________________ थंडिल 2371 - अभिधानराजेन्द्रः - भाग 4 थंडिल एमेवित्थिनपुंसा, दुगुंछिअदुगुंछिया नवरं / / 428| तिर्यञ्चो द्विविधाः-दृप्ताः, अदृप्ताश्च / दृप्ता दर्पवन्तः, अदृप्ताः शान्ताः। ते प्रत्येकं त्रिविधाः-जघन्याः,उत्कृष्टाः, मध्यमाश्च / जघन्या एडकाऽऽदयः, मध्यमा महिषाऽऽदयः, उत्कृष्टा हस्त्यादयः / एते किल पुरुषा उक्ताः / एवमेव स्त्रीनपुंसका अपि वक्तव्याः, नवरं ते दृप्ताः, अदृप्ताश्च प्रत्येक द्विविधा विज्ञेयाः / तद्यथा- जुगुप्सिताः, अजुगुप्सिताश्च / जुगुप्सिता गर्दभ्यादयः / इतरे अजुगुप्सिताः। उक्तमापातवत्। संलोकवद् मनुष्येष्वेव द्रष्टव्यम्। ते च मनुष्या-स्त्रिविधाः। तद्यथा--पुरुषाः, स्वियो, नपुंसकाश्च / एकैके प्रत्येकं त्रिविधाः -प्राकृताः, कौटुम्बिकाः, दण्डिकाश्च / पुनरेकैके द्विविधाः-शौचवादिनः, अशीचवादिनच। उक्त च"आलोगो मणुएसु, पुरिसित्थिनपुंसगाण बोधव्वो। पाययकुडुबिदडिय-असोय तह सोयवादीण''||१|| तत्रैव चाऽऽपातसंलोको चरमभङ्गे, द्वितीये आपातः, तृतीये संलोकः। उक्ता भेदप्रभेदयुक्ता एते स्थण्डिलभेदाः / गतं भेदद्वारम्। अधुना शोधिद्वारमाहमणुयतिरिएसु लहुगा, चउरो गुरुगाय दित्ततिरिएसु। तिरियनपुंसित्थीसु य, मणुसित्थिनपुंसगे गुरुगा॥४२६।। मनुष्याणां शौचवादिना पुरुषाणां, तिरश्चां च पुरुषाणामदृप्तानामापाते (गाथायां सप्तमी षष्ठ्यये) संज्ञा व्युत्सृजतः प्रायश्चित्तं चत्वारो लघुकाः / (गुरुगा य दित्ततिरिएसु त्ति) दृप्तानां तिरश्चामापाते चत्वारो गुरुकाः / तथा-तिर्यग्नपुसकस्त्रीषु तिर्यग्योनीनां नपुंसकस्त्रीणां दृप्तानामापाते (मणुसित्थिनपुंसगे इति) मनुष्याणां स्त्रीनपुंसकानां शौचवादिनामापाते प्रत्येक प्रायश्चित्तं चत्वारो गुरुकाः। मणुयतिरियपुरिसेसुं,दोसु वि लहुगा तवेण कालेण। कालगुरू तवगुरुगा, दोहिं गुरू अद्भुकंती वा / / 430 / / मनुष्याणामशौचवादिनां पुरुषाणां, तिरश्वां सदृप्ताना पुरुषाणामापाते द्वयानामपि पृथक् पृथक् प्रायश्चित्तं चत्वारो लघुकाः, तपसा कालेन च लघवः / मनुष्यस्त्रीनपुंसकानामशौचवादिनामापाते चत्वारो गुरुकाः / द्वाभ्यां गुरुकाः / तद्यथा-कालगुरुकाः, तपोगुरुकाः / अर्धापक्रान्तिर्वा द्रष्टव्या। सा चैवम्-तिरश्चा दृप्तानां पुरुषाणामापाते, न (?) मनुष्याणां गृहिणां पाषण्डिनां वा पुरुषाणामशौचवादिनामापाते चत्वारो लघुकाः, तिर्यक् स्त्रीनपुंसकानामदृप्तानामजुगुप्सितानां वाऽऽपाते कालगुरुकाश्चत्वारो लघुकाः। तेषामेव तिर्यक् स्त्रीनपुंसकानां दृप्तानां जुगुप्सितानां चाऽऽपाते चत्वारो गुरुलघुकाः, तपोगुरवः / मनुष्यस्त्रीनपुंसकानामशौचवादिनामपि तएव तपोगुरवः, चत्वारो लघुकाः। इयमेकेषामाचार्याणां मतेनापिक्रान्तिरुपदर्शिता। सम्प्रति भाष्यकारोऽन्यथाऽर्धापक्रान्तिमाह-- पागऍ कोडुवीए, दंडिएँ अस्सोयसोयवादीसु / चउगुरुगा जमलपया, अहवा चउ छच्च गुरु-लहुगा॥४३१।। प्राकृते, कौटुम्बिके, दण्डिनिच प्रत्येकमशौचवादिनि चापिक्रान्तिरवसेया। सा चैवम्-प्राकृतानामशौचवादिनां पुरुषाणामापाते चत्वारो लघुकाः, तपसा कालेन च लघवः / तेषामेव शौचवादिना प्राकृतपुरषाणामापाते तएव चत्वारो लघवः, कालगुरुकाः। कौटुम्बिकानामशौच वादिनां पुरुषाणामापाते कालगुरुकाः, चत्वारो लघवः / तेषामेव कौटुम्बिकपुरुषाणां शौचवादिनामापाते चत्वारो लघवः, तपोगुरुकाः / दण्डिकपुरुषाणामशौचवादिनामापाते तपोगुरुवश्चतुर्लघवः / तेषामेव शौचवादिनामापाते चतुर्लघवो, द्वाभ्यां गुरुकास्तपसा कालेन च। उक्तंच"पाणाइयसोयवादी-पुरिसाणं लहुग दोहि वी लहुगा। ते चेव य कालगुरू, तेसिं चिय सोयवादीणं / / 1 / / ते चिय लहु कालगुरू, कोडुंबीणं असोयवादीणं। तेसि चिय ते चेव उ, तवगुरुगा सोयवादीणं / / 2 / / दंडिऍ असोयमि चिय, सोयम्मि य दोहि गुरुग चउलहुगा। पुस पुरिसाण भणिओ,इत्थिनपुंसाण वी एवं / / 3 / / " (चउगुरुगा जमलपया इति) यमलपदानि स्त्रीनपुंसकलक्षणानि चतुर्गुरुकानि वक्तव्यानि / तानि चैवम्-प्राकृतस्त्रीणामशौचवादिनीनामापाते चत्वारो गुरुकाः, द्वाभ्यां लघवः। तद्यथा-तपसा, कालेन च। तासामेव शौचवादिनीना चत्वारो गुरुकाः / कौटुम्बिकस्त्रीणामशौचवादिनीनामापाते कालगुरवश्चत्वारो गुरुकाः / तासामेव शौचवादिनीनामापाते तपोगुरुकाश्चत्वारो गुरवः / एवमेव दण्डिक-स्त्रीणामशौचवादिनीनामपि, शौचवादिनीनां चचत्वारो गुरुकाः; द्वाभ्यां गुरवः तपसा, कालेन च। एवमेव नपुंसकानामप्यापातेवक्तव्यमाअत्रच मतान्तरमाहअथवा स्त्रीणामापाते चतुर्गुरुकाः, उक्तप्रकारेण तपसा कालेन च विशेषिताः, नपुंसकानामापाते षड् लघवो यथोक्तक्रमेण तपःकालविशेषिताः। सम्प्रति तिर्यगापातमधिकृत्या पक्रान्तिमाहतिरिएसु वि एवं चिअ, अदुगुंछदुगुंछदित्तऽदित्तेसु। अमणुण्णेयर लहुगो, संजतिवग्गम्मि चउगुरुगा / / 432 / / एवमेवाऽनेनैव प्रकारेण तिर्यग्जुगुप्सिताजुगुप्सितदृप्तादृप्तेष्वपिक्रान्तिरवसेया। तद्यथा-प्राकृतपुरुषगृहीतानामदृप्तानां तिर्यक्पुरुषाणामापाते चत्वारो लघवः, द्वाभ्यां लघुकाः, तपसा कालेन च / तेषामेव च दृप्तानां त एव चत्वारो लघवः कालगुरुकाः। कौटुम्बिकपरिगृहीतानामपि तिर्यक्पुरुषाणामदृप्तानामापाते च त एव कालगुरुकाश्चत्वारो लघवः / तेषामेव दृप्तानां तपो गुरवश्चत्वारो लघुकाः / दण्डिकपरिगृहीतानां तिर्यक्पुरुषाणामदृप्तानामापाते त एव चत्वारो लघवः, तपोगुरुकाः / तेषामेव दृप्तानाभापाते चतुर्लघुकाः, द्वाभ्यां गुरवः-तपसा, कालेन च / तथा प्राकृतपरिगृहीताना स्त्रीणां नपुंसकानां च तिरश्चामजुगुप्सितानामापाते चत्वारो गुरुकाः, द्वाभ्या लघवः-तपसा, कालेन च / तेषामेव जुगुप्सितानामापाते चत्वारो गुरुकाः कालगुरवः। कौटुम्बिकपरिगृहीतानां तिर्यस्त्रीनपुसकानामापाते त एव कालगुरुकाश्चत्वारो गुरवः / तेषामेव च जुगुप्सितानामापाते चत्वारो गुरुकास्तपोगुरवः / एवमेव दण्डिकपरिगृहीतानामपि तिर्यक्स्त्रीनपुंसकानामदृप्तानामापाते द्रष्टव्याः / दृप्तानामापाते चत्वारो गुरुकाः, द्वाभ्यां गुरवः-कालेन, तपसा च / उक्तास्तिर्यश्वप्यपिक्रान्तिः / सम्प्रति स्वपक्षाऽऽपाते शोधिमाहअमनोज्ञानामसाभोगिकानां सांभोगिकानां संविग्नानामितरेषां वाऽसंविग्रानामापाते प्रायश्चित्तं लघुको मासः। संयतीवर्गे समापतति संयमीनामापाते चत्वारो गुरुकाः।