SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ थंडिल 2372 - अभिधानराजेन्द्रः - भाग 4 थंडिल आहणणादी दित्ते, गरहियतिरिएसु संकमादी य। एमेव य संलोए, तिरिए वज्जित्तु मणुएसुं॥४३७।। दृप्ते दृप्ततिर्यगापाते आहननाऽऽदयो दोषाः, आहननं शृङ्गाऽऽदिभिस्तामनम, आदिशब्दान्मूछागमनमारणाऽऽदिपरिग्रहः / गर्हितेषु तिर्यक्षु गर्हिततिर्यक् स्त्रीनपुंसकाऽऽपाते शङ्का मैथुने, आदि-शब्दात् प्रतिसेवेतापीत्यादयो दोषाः / यथा-आपाते दोषा उक्ताः एवमेव संलोकेऽपि तिर्यग्योनिकान् वर्जयित्वा मनुष्येषु द्रष्टव्याः। किमुक्त भवति?-एषां संलोके नास्ति कश्चिदनन्तरोदितो दोषः, मनुष्याणां तु स्त्रीपुरुषनपुंसकानां संलोके ये आपाते दोषास्ते वेदितव्याः। यदि कदाचिदात्मपरोभयसमुत्था मैथुनदोषा न भवेयुः, तथाऽप्यमी संभाव्यन्तेजत्थऽम्हे पासामो, जत्थ य आयरइ नातिवग्गो णे। परिमवकामेमाणो, संकेयगदित्तको वा वि।।४३८|| यत्र वयममुमागच्छन्तं पश्यामो, यत्र वाऽस्माकं ज्ञातिवर्गो निरन्तरं संचरति विचारार्थ गच्छति, तत्रास्माकं परिभवं कामयमानो, दत्तसंकेतो वा समागच्छति। किंच सम्प्रति प्रागुक्तमेवार्थमुपदिदर्शयिषुराहभद्दतिरियपासंडे मणुयासोएहिँ दोहिं लहुलहुगा। कालगुरू तवगुरुगा, दोहिँ गुरू अद्भुकंति दुगे / / 433 / / / भद्रेष्वदृष्तेषु तिर्यक्षुपुरुषेषु, मनुष्येषु गृहस्थेषु पाखण्डिषु चाशौचवादिषु आपतत्सु चत्वारो लघुकाः, द्वाभ्यां लघवः / मनुष्यस्त्रीनपुंसकानां शौचवादिनामापाते चत्वारो गुरुकाः, द्वाभ्यां गुरवः / तद्यथा-तपोगुरुकाः कालगुरुकाश्च / शेषेषु तु तिर्यङ् मनुष्यभेदेषु द्विके तपःकाललक्षणेऽपिक्रान्तिः, क्वचित्तपोगुरुका, वचित्कालगुरुकेत्येवंरूपाऽवसातव्या। सा च प्राक् दर्शिता / गतं शोधिद्वारम्। इदानीमपायद्वारमाहअमणुण्णेतरगमणे, वितहाऽऽयरणम्मि होइ अहिगरणं। पउरदवकरण दटुं, कुसीलें सेहाऽऽदिगमणं च ! // 434 / / अमनोज्ञानामसांभोगिकानां संविग्नानामितरेषां चासंविनानामागमने आपाते सति वितथाऽऽचरणे दृश्यमाने भवति परस्परमधिकरणम्। इयमत्र भावना आचार्याणां परस्परमन्यथा सामाचार्यः, ततोऽसांभोगिकानां सामाचारी वितथाऽऽचरणदर्शन नैषा सामाचारीति परस्परमधिकरणं तु वर्त्तते। इतरे कुशीलाः पार्श्वस्थाऽऽदयः, ते प्रचुरेण वारिणा पुतप्रक्षालनं कुर्वन्ति, ततस्तेषां कुशीलानां प्रचुरद्रवेण पुतनिर्लेपकरणं दृष्ट्वा शैक्षकाणाम, आदिशब्दात् शौचवादिनां मन्दधर्मिणां च गमनं तेषां समीपे भवति। निग्गंथाणं पढम, सेसा खलु होंति तेसिँ पडिकुट्ठा। दव अप्प कलुस असती, अवण्ण पुरिसेसुपडिसेहो।।४३५।। यत एवमापाते दोषास्तस्मान्निर्गन्थानां प्रथम स्थण्डिलमनापातमसलोकमित्येवंरूपं, शेषाणि त्रीणि खलु तेषां निन्थानां प्रतिक्रुष्टानि प्रतिषिद्धानि / अथ परपक्षापाते, तत्रापि पुरुषाऽऽपातं व्रजति तदा नियमतो द्रवमकलुषं परिपूर्ण च नेतव्यम् / अन्यथा द्रवे पानीये अल्पे कलुषे वा , यदि वा-असति-विना पानीयेन गतो भवेत्, ततस्ते दृष्ट्वाऽवर्णमश्लाघां कुर्युः, यथा-अशुचयोऽमी, न केवलमवर्ण कुर्युः किंतु प्रतिषेधोऽपि तैः क्रियते, यथा-माऽकोष्यमीषामशुचीनां भक्तं, पानं वा दद्यात् एष पुरुषेषु पुरुषाऽऽपाते दोषः। सम्प्रति स्त्रीनपुंसकाऽऽपाते दोषानाहआय-पर-तदुभए वा, संकाईया हवंति दोसा उ। पंडित्थिसंगें गहिते, उड्डाहो पडिगमणमादी।।४३६।। स्त्रीणां नपुंसकानां वाऽऽपाते आत्मनि,परे; तदुभयस्मिन् शङ्काऽऽदयो दोषा भवन्ति / तत्राऽऽत्मनि साधुःशङ्काविषयः क्रियते, यथा-एषा किमप्युभ्रामयति। परैः स्त्री, नपुंसको वा शक्यते-यथैते पापकर्माण एन साधु कामयन्त इति / तदुभयस्मिन्, यथा-द्वावप्येतौ परस्परमत्र मैथुनार्थमागतौ / तदेवमुक्ताऽऽशङ्का / आदि-शब्दादवर्णाऽऽदिदोषपरिग्रहः / तथास्त्र्यापाते नपुंसकाऽऽपाते वा स साधुरात्मपरोभयसमुत्थेन दोषेण स्त्रिया पण्डकेन वा सार्द्ध सङ्ग मैथुनं कुर्यात्। तत्र केनचिद् रागेण दृष्ट्वा गृहीतः स्यात्, ततः प्रवचनस्योड्डाहः, तथा स उड्डाहित इति कृत्वा प्रतिगमनाऽऽदीनि कुर्यात् / अस्मिन्नेव चतुर्थे स्थण्डिले तिर्यगापाते दोषानाह कलुस दवे असतीए, पुरिसाऽऽलोए हवंति दोसा उ। पंडित्थीसु वि य तहा, खुद्धे वेउव्विए मुच्छा / / 436 / / द्रवे पानीये कलुषे, असति अविद्यमाने च पुरुषाऽऽलोके दोषाः प्रागुक्ता अवर्णाऽऽदयो भवन्ति / तथा-पण्डा नपुंसकाः, पण्डेषु स्त्रीषु च संलोकमानेषु क्षुद्धे, वैकुर्विके वा सागारिके दृष्ट मूर्छा भवेत् / इयमत्र भावनानपुंसकः स्त्री वा सागारिकं स्वभावत एवाति स्थूलं लम्बं च, यदि वा-कषायितम्, अथवा-तद्दोषेण वैकुर्विकं दृष्ट्वा तद्विषयाभिलाषमूर्छामापन्नास्तं साधुमुपसर्गयेत्,तस्मात् त्रयाणामपि संलोको वर्जनीयः। गतं चतुर्थं स्थण्डिलम्। इदानीं तृतीयमापातवदसंलोकमधिकृत्य दोषामाहआयसमुत्था तिरिए, पुरुसे दवकलुस असति उड्डाहो। आयोभय इत्थीसु अ, आगच्छंते य आसंका।।४४०।। तिर्यगापाते आत्मसमुत्था दोषाः। तद्यथा-स्त्रीणां नपुंसकानां चाऽऽपाते मैथुनाऽऽशङ्काऽऽदयो दोषाः, दृप्तानां तिर्यग्पुरुषाणामापाते आत्मन उपघातः / तथा-पुरुष मनुष्यपुरुषाऽऽपाते द्रवे कलुषे, असति वा प्रवचनस्योड्डाहः। तथा-स्त्रीषु, चशब्दान्नपुंसकेषु आगच्छत्सुच आत्मोभयविषया, आत्मोभयग्रहणं परस्योपलक्षणम्, आत्मरोभयविषया आशड्का / सा च प्रागेव भाविता। आवायदोस तइए, विइए संलोयतो भवे दोसा। ते दो वि नत्थि पढमे, तहि गमणं तत्थिमा मेरा // 441 / / तृतीये स्थण्डिले आपातदोषाः, द्वितीये च संलोकतो दोषा भवन्ति वेदितव्याः। ते च द्वेऽपि-आपातदोषाः, संलोकदोषान प्रथम स्थण्डिले न सन्ति, ततस्तत्र गमनं विधेयम्। तत्रेयं मर्यादा। तामेवाऽऽहकालमकाले सन्ना, कालो तइयाएँ सेसगमकालो।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy