SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ थंडिल 2375 - अभिधानराजेन्द्रः - भाग 4 थंडिल तिर्यसूत्कृष्टाऽऽदिभेदसंग्रहार्थमाहइत्थिनपुंसाऽऽवाए, भावासन्ने विले य चउगुरुगा। पणगं लहुयं गुरुगं, बीए सेसेसु मासलहुं // 457|| सर्वासां प्राकृताऽऽदिभेदाभिन्नानां स्त्रीणामापाते च, तथा भावसन्ने विलसहिते च स्थण्डिले व्युत्सृजतः प्रत्येकं चत्वारो गुरुकाः, प्रत्येकबीजसंकुले स्थण्डिले लघूनि पञ्चारात्रिन्दिवानि, अनन्तबीजसंकुले गुरुकानि, शेषेष्वशुद्धेषु स्थण्डिलेषु मासलघु। यचान्यदा पर्यन्ते तदपि सर्वमाप्नोति / यत्रासामाचारीकरणं तत्रापि मासलघु। अपमञ्जणा अपडिलेहणा य दुपमज्जणा दुपडिलेहा। ति, मासिय पणगं लहु,कालतवे वा चरिमसुद्धो // 458|| संज्ञा व्युत्स्रष्टकामो न प्रत्युपेक्षते न प्रमार्जयति मासलघु, कालगुरु, तपोलघु। न प्रमार्जयति प्रत्युपेक्षते मासलघु, द्वाभ्यां लघु / एवं त्रिकेषु स्थानेषु मासिक लघु, कालेन तपसा चोक्तप्रकारेण विशेषितम् / अथ प्रत्युपेक्षते प्रमार्जयति, तत्र दुष्प्रत्युपेक्षिते दुष्प्रमार्जिते रात्रिन्दिवपञ्चकं लघु, दुष्प्रत्युपेक्षिते प्रमार्जित रात्रिन्दिवपञ्चकं लघु.तपोलघु, कालगुरु / प्रत्युपेक्षिते दुष्प्रमार्जिते रात्रिन्दिवपञ्चकं लघु, द्वाभ्यां लघुकम्। एवं त्रिकेषु त्रिस्थानेषु पञ्चकं, कालेन तपसा चोक्तप्रकारेण विशेषितं, चरमेषु प्रत्युपेक्षितं सुप्रमार्जितमित्येवंरूपे भङ्गे शुद्धो न प्रायश्चित्तभाक्। खुड्डो धावणे झुसिरे, तह खुत्तो अपडिलेहणा लहुगो। घरवाविवचगोवयठिअमल्लगछड्डणे लहुगा / / 456 / / इयमपि गाथाऽन्याऽऽचार्यपरिपाटिशूचिका, ततो न पुनरुक्तता, नापि | विरोधो, मतान्तरत्वात्। क्षुल्लकं स्तोकं यदिधावनं प्रलोटनमित्यर्थः। तत्र तथा शुषिरेस्थण्डिले तथाकृत्वोऽप्रत्युपेक्षणायां प्रत्येक प्रायश्चित्तं लघुको मासः। तथा-गृहे यदि संज्ञा व्युत्सृजति वाप्या वर्चसि गृहे वर्चस उपरिवा गोप्पदे वा ऊर्द्धस्थितो वा तथा मल्लके व्युत्सृज्य यदि परिष्ठापयति तदा सर्वेष्वेतेषु स्थानेषु प्रायश्चित्तं प्रत्येकं चत्वारो लघवः / गतमपायद्वारम्। इदानीं वर्जनाद्वारमाहदिसिपवणगामसूरिय-छायाएँ पमजिऊण तिक्खुत्तो। जस्सुग्गहो ति काऊण वोसिरे आयमे वा वि।।४६०।। उत्तरादिक्,पूर्वदिक्च लोके पूज्या, ततस्तस्याः पृष्ठप्रदानेलोकमध्ये अवर्णवादो भवति, वानमन्तरं वा किञ्चित् मिथ्यादृष्टिः कुप्येत्। तथा च सति जीवितव्यस्य विनाशः, तस्मात् दिवा रात्रौ च पृष्ठ पूर्वस्याम्, उत्तरस्यां तु दिवा / दक्षिणस्यां दिशि रात्रौ निशाचराः संचरन्ति / ततस्तस्यां पृष्ठ रात्रौ वर्जयेत् / उक्तं च- "उभे मूत्रपुरीषे तु, दिवा कुर्य्यादुदङ्मुखः / रात्रौ दक्षिणतश्चैव, तथा चाऽऽयुर्न हीयते।।१।।" तथा यतः पवनस्ततः पृष्ठं न कुर्यात्, मा लोको ब्रूयात्-अर्घयन्त्येतदेते इति, नासिकायां चासि मा भूवन्। तथा ग्रामस्य, सूर्यस्य च पृष्ठ न दातव्यं, लोकेऽवर्णवादसं-भवात्। तथाहि-सूर्यस्य, ग्रामस्य वा पृष्ठदाने लोको ब्रूते-न किश्चित् जानन्त्येते यल्लोकोद्योतकरस्यापि सूर्यस्य, यस्मिन् ग्रामे स्थीयते तस्याऽपि च पृष्ठं ददतीति / तथा संसक्तग्रहणिछायायां व्युत्सृजेत्, येन द्वीन्द्रियविनाशो न भवति। तथा त्रिःकृत्वस्त्रीन् वारान् | प्रमाणं / उपलक्षणमेतत्-प्रत्युपेक्ष्य च व्युत्सृजेत् / तत्रा-प्रत्युपेक्षणे अप्रमार्जने, दुष्प्रत्युपेक्षणे दुष्प्रमार्जने च प्रायश्चित्तं प्रागुक्तम् / तथा यस्यावग्रहः सोऽनुजानीयादिति अनुज्ञाय व्युत्सृजेत्, आचमेद्वा / एष गाथार्थः। साम्प्रतमेनामेव विवरीषुराहउत्तर पुव्वा पुज्जा,जम्माए निसियरा अभिवडंति। घाणारसा य पवणे, सूरियगामे अवन्नो उ॥४६१।। उत्तरा, पूर्वा च लोके पूज्यते, ततो दिवा रात्रौ च पूर्वस्यामुत्तरस्यां वा पृष्ठं न दद्यात्, तथा न याम्या दक्षिण, तस्यां रात्रौ निशाचरा देवा अभिपतन्ति समागच्छन्ति, ततस्तस्यां रात्रौ पृष्ठ न दद्यात्, तथा यतः पवनस्ततः पृष्ठकरणे अशुभगन्धघ्राणि सिकायां चास्युपजायन्ते। तस्मात्पवनस्यापि पृष्ठं न कर्त्तव्यम्। सूर्यस्य, ग्रामस्यच पृष्ठकरणे अवर्णो लोकमध्ये यथाऽभिहितः प्राक्, ततस्तयोरपि न दातव्यं पृष्ठमिति। "छायाए' इति व्याख्यानार्थमाहसंसत्तग्गहणी पुण, छायाए निग्गयाई वोसिरई। छायासति उण्हम्मि वि, वोसिरिय मुहुत्तगं चिढे / / 462 / / संसक्ता द्वीद्रियैर्ग्रहणिः पांशुर्यस्यासौ संसक्तग्रहणिः, स द्वीन्द्रियरक्षणार्थ छायायां वृक्षाऽऽदिनिर्गतायां व्युत्सृजति अथ छायाऽद्याऽपि न निर्गच्छति, मध्याह्ने एव संज्ञा प्रवृत्ता, ततः छायाया 'असति' अभावे उष्णेऽपि स्वशरीरच्छायायां पुरीषस्य कृत्वा व्युत्सृजति, व्युत्सृज्य च मुहूर्त तथैव तिष्ठति, येनैतावता कालेन स्वयोगतः परिणमन्ति, अन्यथोष्णेन महती परितापना स्यात्। अथव्युत्सृजन् स्वोपकरणं कथं धरतीत्यत आहउवगरणं वामगऊ-रुगम्मि मत्तो य दाहिणे हत्थे। तत्थऽण्णत्थ व पुंछे, तिहिँ आयमणं अदूरम्मि // 463|| उपकरणं दण्डक रजोहरणं च वामे ऊरौ स्थापयति, मात्रकं दक्षिणहस्ते क्रियते, डगलकानि च वामहस्तेन धारणीयानि, ततः संज्ञां व्युत्सृज्य तत्रान्यत्र वा प्रदेशे डगलकैः पुतं पुंसयति रूक्षयति, पुंसयित्वा त्रिभि वापूरकैश्चुलुकैरित्यर्थः / आचमनं निर्लेपनं करोति / तथा चोक्तम्- "तिहि नावाए पूरएहिं आयमइ, निल्लेवेति वा / नावा पूरओ नामपसती।" इति। तदपि चाऽऽचमनमदूरे करोति यदिपुनद्र आचमति तत उड्डाहः, कश्चित् दृष्ट्वा चिन्तयेत्-अनिर्लेप्यपुतो गत एष इति। संप्रत्यालोके प्रायश्चित्तविधिमाहआलोगं पिय तिविहं, पुरिसित्थिनपुंसकं च बोधव्वं / लहुगा पुरिसाऽऽलोए, गुरुगाय नपुंसइत्थीसु॥४६४।। आवातं पि य दुविहं, माणुसतेरिच्छयं च नायव्वं / एकेकं पि य तिविहं, पुरिसित्थिनपुंसगे चेव // 46 // आलोकमपि च त्रिविधं त्रिप्रकारम्। तद्यथा-पुरुषाऽऽलोकं, स्त्रयालोकं, नपुंसकाऽऽलोकम् / गाथायां पदैकदेशे पदसमुदायोपलक्षणानि / तत्र पुरुषाऽऽलोके प्रायश्चित्तं चत्वारो लघुकाः / स्त्र्यालोके नपुंसकाऽऽलोके च चत्वारो गुरुकाः। तदेवमचित्तं स्थण्डिलमचित्तेन पथा भणितम्। अथ सचित्तेन मिश्रेण वा यदा तद् गच्छति तदा तदेव प्रायश्चित्तम्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy