया'' इत्यस्य स्थाने 'रोगायंके" इति क्वचिद् दृश्यते। तत्र रोगश्वासावातश्च कृच्छ्रजीवितकारीति समासः। कण्डूः कण्डूतिः, दाहः प्रतीतः, तत्प्रधानेन पित्तज्वरेण परिगतं शरीरं यस्य स तथा / ते इच्छन्ति चिकित्साम् / (आउंटावेमि त्ति) आवर्त्तयामि कारयामि / (सभंडमत्तोवगरणमायाएत्ति) भाण्डमात्रा पतद्ग्रहपरिच्छदश्व, उपकरणं च वर्षाकल्पाऽदि भाण्डमात्रोपकरणं, स्वं च तदात्मीयं भाण्डमात्रोपकरणं चस्वभाण्डमात्रोपकरणं,तदादाय गृहीत्वा, अभ्युद्यतेन सोद्यमेन, प्रदत्तेन गुरुणो-पदिष्टन, प्रगृहीतेन गुरुसकाशादगीकृतेन, विहारेण साधुवर्त्तनेन, विहर्तु वर्तितुं, पार्वे ज्ञानाऽऽदीनां बहिस्तिष्ठतीतिपार्श्वस्थः। गाढग्लानत्वाऽऽदिकारणं विना शय्यातराभ्याहताऽऽदिपिण्डभोजकत्वादागमोक्तविशेषणः / स च सकृदनुचितकरणेनाल्पकालमपि भवति, तत उच्यते-पार्श्वस्थानां यो विहारो बहूनि दिनानि यावत्तथावर्त्तनं स पार्श्वस्थविहारः, सोऽस्यास्तीतिपार्श्वस्थविहारी। एवमवसन्नाऽऽदिविशेषणान्यपि, नवरमवसन्नो विवक्षितानुष्ठानालसः, आवश्यकस्वाध्यायप्रत्युपेक्षणाध्यानाऽऽदीनामसम्यकरीत्यर्थः / कुत्सितः शीलः कुशीलः, कालविनयाऽऽदिभेदभिन्नानां ज्ञानदर्शनचारित्राऽऽचाराणां विराधक इत्यर्थः / प्रमत्तः पञ्चविधप्रमादयोगात्, संसक्तः कदाचित्संविग्नगुणानां कदाचित्पावस्थाऽऽदिदोषाणां संबन्धागौरवत्रयसंसज्जनाचेति / ऋतुबद्धेऽपि अवर्षाकालेऽपि पीठफलकाऽऽदिशय्यासंस्तारकं यस्य स तथा / (नाइ भुजो एवं करणयाए त्ति) नैव भूयः पुनरपि (एवं) इत्थं करणाय, प्रवर्तिष्ये इति शेषः / एवमेवेत्यादिरूपनयः / इह गाथा"सिढिलियसंजमकज्जा, वि होइउ उज्जमंतिजइपच्छा। संवेगाओ ते से -लओ व्व आराहया होंति॥१॥" ज्ञा०१ श्रु०५ अ०॥ध० 20 / अणु०।