________________ थंडिल 2377 - अभिधानराजेन्द्रः - भाग 4 थंडिल र्थः-शौचवादिनां नपुंसकानामालोकासंभवे तिर्यक्पुरुषाणाम दुष्टाना- | मापाते व्रजेत्।तत्रेयं यतना-दण्डहस्ता वारंवारेण व्युत्सृजन्ति। उक्तंच"तेण परं पुरिसाणं, असोयवादीण वचे आवायं। अत्थित्थिनपुंसाणं, आलोयपरम्मुहा कुरुया / / 1 / / पच्छा तिरिपुरिसाणं, अदुट्ठदुट्ठाण छचे आवायं / / दुद्देसु दंडहत्था, वारंवारेण वोसिरणं॥" तस्याप्यभावे तिर्यस्त्रीणामजुगुप्सितानामापातं व्रजेत्, तदसंभवे जुगुप्सितानामप्यापातं, तदभावे तिर्यड्नपुंसकानामजुगुसितानामापात, तदभावे जुगुप्सितानामप्यापातम्, केवलं तत्र तथोपविशन्ति, यथा परस्पर सर्व प्रेक्षन्ते। तत्तो इत्थिनपुंसा, तिविहा तत्थ वि असोपवाईणं / तहियं च सद्दकरणं, आउलगमणं कुरुकुया य / / 471 / / ततः स्त्रीनपुंसकानामापाते गन्तव्यं, ते च स्त्रीनपुंसकास्विविधाः। तद्यथा-प्राकृताः, कौटुम्बिकाः, दाण्डिकाश्च। तेच प्रत्येक विधाशौचवादिनः, अशौचवादिनश्च। तत्र प्रथमतोऽशौचवादिनामापाते व्रजनीयम्. तत्रच शब्दकरणम्, आकुलगमनं, कुरुकुचा च कार्या। इयमत्र भावनाजुगुप्सितानामपि नपुंसकानामापातवतोऽसंभवे मनुष्यस्त्रीणामशौचवादिनीनामापाते गन्तवयम्, केवलं स्थविरसहितैः प्रविशद्भिश्च परस्परं महान्तः शब्दा उच्चारणीयाः, येन तास्तान् श्रुत्वा निर्गच्छन्ति, आकुलीभूताश्च तत्र प्रविशन्ति, येन 'व्याकुला अमी' इति ता दृष्टिविक्षेपाऽऽदिक न कुर्वन्ति, अगर्ताऽऽदिषु च स्थानेषु संज्ञा व्युत्सृजन्ति, यथा शेषोऽपि लोको दूरस्थः प्रेक्षते, तेऽपि च साधवस्तथा उपविशति यथा परस्पर प्रेक्षन्ते, ततः एवमात्मपरोभयदोषा न संभवन्ति। उक्तंच"तत्थ पुण थेरसहिया, आउलसदं करिति पविसंता। जह सद्देणं ताओ, निति ततो अगत्तमादीसु // ठाणेसु वोसिरिती, पेच्छतिय जह परोप्परं सव्वे। आयपरोभयदोसा, ते एवं वज्जिया होंति" ||2|| आचमनानन्तरं च कुरुकुचा कर्त्तव्या,चशब्दाद् मृत्तिकया हस्तपुतप्रक्षालनं, बहित्रिकस्य कल्प इति परिग्रहः / तदसंभवे शौचवादिनीनामपि मनुष्यस्वीणामापाते, तस्याभावे नपुंसकाकानामशौचवादिनामप्यापाते, तदसंभवेशौचवादिनामप्यापाते गन्तव्यम्। सर्वत्रापि यतनाऽनन्तरोक्तैव। इत्थिनपुंसाऽऽवाते,जा उण जयणा उ मत्तगादीया। पुरिसाऽऽवाए जयणा, सव्वे च उमत्तगादीया।।४७२।। स्त्र्यापाते, नपुंसकाऽऽपाते च या पुनर्यतना मात्रकाऽऽदिका अनन्तरमुक्ता, सैव पुरुषाऽऽपातेऽपि प्राक् मात्राऽऽदिका यतना द्रष्टव्या / एवं तावदचित्तं स्थण्डिलं चतुःप्रकारमचित्तेन पथा गम्यमुक्तम् / तदभावे मिश्रेणाऽपि पथा तदपवादेन गच्छेत् / तदभावे सचित्तेनाऽपि / तत्राऽपि यतना सैव प्रागुक्ता / उक्तं च-"एवमचित्तेण पहेण, जयणा उ भणिया चउन्भंगे। मीससचित्तपहेसु य, एस चिय भंगजयणा उ'' |1|| संप्रति मिश्र वक्तव्यं,यतोऽचित्तस्थण्डिलासंभवेऽपवादतो मिश्रमपि गम्यते, तदपि चानापातासंलोकाऽऽदिभेदतश्चतुःप्रकारम्, तस्यापि च त्रयः पन्थानः। तद्यथा-अचित्तः, मिश्रः, सचित्तश्च। तानेवाऽऽहअचित्तेणं मीसं,मीसं मीसेण छक्कमीसेणं। सचित्तछक्कएणं, मीसे चउभंगियपदेसे||४७३|| मिश्रस्थण्डिलमचित्तेन पथा गम्यं, तदभावे मिश्रेणेत्यत आहषट्कमिश्रेण षड् जीवनिकायमिश्रेण, तदभावे मिश्रे स्थण्डिले षट्कायसचित्तेन पथा गन्तव्यम्। उक्तंच-"पढममचित्तपहेणं, मीसं मीसेणं छक्कमीसेणं / सचित्तछक्कएणं, मीसं तू थंडिलं गच्छे॥१॥ तच मिश्र स्थण्डिलमध्वनि ग्रामात् ग्राम प्रति व्रजतो द्रष्टव्यम् / तत्र मात्रकैर्यतना कर्तव्या। अथ मात्रकाणि न विद्यन्ते व्युत्सृजता परिष्ठापयतां च सागारिकसंपातः, तदा धर्मास्तिकायाऽऽदिप्रदेशान् निश्राकृत्य व्युत्स्रष्टव्यम्। उक्तं च- "जहियं पुण सागारियधम्मादिपएस तहिऐं निस्साए। वोसिरइ एय मीसं, भणिय समासेणं थंडिल्लं / / 1 / / " उक्तं मिश्र स्थण्डिलम्। तदभावेऽपवादतः सचित्तमपि गन्तव्यं, तदप्यनापातासंलोकाऽऽदिभेदतश्चतुःप्रकारं, तस्याऽपि च त्रयः पन्थानः। तद्यथा-अचित्तः, मिश्रः, सचित्तश्च। तत्र येन क्रमेण गन्तव्यं, तं क्रममाहअचित्तेण सच्चित्तं, मीसेण सचित्त छक्कमीसेण / सचित्तछक्कएणं, सचित्तचउभंगियपदेसे // 474 / / सचित्तमपि स्थण्डिलं चतुर्भगिकम्, तत्र प्रथमतोऽनापातासंलोकं गन्तव्यम्, तदभावे द्वितीय, तदभावे तृतीयं, तदभावे चतुर्थमपि / तत्र यतना प्रागेवोक्ता / तत्र च प्रथमतोऽचित्तेन पथा गन्तव्यं, तदभावे तत् सचित्तं मिश्रेण पथा गम्यम् / केन मिश्रणेत्यत आह षट्कमिश्रेण षट्जीवनिकायमिश्रेण, तस्याऽसंभवे सचित्तेन पथा सचित्तं गन्तव्यम्, केन? सचित्तेन षट् केन षट् जीवनिकायैः, / अत्रापि मात्रकैर्यतना कर्तव्या / मात्रकाणामभावे व्युत्सर्गे परिष्ठापने वा सागारिकसंभवे धर्मास्तिकायाऽऽदिप्रदेशानां निश्रा कर्तव्या। उक्तं च- "ज चिय मीसे जयणा, सेव सचित्ते वि होइ कायव्वा / मत्तादिअपरिसेसा, जा धम्मादीपएसा उ॥१॥" तदेवमुक्तं स्थण्डिलमिदानीमेतसय यः कल्पिकः तमभि धित्सुराहपढियसुयगुणियमगुणिय-धारमधार उवउत्तों परिहरति / आलोणाऽऽयरियाऽऽदी, आयरिउ विसोहिकारो से।।४७५|| यस्मादजानतः प्रायश्चित्तं, तस्माद् येन सप्तसप्तकाऽऽदि सूत्रं पठितं पाठतः, श्रुतमर्थतः, तच गुणितमभ्यस्तं वाऽऽस्पदेऽगुणितं वा धारित वाऽऽस्पपदेऽनवधारितं वा, तथापि य उपयुक्तः सन् स्थडिल परिहरतिउक्तप्रकारेणोपयुक्तः परिभोगयति, स विचारकल्पिकः / तथा तेन स्थण्डिलसूत्रेण पठितेन वाऽपठितेन वा अगुणितेन था धारितेन वा अधारितेन वा उपयुक्तो वाऽनुपयुक्तो वायां विराधनां करोति, तामाचार्याऽऽदेरालोचयति, तदभावेऽन्यस्याप्युपाध्यायाऽऽदेः, आलोचिते 'से' तस्य विशोधिकारः प्रायश्चित्तप्रदानेन शुद्धिकर्ता आचार्यः / किमुक्तं भवति?-यदा आचार्यः प्रायश्चित्तं ददाति, ततः स शुद्धिमापद्यते / गतं विचारद्वारम्। बृ०१ उ०। प्रति०। पञ्चा० श्रावधानि००। ('णिग्गंथी' शब्दे 2048 पृष्ठेऽत्रैव भागे तासां स्थण्डिलं प्रतिपादितम् )