________________ थंडिल 2374 - अभिधानराजेन्द्रः - भाग 4 थंडिल संयोगे विंशत्युत्तरं शतम् / चतुष्कसंयोगे द्वशते दशोत्तरे / पञ्चसंयोगे देशते द्विपञ्चाशदधिके / षट्कसंयोगेद्वेशते दशोत्तरे। सप्तक-संयोगे विश शतम् / अष्टकसंयोगे पञ्चचत्वारिंशत् / नवकसंयोगे दश / दशकसंयोगे एकः / एकं च वसत्यादिषु विविक्ते प्रदेशे स्थण्डिलमिति सर्वभङ्गसंख्या एकत्र मीलयित्वा रूपाधिका क्रियते, ततश्चतुर्विशं भङ्ग सहसं भवति। "समभंगणयणे करणं, दसगाऽऽति ओसरंति जावेको। एए उ गुणेयव्या, इमेहिँ रासीहिँ जहकमसो॥१॥ एक्कग पंचग पन्नर, तीसा वायाल पंच जा ठाणा। परतो बायालीसा, पडिलोममवेहि जावेको / / 2 / / एक्कगसंजोगादी, गुणिया लद्धा हवंति एमेते। मिलिया रूवाहिकया, भंगसहस्सं चउव्वीसं // 3 // " संप्रत्येतानि दश शुद्धानि पदानि व्याख्यातव्यानि, यत्र यत्र दोषास्ते तत्र तत्र कथनीयाः, तत्राऽऽपातवत् संलोकवच पूर्वव्याख्यातम्। इदानीं परस्यौपघातिकमाहआया पवयण संजम, तिविहं उवघातियं मुणेयव्यं / आराम वच्च अगणी, घायाऽऽदसुई य अन्नत्थ / / 450 / / इह पूर्वार्द्धपदानां पश्चाद्धपदानां च यथाक्रम योजना / सा चैवम्औपपातिकमुपघातप्रयोजनकं स्थण्डिलं त्रिविधं ज्ञातव्यम् / तद्यथाआत्मोपधाति, प्रवचनोपघाति, संयमोपघाति च / तत्राऽऽत्मोपघाति आरामः, तत्र हि संज्ञां व्युत्सृजतो घाताऽऽदि पिट्टनाऽऽदि। प्रवचनोपघातिव!गुह, तद्धिजुगुप्सितमशुच्यात्मकत्वात्, ततस्तत्र संज्ञाव्युत्सर्ग ईदृशा एते इति प्रवचनोपघातः / संयमोपघाति-अग्निरग्निस्थानं, तत्र हि संज्ञाव्युत्सर्गे ते अग्न्यारम्भिणोऽन्यत्रास्थण्डिले अग्निस्थानं कुर्वन्ति, त्यजन्ति वा ता संज्ञामस्थण्डिले। संप्रति विषमस्थण्डिले दोषानाहविसमपलोट्टणि आया, इयरस्स पलोट्टणम्मि छक्काया। झुसिरम्मि विच्छुगादी, उभयक्कमणे तसादीया।।४५१।। विषमे स्थण्डिले साधुः प्रलोटेत्, पतेदिति भावः / तत्र चाऽऽत्मा विराध्येत / इतरस्य पुरीषस्य, प्रस्रवणस्य च प्रलोटने षट् काया विराध्यन्ते / तथाहि-प्रतीतमेवैतत्-पुरीषं, प्रसवणं वा प्रलोटेन षट्कायान् विराधयति। एषा संयमविराधना। शुषिरे संज्ञाऽऽदिव्युत्सृजनो वृश्चिकाऽऽदिभिरात्मनो विराधना आदिशब्देन सर्पाऽऽदिपरिग्रहः / उभयं संज्ञाप्रस्रवणं, तेनाऽऽक्रमणे उसाऽऽदयः त्रसस्थावरप्राणा विराध्यन्ते। एषां सयमविराधना। अथ कीदृशं चिरकालकृतं स्थण्डिलमत आहजे जम्मि उउम्भि कया, पयावणादीहिँ थंडिला ते उ। होंति इयरे चिरकया, वासावासे य वारसगं / / 452|| यानि स्थण्डिलानि यस्मिन् ऋतौ प्रतापनाऽऽदिभिः कृतानि तानि तस्मिन्नचिरकालकृतानि भवन्ति। यथा-हेमन्तकृतानि हेमन्त एवाचिरकालकृतानि / इतराणि तु ऋत्वन्तरव्यवहितानि चिरकालकृतानि, अरथण्डिलानि तानीति भावः / यत्र पुनरेक वर्षारानं सगोधने ग्राम उषितस्तत्र द्वादशकं द्वादश संवत्सराणि स्थण्डिलं, परमस्थण्डिलं भवति। सम्प्रति विस्तीर्णमाह हत्थाऽऽयामं चउरस, जहण्ण उक्कोस जोयण विछक्छ / चउरंगुलप्पमाणं, जहन्नयं दूरमोगाढं / / 453 / / जघन्यं विस्तीर्ण चतुरस्रं चतसृष्यपि दिक्षु हस्ताऽऽयामम्, उत्कृष्ट द्वादशयोजनानि, तच चक्रवर्तिस्कन्धावारनिवेशे प्रतिपत्तव्यम्। दूरावगाढमाह-यत्राधस्ताचतुरड्डलप्रमाणमचित्तम्- चत्वारि अङ्गुलान्यचित्ता भूमिः, तजघन्यं दूरमवगाढम्, अर्थात्पश्चादड गुलप्रभृतिकमचित्तं यस्याधस्तात्तदुत्कृष्ट दूरमवगाढम्। साम्प्रतमासन्नमाहदव्वाऽऽसन्नं भवणा-दियाण तहियं तु संजमाऽऽयाए। आयापवयणसंजम–दोसा पुण भावआसण्णो / / 454|| आसन्नं द्विविधम्-द्रव्यतो, भावतश्च / तत्र द्रव्याऽऽसन्नं भवनाऽऽदीनां निकटम्। आदिग्रहणादेवकुलाना, ग्रामस्य, पथो, वृक्षस्य च परिग्रहः / यस्य हि वृक्षस्य हस्तिपादप्रमाणस्कन्धः, तस्य समन्ततो हस्तोवर्जयितव्यः / तत्र यदि द्रव्याऽऽसन्ने व्युत्सृजति, ततः संयमे, आत्मनि च विराधना / तत्र यद् गृहाऽऽदीनामासन्नं तत् स्थण्डिल परित्यज्यान्यत्र स्थण्डिलं कुर्युः, अथवा पानीयेन तत्प्रक्षालयेयुः। ततः संयमविराधना। आत्मविराधना पिट्टनाऽऽदिभावात् / भावाऽऽसन्नं नाम तावत्तिष्ठति, यावत्संज्ञा मनाग नागच्छति, ततोऽनधिसहा स्थण्डिलं गन्तुमशक्नुवन् अस्थण्डिले, भवनाऽऽदीनां वा प्रत्यासन्ने व्युत्सृजेत् / तत्र चाऽऽत्मविराधना, संयमविराधना च प्राग्वत् / अत्रास्थण्डिलमिति कृत्वा सागारिको वा तिष्ठतीति संज्ञां धारयति आत्मविराधना, मरणस्य ग्लानत्वस्य चावश्यं भावात्। अनधिसहेन च सता तेन लोकपुरतोऽस्थाने संज्ञाव्युत्सर्गे पुनर्जनाऽऽदिलेपने वा प्रवचनोपघातः। सविले, उसप्राणबीजोपेते दोषानाहहों ति विले दो दोसा, तसेसु बीएसु वा वि ते चेव। संजोगतो य दोसा, मूलगमा होंति सविसेसा / / 455 / / विले संज्ञा व्युत्सृजतो द्वौ दोषौ / तद्यथा-आत्मविराधना, संयमविराधना च। तत्र यदा विले प्रविशन्त्यां संज्ञया प्रस्रवणेन तद्रता जीवा बाध्यन्ते तदा संयमविराधना। साऽऽदिभक्षणे आत्मविराधना। त्रसेषु, बीजेषु च तावेव द्वौ दोषौ संयमाऽऽत्मविराधनालक्षणौ। तत्र त्रसेषु बीजेषु प्राणव्यपरोपणात्संयमविराधनां सुप्रतीता। त्रसेष्वात्मविराधना, तेभ्य उपद्रवसंभवात् / बीजेष्वात्मविराधनाबीजशूकाऽवयवानामतितीक्ष्णानां पदेषु लग्नतः पादप्रलोटनतः पतनतो वा / तदेवमतेकैकस्मिन् वर्जनीये स्थण्डिले दोषा उक्ताः / अस्माच मूलगमदिकैकसंयोगरूपात् द्विकत्रिकाऽऽदिपदानां संयोगतः सविशेषा बहुबहुतरका भवन्ति ज्ञातव्याः। द्विकसंयोगे द्विगुणारित्रकसंयोगे त्रिगुणा यावद्दशसंयोगे दशगुणा इति। सम्प्रति प्रागुक्तमपि प्रायश्चित्तमन्याऽऽचार्यपरिपाट्या, मनाक विशेषप्रदर्शनार्थतया च पुनराहपंथम्मि य आलोए, झुसिरम्मि तसेसु चेव चउलहुगा। पुरिसावाए य तहा, तिरियावाए य ते चेव / / 456|| पथ आसन्ने पुरुषाणामालोके, शुषिरे, ससंकुले च संज्ञा व्युत्सृजतः प्रायश्चित्तं चत्वारो लघुकाः / तथा सर्वमनुष्यपुरुषाऽऽपाते, सर्वतिर्यक पुरुषाऽऽपाते च प्रत्येकं त एव चत्वारो लघवः / सर्वग्रहणं मनुष्येषु कौटुम्बिकाऽऽदिभेदपरिग्रहार्थम्।