________________ थय 2384 - अभिधानराजेन्द्रः - भाग 4 थय समग्रैरपि नो नाथ ! परतीर्थाधिपैस्तथा // 1 // विद्योतयति वा लोक, यथैकोऽपि निशाकरः। समुद्गतसमग्रोऽपि, किं तथा तारकागणः?'' // 2 // इत्यादि लक्षणा भावे इति द्वारपरामर्शो भावस्तव इत्यर्थः / इति चालितप्रतिष्टितोऽर्थः सम्यग्ज्ञानाय प्रभवतीति चालना कदाचित विनेयः करोति, कदाचित् स्वयमेव गुरुरपि / तथा चोक्तम्- "कत्थइ पुच्छइ सीखो, कहिं च पुट्टा कहति आयरिया।" इत्यादि। तत्र वित्तपरित्यागाऽऽदिना द्रव्यस्तव एव ज्यायानित्यल्पबुद्धीनामाशङ्कासंभवः, तदुदासार्थं तदनुवादपुरः सरमाहदव्वत्थओ य भावत्थओ य दव्वत्थओ बहुगुणे त्ति / बुद्धि सिया अनिउण-मइवयणमिणं छजीविहिअं|४|| द्रव्यस्तवो, भावस्तव इत्यनयोर्मध्ये द्रव्यस्तवो बहुगुणः / प्रभूततरगुण इत्येवंबुद्धिः स्यादेवं चेन्मन्यसे इति भावः / तथाहि-किलाऽस्मिन् क्रियमाणे वित्तपरित्यागात् शुभ एव व्यवसायः, तीर्थसय चोन्नतिकरण दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुध्यन्ते इति स्वपरानुग्रहः, सर्वमिदं संप्रति पक्षं चेतसि निधाय द्रव्यस्तवो बहुगुण इत्यस्यासारताख्यापनायाऽऽह-(अनिउणमइवयणमिति) अनिपुणमतेर्वचनमिदम्-यद् द्रव्यस्तवो बहुगुण इति / किमित्यत आह-षड् जीवहितं षण्णा पृथिवीकायाऽऽदीनां जीवहितं जिनास्तीर्थकृतो बुवते। किं षट् जीवहितमित्यत आहछज्जीवकायसंजमों, दव्वथए सो विरुज्झई कसिणो। तो कसिणसंजमविऊ, पुप्फाईयं न इच्छंति / / 5 / / षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः संघट्टना परित्यागः पट् जीवकायसंयमः / एष हितम्। यदि वा-मैव, ततः किमित्यत आहदव्यस्तवे पुष्पाऽऽदिसमभ्यर्चनलक्षणे घट् जीवनिकायसंयमः कृत्स्नः संपूर्णो विरुध्यते, न सम्यक् संपद्यते. पुष्पाऽऽदिसंलुवनसंघटनाऽऽदिना कृत्स्नसंयमव्याघातभावात्, यतश्चैवं (तो त्ति) तस्मात्कृत्स्नसंयमप्रधान विद्वांसस्ते तत्त्वतः-साधव उच्यन्ते कृत्स्रसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थम्-पुष्पाऽऽदिकं द्रव्यस्तवं नेच्छति-न बहु मन्यन्ते। यचोक्तम्-द्रव्यस्तवे क्रियमाणे वित्तपरित्यागात शुभ एवाध्यवसाय इत्यादि। तदपि यत् किश्चित्।व्यभिचारात्, कस्यचिदल्पसत्त्वस्य अविवेकिनो वा शुभाध्यवसायानुपपत्तेः / दृश्यते च कीाद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिः। शुभाध्यवसायभावे तु-स एव भावस्तवः। इतरस्तु तत्कारणत्वेनाप्रधानमिति / तथा भावस्तव एव सति तत्त्वतस्तीर्थस्योन्नतिकारण भावस्तवमतःसम्यगमराऽऽदिभिरपि पूज्यत्वात्तमेव च दृष्टा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते / शिष्टा इति स्वपरानुग्रहोऽपोहेवेति गाथाभावार्थः। आह-यद्येव किमय द्रव्यस्तव एकान्ततो हेय एव वर्तते, आहो-- | स्विदुपादेयोऽपीति? उच्यते-साधूनां हेय एव, श्रावकाणामुपादेयोऽपि। तथा चाऽऽह भाष्यकार:अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे, दव्वत्थऐं कूवदितॄतो // 6 // अकृत्स्नं, संयममिति सामर्थ्यागम्यते,प्रवर्तयन्तीत्वकृत्स्नप्रवर्तकाः, तेषां विरताविरतानां श्रावकाणामेष द्रव्यस्तवः खलु युक्त एव। / खलुशब्दस्यावधारणार्थत्वात्। किंकृतोऽयमित्याह-संसा-रपतनुकरणः संसारक्षयकारक इति भावः / आह-यः प्रकृत्यैवा-सुन्दर स कथं श्रावकाणामपि युक्तः ? उच्यते-अत्र कूपदृष्टान्तः-''जहा नवनगराइसन्निवेसे कइ पभूयजलाभावतो तण्हादिपरिगया तदपनोदार्थ कूपं खणति, तेसिं च जइ वि तण्हाऽऽइया वट्टति, मट्टियाकद्दमादीहि य मलिणिज्जति, तहा वि तदुभएणं तेसिं तिण्हाइयसोयमलो पुव्वगो य फिट्टइ, सेराकाल च ते तदन्ने य लोगा सुहभायणा भवंति, एवं दव्वथए जइ वि असंजमो, तहा वि तत्तो चेव सा परिणामबुद्धी भवति जा असंजमवज्जियं अन्नं च निरवसेसं खवें ति-तहा ऽविरता विही एस दव्वत्थाओ कायव्वो सुभाणुबंधी,पभूवनिजराफलो य त्ति / ' उक्तः स्तवः / आ०म०२ अ०। सूत्र०पञ्चा०। (द्रव्यस्तवो व्यासेन चेइय' शब्दे तृतीयभागे 2445 पृष्ठे प्रत्यपादि) कयमत्थ पसंगणं,जहोचिआ चेव दव्वभावथया। अण्णोण्णसमणुविद्धा, नियमेणं हों ति नायव्वा / / 1 / / कृतमत्र प्रसङ्गेन द्रव्यस्तवाऽऽदिविचारे एवं यथोदितभावे च प्रधानगुणभावतः द्रव्यभावस्तवादिति अन्योऽन्यसमनुविद्धौ नियमेन भवतः ज्ञातव्यो अन्यथा स्वरूपाभावः। इति गाथार्थः / अनयोवृद्धिमाहअप्पविरिअस्स पढमो, सहकारिविसेसमूअओ सेओ। इअरस्स बज्झचाया, इअरो त्रिअ एस परमत्थो / / 2 / / अल्पवीर्यस्य प्राणिनः प्रथमो द्रव्यस्तवः सहकारिविशेषभूतो वीर्यस्य श्रेयानिति / इतरस्य बहुवीर्यस्य साधोर्बाह्यत्यागादिति। बाह्यद्रव्यस्तवत्यागेन इतर एव श्रेयान् भावस्तव इत्येष परमार्थोऽत्र द्रष्टव्यः / इति गाथार्थः। विपर्यये दोषमाहदव्वत्थयं पिकाउं, ण तरइ जो अप्पवीरिअत्तेणं / परिसुद्धं भावथयं,काही सो संभवो एस।।३।। द्रव्यस्तक्मपि कर्तुमौचित्येन न शक्नोति यः स सत्त्वोऽल्पवीर्यत्वेन हि नापरिशुद्ध भावस्तवं यथोक्तमित्यर्थः / करिष्यत्यसावसंभव एषः, बलाभावात् / इति गाथार्थः। एतदेवाऽऽहजं सो उक्किट्ठयरं, अवेक्खई वीरिअं इहं णिअमा। ण हि पलसयं पि वोढुं,असमत्थो सव्व यं वहइ / / 4 / / यदसौ भावस्तव उत्कृष्टतरमपेक्षते वीर्य शुभाऽऽत्मपरिणामरूपमिह नियमात् अतोऽल्पवीर्यः कथं करोत्येनमिति / न हि पलशतमपि वोढुमसमर्थः मन्दवीर्यः सत्त्वः सर्वं तं वहति पलशततुल्यो द्रव्यस्तवः, सर्वतस्तुल्यश्च भावस्तवः / इति गाथार्थः / एतदेव स्पष्टयतिजो बज्झचएणं, णो इत्तिरिअंपिणिग्गहं कुणइ / इह अप्पणो सयासे, सव्वचाएण कह कुज्जा? ||5|| यो बाह्मात्यागेन बाह्य वित्तं नेत्वरमपि निग्रहं करोति / बन्दनाऽऽदौ इहाऽऽत्मनः क्षुद्रः सदाऽऽसौ यावज्जीव सर्वत्यागेन बाह्याऽऽभ्यन्तरत्यागेन कथं कुर्यादात्मनो निग्रहम् / इति गाथार्थः /