________________ थंडिल 2376 - अभिधानराजेन्द्रः - भाग 4 थंडिल छक्काय-चउसु लहुगा, परित्ते लहुगा य गुरुग साहारे। संघट्टेण परियावणे, लहु गुरुग निवायणे मूलं / / 466 / / षट् कायाः-पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः, तेषां मध्ये चतुधूपृथिव्यतेजोवायुरूपेषु संघट्टनाऽऽदिषु लघुकाः प्रायश्चित्तम् / परितकवनस्पतिकायेऽपि च लघुकाः / साधारणे अनन्तवनस्पतिकायिके संघटनाऽऽदिषु गुरुकाः / तथा द्वीन्द्रियाऽऽदीनां संघट्टने परितापने च यथायोग लघुका गुरुकाश्च प्रायश्चित्तम्। अर्पितनिपातने विनाशे मूलम्। इयं तत्र भावनापृथिवीकायं संघट्टयतिमासलघु, परितापयति, जीविताद् व्यपरोपयतीत्यर्थः, चतुर्लघु / एवमपका-ये, तेजस्काये, वायुकाये, प्रत्येकवनस्पतिकाये च द्रष्टव्यम्। उक्तं च- 'छक्कायाऽऽदिमचउसू, तह य परित्तम्मि होति वणकाए। लहु गुरु मासो चउलहु, घट्टणपरितावउद्दवणे / / 1 / " एतत् प्रायश्चित्त-मेकैकस्मिन् दिवसे संघट्टनाऽऽदिकरणे, यदि पुनः दिवसौ पृथिव्यादि संघट्टयति तदा मासगुरु, परितापयति चतुर्लधु, जीविताच व्यपरोपयति चतुर्गुरु, त्रीन् दिवसान् निरन्तरं पृथिव्यादीन संघ-दृयति चतुर्लघु, परितापयति चतुर्गुरु, अपद्रावयति षड् लघु, निरन्तर चतुर्लघु, निरन्तरं चतुरो दिवसान संघट्टने चतुर्गुरु, परितापने षड् लघु, अपद्रावणे षड्गुरु. पञ्चदिवसान् निरन्तरं पृथिव्यादीनां संघट्टने षड् लघु, परिताने षड् गुरु, अपद्रावणे मासिकच्छेदः, षड् दिवसान निरन्तरं संघट्टने षड् गुरु, परितापने मासिकच्छेदः, अपद्रावणे चतुर्मासच्छेदः, परितापने षण्मासिकः, अपद्रावणे मूलम् / उक्तं च"दोहि दिवसेहि मासगुरुए आढवेत्ता चउगुरुए ठाति०जाय अट्टहिं संपयंति।" अनन्तवनस्पतिक यदि संघट्टयति तदा मासगुरु, परितापयति चतुर्लधु, अपद्रावयति चतुर्गुरु, द्विदिवसाऽऽदि निरन्तरं संघट्टनाऽऽदिषूत्तरोत्तरैकैकस्थानवृद्धितः सप्तभिर्दिनैर्मूलं, द्वीन्द्रियं संघट्टयति चर्तुलधु, परितापयति चतुर्गुरु, जीविताद् व्यपरोपयति षड़ लघु। अत्र त्र्यादिदिवसं निरन्तरं संघट्टनाऽऽदिषु षड भिर्दिवसैमूल, त्रीन्द्रिय संघट्टयतश्चतुर्गुरु, परितापयतः षड्लघु, जीविताद्वयपरोपयतः षड् गुरु। अत्र पञ्चभिर्दिवसैमूलं, चतुरिन्द्रियं संघट्टयतः षड् लघु, परितापयतः षड् गुरु, जीविताद् व्यपरोपयतो मासिकश्छेदः / अत्र चतुर्भिर्दिवसैमूल, पञ्चेन्द्रियं संघट्टयतः षड् गुरु, परितापयतश्छेदः, अपद्रावयतो मूलम्, अत्र द्वयोर्द्धिवसयोरनवस्थाप्य, त्रिषु दिवसेषु पाराश्चितम्। गतवर्जनाद्वारम्। अधुनाऽनुज्ञाद्वारमाहपढमिल्लुगस्स असती, वाघातो वा इमेहिँ ठाणेहिं। पडिणीऐं तेणें वाले, खेत्तुदयनिविट्ठथीअपुमं // 467 / / प्रथममेव 'पढमिल्लुक' प्राकृतत्वात् स्वार्थे इल्लुक प्रत्ययः / प्रथममनापातासंलोकलक्षणं स्थण्डिलं तद् नास्ति, ततस्तस्य प्रथमस्याभावे, अथवा स्वतोऽप्येभिः स्थानैाघातो भवेत् / तान्येव स्थानान्याह-"पडिणीए" इत्यादि। प्रत्यनीकस्तत्र तिष्ठति, स्तेना वा / पथि द्विविधाः / तद्यथा-उपकरणस्तेनोः,शरीरस्तेना वा। व्याला वा तत्र सर्पाऽऽदयो विद्यन्ते, क्षेत्र वा तत्र ज्ञातम्, उदकेन वा तत् स्थण्डिलमास्तृतम्। ग्रामो जिका स्कन्धावारो वा तत्र निविष्टः, स्त्री,नपुंसको वा तत्र मैथुनाथ संयतानागच्छतः प्रतीक्षते। पढमासति वाघाए, पुरिसाऽऽलोयम्मि होति जयणाए। मत्तगअपमजणडगल, कुरुकुअ तिविहे दुविह भेदो // 468 / / एवं प्रथमस्य स्थण्डिलस्याभावे, व्याघाते वा द्वितीय स्थण्डिलमनापातं संलोकवद् गन्तव्यम्। तत्र संयतानां सांभोगिकानां संविग्नानामालोके गन्तव्यं, तदभावे असांभोगिकानामपि / तत्रापरिणताः पूर्वमेव ग्राहयितव्याः। यथा-केषाश्चिदाचार्याणां विसदृशमाचर्यम्, ततो यूयं मा तान् वितथसामाचारीकान् दृष्ट्वा प्रतिनोदयेत, तेऽपि यदि नोदयन्ति तर्हि उदासीनास्तिष्ठथ / एवमसंखडाऽऽदयो दोषाः परिहृता भवन्ति / असांभोगिकानामप्यापातस्यासंभवे यत्र पार्श्वस्थाऽऽदीनामालोकस्तत्र गच्छन्ति, तस्याप्यभावे यत्र पार्श्वस्थाऽऽदीनामापातस्तत्र व्रजन्ति। तत्र क्षुल्लकाऽऽदयोऽपरिणताः पूर्वं ग्राहयितव्याः-यथा एते निर्धर्माणो जिनाऽऽज्ञाप्रकोपिनो वितथमाचरन्ति, तन्मायूयमेतेषां चेष्टितं चित्ते कुरुत, यथैतत् सुन्दरमिति / संयत्यापातवच सर्वप्रयत्नेन परिहरेत् / अन्यथा कृतसङ्केतका अत्र समागच्छन्तीतिशङ्काऽऽदयः, आत्मपरोभयं समुत्थाश्च दोषाः संभवन्ति / एषा स्वपक्षे यतना। संप्रति परपक्षेऽभिधीयते-तत्र चानापातवतोऽसंभवे (पुरिसालोयम्मि होति जयणाए इति) पुरुषाऽऽलोके पुरुषाऽऽलोकवति गन्तव्यं, तत्र यतनया भवति कर्तव्यमाचमनाऽऽदि / तामेव यतनामाह-(मत्तगअपमञ्जणडगलकुरुकुअ त्ति) प्रत्येक च प्रचुरं द्रवं, मगलकानां चाप्रमार्जन, न तानि मगलकानि प्रमार्जन्ते, हीनानां दोषसंभवाद्, कुरुकुचाश्वाऽऽचमनानन्तरं कर्तव्याः (कुरुकुचा-बहुना जलेन पादप्रक्षालनाऽऽदि।)। (तिविहे दुविहभेओ इति) त्रिविधे प्रत्येक द्विविधो भेदो द्रष्टव्यः। इयमत्र भावना-त्रिविधः परपक्षः। तद्यथा-पुरुषस्त्रीनपुंसकः / एकैकः पुनर्द्विविधः-शौचवादी, अशौचवादी च। अथवाऽन्यथा प्रत्येक द्विभेदः श्रावकोऽश्रावकश्च। अथवा-त्रिविधो भेदो नामस्थविरो, मध्यमः, तरुणश्च / यदि वा-प्राकृतः, कौटुम्बिको, दण्डिकश्च / एते च त्रयो भेदा यथा पुरुषस्य, तथा स्त्रीनपुंसकयोरपि द्रष्टव्याः। तेषु यतनया गन्तव्यम्। कथमित्यत आहतेण परं पुरिसाणं,असोयवादीण वचे आवायं / इत्थिनपुंसाऽऽलोए, परंमुहो कुरुकुया सा य // 466 / / ततः पुरुषाऽऽलोकवतः स्थण्डिलात्परतः, पुरुषाऽऽलोकवतः रथण्डिलस्याऽसति पुरुषाणामशौचवादिनामापातमापातवत् स्थण्डिलं व्रजेत्, तत्र च यतना प्रागुक्ता द्रष्टव्या। तस्याऽप्यसंभवे शौचवादिनामप्यापातवद् गन्तव्यम् / तस्यासंभवे स्त्र्यालोके, नपुंसकाऽऽलोके वा गन्तव्यम् / इयमत्र भावना--प्रथमतोऽशौचवादिनीनां स्त्रीणामालोके गन्तव्यम्, तत्र गतः सन् तासां पराङ्मुख उपविशेत्, यतना च सा कुरुकुचाऽऽदिका कर्तव्या / तस्याऽप्यसंभवे शौचवादिनीनामप्यालोके गन्तव्य, तदभावे नपुंसकानामशौचवादिनामालोके, तस्याऽसंभवे शौचवादिनामप्यालोके / यतना सर्वत्र सैव। तेण परं आवायं, पुरिसेयरइत्थियाण तिरियाणं। तत्थ विय परिहरेजा, दुगुंछिए दित्तऽदित्ते य॥४७०॥ ततः परं शौचवादिनामपि न सकानामालोक स्यास भवे पुरुषेत रस्त्रीणां तिरश्चामापाते व्रजेत्, तत्रापि हप्तानदृप्ताश्च जुगुसितान परिहरेत, अपरिहारे यतनां कुर्यात् / अयमत्र भावा