________________ थंडिल 2373 - अभिधानराजेन्द्रः - भाग 4 थंडिल पढमापोरिसि आपुच्छपाणगमपुप्फि अन्नदिसिं॥४४२।। द्विविधा संज्ञा / तद्यथा-काले, अकाले च / तत्र कालस्तृतीयस्या पौरुष्या, शेषकं सर्वमपि प्रातः प्रभृतिकमकालः। तत्र तावदकाले संज्ञायां विधिरुच्यते-कथं गन्तव्यम्? तत्र यदि प्रथमायां पौरुष्यां भवेत् तदा पात्रमुदग्राह्य पानकनिमित्तं व्रजति, अथनोद्-ग्राहयति पात्रं, ततो लोको जानीयात्, यथा-एष बहिर्गमननिमि-तं पानीयं गृह्णाति, ततश्चतुर्थ रसिकं न दद्यात्। अपि चोद्ग्राहिते पात्रेऽयमधिको गुण:--कोऽपि श्राद्धो ग्रामान्तरं, नगरान्तरं वा गन्तुकामः प्रधावितः, अद्धन्युत्पन्नायां संज्ञायां तं प्रतिलाभयंत्, सोऽपि लाभयेत्, सोऽपि लाभो भवति, शङ्काऽपि च नोपजायते, यथा-एष बहिर्गमनाय पानकनिमित्तं हिण्डते। स पुनः कीदृशं पानीयं गृह्णीयात्? अत आह- अपुष्पितमच्छ सुगन्धं चतुर्थरसिकं न भवति, तादृश तत उष्णोदकाऽऽदि गृह्णीयात्। (अन्नदिसिमिति) यस्यां दिशि संज्ञाभूमिस्तस्यां पानकस्य नगन्तव्यम्। यदि पुनस्तस्यां गच्छति, लतोऽतिरिक्तं ग्रहीतव्यं, यदि द्वौ जनौ तदा, यथा तृतीयस्याप्युदरति / किं बहुना? यावन्तो व्रजन्ति तावतां योग्यमतिरिक्तं तथा गृह्णाति यथा एकस्योदरति / एवं पानीयं गृहीत्वा समागतो बहिः प्रतिश्रयस्य पादौ प्रमाय॑ दण्डकं स्थापयित्वा ऐर्यापथिकी प्रतिक्रम्य आलोच्य गुरोः पानक दर्शयित्वा आपृच्छति, गुरुमापृच्छय संज्ञाभूमिं व्रजामीति गच्छति। तत्र जघन्योऽपि कश्चित् व्रजति, तर्हि यथा एकस्योद्वरति तावत्प्रमाणमात्रके पानक गृह्णाति, तचोद्ग्राहितं पात्रमन्यन्य समर्प्य दण्डक प्रमाद्य आवश्यकीं कृत्वा व्रजति / यथोक्तविधेरकरणे सर्वत्र प्रायश्चित्तं मासलघु। उक्तमेवार्थ स्पष्टतरमुपदर्शयतिअतिरेगगहणमुग्गाहियम्मि आलोय पुच्छियं गच्छे। एसा उ अकालम्मी, अहिंडिए हिंडिए काले // 443|| पात्रे उद्ग्राहिते एकजनातिरेकेण पानीयस्य ग्रहणं कर्त्तव्यं, कृत्वा च / गुरोः पुरत आलोच्य गुरुमापृच्छ्य संज्ञाभूमिं गच्छेत् / एषा अकाले संज्ञा उक्ता। संप्रति कालसंज्ञा वक्तव्या। काले कालसंज्ञा (अहिंडिते हिंडिते त्ति) इयमत्र भावनातृतीयस्यां पौरुष्यां कालस्य प्रतिक्रमणे यावन्नाद्यापि भिक्षावेला भवति तावत् संज्ञाभूमि व्रजति / अथाहिण्डिते समुद्दिष्टे भाजनेषु च प्रदत्तकल्पेषु यावन्नावगाहते चतुर्थपौरुषीकालः, तावद्गच्छति, अथोत्सूरे भिक्षावेला, चिरं वा हिण्डितः, ततोऽवमाढायामपि चरमपौरुष्यां गच्छति। तत्र को विधिरित्याहकप्पेतूणं पाए, एकेकस्स उ दुवे पडिग्गहगे। दाउं दो दो गच्छे, तिण्हट्ठ दवं च घेत्तूर्ण // 44 // पात्राणि कल्पयित्वा विशोध्य त्रीन् कल्पान् पात्राणां निर्लेपनाय दरवा एकैकस्याऽऽत्मीयाऽऽत्मीयसंघाटकस्य द्वौ द्वौ पतद्ग्रहको दत्त्वा द्वौ द्वौ संज्ञाभूमि गच्छयाताम्। कथमित्याह-त्रयाणामर्थाय द्रयं गृहीत्वा, पानक हि तावत्प्रमाणं ग्रहीतव्यं यावत्पश्चादेकस्योद्वरति / इयमत्र भावनाये ये संघाटवन्तस्तेषां तेषामेको द्वौ पतद्-ग्रहौ धारयति, द्वितीयश्चान्येन समं याति, तेषु चाऽऽगतेषु ये प्रागितरे स्थितास्ते व्रजन्ति, इतरे चाऽऽगताः पात्राणि धारयन्ति, यावन्तश्च गच्छन्ति तावतां योग्यमेकातिरिक्त पानक मात्रके गृह्णन्ति। कथं पुनस्ते गच्छन्तीत्यत आहअजुगलिया अतुरंता, विगहारहिया वयंति पढमं तु। निसिइत्तु डगलगहणं, आवडणं वचमासज्ज / / 445 / / अयुगलिता न समश्रेणिकयुगलरूपतया स्थिताः, अत्वरिताः, विकथारहिताः स्त्रीभक्ताऽऽदिकथा अकुर्वाणाः प्रथममनापातासंलोकलक्षण स्थण्डिलं व्रजन्ति। तत्र निषध उपविश्य, नोर्द्धस्थिता इत्यर्थः / उर्द्धस्थितानां सम्यक् प्रक्षेपण / संभवात्। डगलग्रहणं कुर्वन्ति-ये भूमावसंबद्धाः पुनर्निर्लपनाय लेष्टुकास्ते डगलकाः, तानाददते / आदाय चैतेषां भूमावापातनं कुर्वन्ति येन वृश्चिकाऽऽदिस्ततोऽपसरति / उक्तं च- "ते डगले टिट्टियावेइ, ततो जो तत्थ विच्छुगादी, सो अवसरति।" इति / तेषां च डगलकानां प्रमाणं वर्चः पुरीषमासाद्य प्रतिपत्तव्यं, यो भिन्नवर्चाः स त्रीन् डगलकान् गृह्णाति, अन्यो द्वावेकं वा / आलोएऊण दिसा, संडासगमेव संपडजित्ता। पेहियपमजिएसु य, जयणाए थंडिले णिसिरे॥४६॥ स्थण्डिलं गत्वा तत्र दिशामापातसंलोकवर्जनार्थमालोकनं कुर्यात्, दिश आलोक्य तदनन्तरं समासकं संप्रमाय प्रेक्षितेषु प्रमार्जितेषु च तत्र प्रदेशेषु स्थण्डिलेषु पुरीषं निसृजेत् व्युत्सृजेत् / कथमित्याह यतनया "दिसिपवणगामसूरिय।" इत्यादिवक्ष्यमाणलक्षणया तत्पुनरनापातासंलोकं स्थाण्डलमेभिर्वक्ष्यमाणैर्दशभिः स्थाने विशुद्ध ज्ञातव्यम्। तान्येवाऽऽहअणावायमसंलोए, परस्सऽणुवघातिए। समे अज्झुसिरे याविऽचिरकालकयम्मि य॥४४७|| वित्थिपणे दूरमोगाढेऽनासन्ने बिलवजिए। तसपाणबीयरहितए, उच्चाराऽऽदीणि वोसिरे।।४४७|| अनापातमसंलोक, परस्यानुपघातिक, समम, अशुषिरम्, अचिरकालकृतं, विस्तीर्ण दूरमवगाढम्, अनासन्नं, बिलवर्जितं, त्रसप्राणबीजरहितं यत् स्थण्डिलं तत्र उचाराऽऽदीनि उच्चारप्रश्रवणप्रभृतीनि व्युत्सृजेत्। एष एककः संयोगो दर्शितः। सप्रति द्विकाऽऽदिसंयोगानुपदर्शयतिइगदुगतिगचउपंचगछगसत्तगअट्ठनवगदसहिं। संजोगा कायव्वा, भंगसहस्संचउव्वीसं 1146|| अमीषामनन्तरो दितानां दशानां पादानामेकद्वित्रिचतुः पशषट्सप्ताष्टनवदशकैः संयोगाः कर्त्तव्याः,तेषु च भङ्गाः सर्वसंख्यया चतुर्विशत्यधिकं सहस्रम् / अथ कस्मिन् संयोगे कियन्तो भङ्गकाः? उच्यते-इह भगतामानयनकरणमिदम्-दशाऽऽदयोऽङ्का एकैकेन हीनास्तावत् स्थाप्यन्ते यावत् पर्यन्ते एकः, ततस्ते यथाक्रममेभी राशिभिर्गुणयितव्याः। तद्यथा-दशक एककेन, नवकः पञ्चभिः, अष्टकः पञ्चदशभिः, सप्तकरित्रंशता, षट् को द्वाचत्वारिंशता, पञ्चकोऽपि द्वाचत्वारिंशता, चतुष्कस्त्रिशता, त्रिकः पञ्चदशभिः, द्विकः पञ्चकेन, एकक एककेन / स्थापना| 10|| 8 |76 [54 ३श अमीषां 15 15/30424230 155 | 1 | चामीभिगुणाकारैर्गुणने जाता एक काऽऽदिसंयोगे ब्वियं भङ्गसंख्या। तद्यथा एककसंयोगे दश। द्विक संयोगे पशचत्वारिंशत् / त्रिक