________________ तेरासिय 2366 - अभिधानराजेन्द्रः - भाग तेरासिय इत्थं प्रेरके उपसन्ने दृष्टान्तोपन्यासद्वारेण सूरिः प्रस्तुता र्थनिर्णयमाहजह घडमाणय मणिए, न हि सव्वाऽऽणयणसंभवो किं तु / देसाइविसिटुं चिय, तमत्थवसओ समप्पेइ॥२४६६ पुढवि त्ति तहा भणिए, तदेगदेसे वि पगरणवसाओ। लेद्वम्मि जायइ मई,जहा तहा लेटदेसे वि // 2500 / / यथा सामान्येन घटमानय(पटमानय) इत्युक्तेऽपि न खलु सर्वस्याऽपि घटस्य सामान्यतयैवाऽऽनयनसंभवोऽस्ति, किं तु सर्वस्याऽऽनेतुमशक्यत्वात्, प्रायः सर्वेण प्रयोजनाभावाच, अर्थवशात्सामर्थ्यत एव नियतदेशकालाऽऽद्यवच्छिन्नं विशिष्टमेव कश्चिद् घटमानीय समर्पयति, तथाऽत्रापि पृथ्वी देहीति भणिते सर्वस्या आनेतुमशक्यत्वात्, प्रायस्तया प्रयोजनाभावाच, यथा तदेक-देशेऽपि पृथिव्येकांशेऽपि लेष्टी देवस्य समर्पणमतिर्जायते / कुतः? इत्याह-प्रकरणवशाद्, 'अनेनाऽपि तदेकदेशेन लेष्टुना प्रस्तुतार्थः सेत्स्यति' इत्येवं प्रस्ताववशादित्यर्थः / प्रकृतमाह-(तहा लेट्छदेसे वित्ति) यथा पृथिवी देहीत्युक्ते सति प्रतिपादितन्यायेन तदेकदेशेऽपि लेष्टौ समर्पणमतिर्जायते। तथा तेनैव प्रकारेण नोपृथ्वी देहीत्युक्ते तत्खण्डरूपे तदेकदेशेऽपि समर्पणबुद्धिरुत्पद्यत इति।।२४६६।२५००।। आह-ननु "इहरा पुढवि चिय सो, लेटुव्व समाणजाइलक्खणओ।" (2467) इति वचनाल्लेष्ट्रकदेशः पूर्वं भवद्भिः पृथिवीत्वेनोक्तः स कथमिदानीं नोपृथिवी स्याद्? इत्याशक्याऽऽहलेट्दव्वावेक्खाए, तह वी तद्देसभावओ तम्मि। उवयारो नो पुढवी, पुढवि चिय जाइलक्खणओ।।२५०१।। यद्यपिलेष्टुकदेशः पृथिव्येव, तथाऽपि (उवयारो ति) तस्मिन् लेष्टकदेशे नोपृथिवीत्वस्योपचारः क्रियत इत्यर्थः / कया? इत्याह-लेष्टुद्रव्यापेक्षया लेटोः प्रागुक्तन्यायेन यत्पृथिवीद्रव्यत्वमारोपितं, तदपेक्षयेत्यर्थः / कुतः? इत्याह-तद्देशभावतो लेष्टुद्रव्यैकदेशत्वादित्यर्थः / प्रागुक्तन्यायेन तावल्लेष्टुरेवेह पृथ्वीद्रव्यं, तदपेक्षया च तदेकदेशे नोपृथ्वीत्युपर्यत इति भावः / परमार्थतस्त्वियं लेष्टुकदेशलक्षणं नोपृथिव्येव मन्तव्यम्, समानजातिलक्षणत्वादिति को वैन मन्यते, अस्माभिरेव प्रागुक्तत्वात्, इदानीमपि च स्मर्यमाणत्वादिति? / / 2501 / / नोअकारोभयनिषेधपक्षमधिकृत्याऽऽहपडिसेहदुगं पगई, गमेइजतेण नोअपुढवि त्ति। भणिए पुढवित्ति गई, देसनिसेहे वि तद्देसो / / 2502 / / "द्वौ नौ प्रकृतमर्थं गमयतः" इति वचनाद् नोकराकारलक्षण प्रतिषेधद्वयं यस्मात्प्रकृतिं गमयति-प्रकृतमेवार्थं प्रतिपादयतीत्यर्थः / तेन कारणेन 'नोअपृथ्वी' इति भणिते नोशब्दस्य सर्वनिषेधपरत्वात् पृथिवीगतिर्भवतिपृथिव्याः प्रतिपत्तिर्भवतीत्यर्थः। (देसनिसेहे वि तद्देसो त्ति) देशनिषेधवाचके तु नोशब्दे तस्या जलाऽऽदिरूपाया अपृथिव्या एवोत्तरपदे श्रूयमाणाया देशस्तद्देशो गम्यते, देशनिषेधके नोशब्दे नोअपृथ्वी ति याचिते जलाऽऽदिरूपा पृथिव्येकदेशं देवो ददातीत्यर्थः // 2502 / / अथ प्रस्तुतार्थतात्पर्यमाहउवयाराओ तिविहं, भुवमभुवं नोभुवं च सो देइ। निच्छयओ भुवयभुवं, तह सावयवाई सव्वाइं // 2503 / / स कुत्रिकाऽऽपणदेवो याचितः सन् वस्तु ददाति। कतिविधम्? किंवा तत्? इत्याह-त्रिविधं त्रिप्रकार, चतुर्थस्य नोअभूपक्षस्य प्रथमपक्ष एवान्तर्भावात्। तत्र भुवं लेष्टुम्, अभुवं जलाऽऽदि, नोभुवं भूभ्येकदेशं ददाति / कुतः? इत्याह-उपचाराद्- व्यवहारनयमताऽऽश्रयणादित्यर्थः,सएव हि देशदेशिव्यवहारं मन्यते, नतुनिश्चय इति भावः / अत एवाऽऽह-(निच्छओ इत्यादि) निश्चयतस्तु भुवमभुवं चेत्येवं द्विविधमेव वस्तु ददाति, तृतीयस्य नोभूपक्षस्य देश-देशिव्यवहार एवोपपद्यमानत्वात्. तस्य च निश्चयनयेनानभ्युपगमादिति / तदेवं ''भूजलजलण'(२४६०) इत्यादौ पृथिव्याः प्रथमं निर्दिष्टत्वात्तामधिकृत्योक्तम्। अथ शेषाणि जलाऽऽदिवस्तून्यधिकृत्याऽऽहह-(तह सावयवाई ति) न केवलमित्थं भुवं ददाति, तथा शेषाण्यपि जलाऽऽदिवस्तूनि "पगईए अगारेणं" (2464) इत्यादिप्रकारेण विशेष्य याचितः सन् व्यवहारनयमतेन यथोक्त-विधिना त्रिप्रकाराणि ददाति / कुतः? इति चेत् / उच्यते यतः सावयवानिसदेशान्येतानि सर्वाण्यपि जलाऽऽदिवस्तूनि, अतस्तृतीयोऽपि देशविषयो दानप्रकार एतेषु संभवतीतिभावः / निश्चयनयमतेन तु देशदेशिव्यवहाराभावादेतान्यपि जलाऽऽदीनि द्विप्रकाराण्येव ददातीति। तदेवं सावयवे वस्तुनि प्रकारत्रयेण प्रकारद्वयेन च यथोक्तरीत्या दानं संभवति / / 2503 // अथ निरवयवे वस्तुनि प्रकारद्वयेनैव दानसंभव इति दर्शयन्नाहजीवमजीवं दाउं, नोजीवं जाइओ पुणरजीवं / देइ चरिमम्मि जीवं, न तु नोजीवं सजीवदलं / / 2504 / / जीवं देहीति याचितः सुरो जीवं शुकसारिकाऽऽदिकं दत्त्वा, 'अजीव देहि' इति याचितस्त्वजीवमुपलखण्डाऽऽदिकं दत्त्वा कृतार्थो जायते, नोजीवं याचितः पुनरजीवमुपलखण्डाऽऽदिकमेव ददाति, नोशब्दस्य सर्वनिषेधपरत्वात्। चरमे तुनोअजीवलक्षणे विकल्पे जीवमेव शुकाऽऽदिकं ददाति, द्वयोर्नोः प्रकृतार्थगमकत्वात्, नोशब्दस्य च सर्वनिषेधकत्वादिति , न तु स कुत्रिकाऽऽपणदेवो जीवं जीवदलं जीवखण्डरूपं वापि विकल्पे ददाति / इति जीवाजीवलक्षणौ द्वावेव राशी, न तु तृतीयः, असत्त्वात्, खरविषाणवदिति // 2504 / / ततः किमभूदित्याहतो निग्गहिओ छलुओ, गुरू वि सक्कारमुत्तमं पत्तो। घिद्धिक्कारोवहओ, छलुओ वि सभाहिँ निच्छूढो / / 2505 / / ततो यदा कुत्रिकाऽऽपणसुरेण जीवव्यतिरिक्तो नोजीवो न दत्तः, असत्त्वात्, तदा निगृहीतो निर्जितः षडुलूकः / गुरुरपि श्रीगुप्ताऽऽचार्यो - नरनाथाद् लोकाच सत्कारमुत्तमं प्राप्तः / षडुलूकोऽपि गुरुप्रत्यनीकत्वाजनप्रयुक्तधिक्कारोपहतो राजसभातो निष्काशित इति / / 2505 / / ततः किम्? इत्याहवाए पराजिओ सो, निव्विसओ कारिओ नरिंदेण।