________________ तेरासिय 2365 - अभिधानराजेन्द्रः - भाग 4 तेरासिय कथं पुनरिदं चतुश्चात्वारिंशं शतं पृच्छानां भवतीत्याहभूजलजलणानिलनह-कालदिसाऽऽया मणो य दव्वाई। भन्नंति नवेयाई, सत्तरस गुणा इमे अन्ने // 2460 // रूवरस-गंधफासा, संखा परिमाणमहमह पुहुत्तं च / संजोगविभागपरा-परत्तबुद्धी सुहं दुक्खं // 2411|| इच्छा दोसपयत्ता, एत्तो कम्मं तयं च पंचविहं / उक्खेवणऽवक्खेवण-पसारणाऽऽकुंचणं गमणं / / 2462 / / सत्ता सामण्णं पिय, सामण्णविसेसया विसेसोय। समवाओ य पयत्था, छच्छत्तीसप्पभेया य॥२४६३।। पगईऍ अगारेण य, नोगारोभयनिसेहओ सव्वे / गुणिया ओयालसयं, पुच्छाणं पुच्छिओ देवो / / 2464|| इह द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणाः षड् मूलपदार्थास्तेन षडुलूकेन कल्पिताः। तत्र द्रव्यं नवधा / कथम्? इत्याह-(भूजलेत्यादि) भूमिः, जलं, ज्वलनः, अनिलः, नभः, कालः, दिक्. आत्मा, मनश्चेत्येतानि नव द्रव्याणि भण्यन्ते। गुणाः सप्तदश भवन्ति। तद्यथा-रूप, रसः, गन्धः, स्पर्शः, संख्या, परिमाणं, महत्त्वं, पृथक्त्वं, संयोगः, विभागः, परापरत्वे, बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नश्चेति। इतः कर्म। तत्पुनः पञ्चविधम् / तद् यथा-उत्क्षेपणम्, अवक्षेपणम्, आकुञ्चनं, प्रसारणं, गमनमिति / सामान्यं त्रिविधम् / तद्यथा-सत्ता, सामान्य, सामान्यविशेषश्चेति। तत्र द्रव्यगुणकर्मलक्षणेषु त्रिषु पदार्थेषु सद्बुद्धिहेतुः सत्ता / सामान्यं द्रव्यत्वगुणत्वाऽऽदि / सामान्यविशेषस्तु-पृथ्वीत्वजलत्वकृष्णत्वनीलत्वाऽऽद्यवान्तरसामान्यरूप इति / अन्ये त्वित्थं सामान्यस्य त्रैविध्यमुपवर्णयन्तिअविकल्पं महासामान्यं, त्रिपदार्थहतुसद् बुद्धिभूता सत्ता, सामान्यविशेषो द्रव्यत्वाऽऽदि / महासामान्यसत्तयोविशेषणव्यत्यय इत्यन्ये। द्रव्यगुणकर्मपदार्थत्रयसबुद्धिहेतुः सामान्यम्, अविकल्पा सत्तेत्यर्थः / सामान्यविशेषस्तु द्रव्यत्वाऽऽदिरूप एव / इत्यलं प्रसनेनेति। विशेषश्चान्त्यः / समवायपदार्थश्चेति। तदेवमेते द्रव्याऽऽदयः षट् पदार्थाः षड् त्रिंशत्प्रभेदाः नवानां द्रव्याणां, सप्तदशानां गुणानां, पञ्चानां कर्मणां, त्रयाणां सामान्यानां, विशेषसमवाययोश्च मीलने, षट्त्रिंशद्विकल्पा भवन्तीत्यर्थः / एतेच सर्वे प्रकृत्या, अकारेण नोकारेण, उभयनिषेधतश्चेत्येतैश्चतुर्भिः प्रकारैर्गुणिताः सन्तो यचतुश्चत्वारिंशं शतं पृच्छानां भवति तत्पृष्टः कुत्रिकाऽऽपणदेवः / इदमत्र हृदयम्-न रहितं शुद्धं पदमिह प्रकृतिरुच्यते, तया शुद्धपद-रूपया प्रकृत्या पृथिव्यादयः पदार्थाः पृच्छ्यन्ते / तद्यथा-"पृथिवीं देहि" इत्यादि / तथा लुप्तस्य नञः स्थाने योऽकारस्तेन चाकारेण संयुक्तया प्रकृत्या पृच्छा विधीयते। यथा-'अपृथिवीं देहि' इत्यादि / तथा नोकारेण संयुक्तया प्रकृत्या पृच्छा / यथा-'नोपृथ्वीं देहि' इत्यादि। तथा नोकाराकारलक्षणं यदुभय तेन योऽसौ प्रकृत्या निषेधः तस्माच्च पृष्टः सुरः / यथा-"नोअपृथ्वीं देहि' इत्यादि। एवं जलाऽऽदिष्वपि प्रत्येकमेते प्रकृत्यकारनोकारोभयनिषेधलक्षणाश्चत्वारः पृच्छाप्रकारा वक्तव्या इति। एतदभिप्रायवता प्रोक्तम्- (सव्वे गुणिय त्ति) आहननु ''पृथ्वीं देहि'' इत्यादिका याचना एव कथं पृच्छाः प्रोच्यन्ते? सत्यं, किंतु 'पृथ्वी देहि' इत्यादियाचनाद्वारेण पृथिव्याद्यस्तित्वमेवासौ देवः पृच्छ्यते, नोजीवं याचितोयद्यसौ जीवाजीवव्यतिरिक्तं तं दास्यति तदाऽयमस्ति, नान्यथा इत्येवमेव प्रतिज्ञातत्वात्। ततो याचना अददतास्तत्त्वतः पृच्छा एवेत्यदोषः। कथं पुनरेताः कुत्रिकाऽऽपणसुरस्य पृच्छाः कृताः? इत्याशङ्कय दिग्मात्रोपदर्शनार्थमाद्य पृथ्वीलक्षणं भेदमधिकृत्याऽऽहपुढवि त्ति देह लेटुं, देसो वि समाणजाइलिंगो त्ति। पुढवि त्ति सो अपुढविं, देहि ति य देइ तोयाऽऽइ // 2465|| पृथ्वी याचितः कुत्रिकाऽऽपणसुरो लेष्टुं ददाति। आह-अप्रस्तुतमिदम्, अन्यस्मिन्याचिते अन्यस्य प्रदानात् / नैवम् / कुतः? इत्याह-(देसो वीत्यादि) देशोऽपि लेष्टुलक्षणः (पुढवि त्ति) पृथिव्येव मन्तव्या, पृथिवीत्वलक्षणाया जातेः स्त्रीलिङ्गलक्षणस्य लिङ्गस्य च समानत्वात्। इह यत्र पृथ्वीत्वजातिः स्त्रीलिङ्गं च वर्तते तत् पृथिवीति व्यवहर्त्तव्यं, यथा-रत्नप्रभाऽऽदि,तथा च लेष्टुः, तस्मात्पृथ्वीति / अपृथिवीं देहीत्येवंयाचितोऽसौ देवस्तोयाऽऽदि प्रयच्छति।।२४६५|| नोपृथ्वीं याचितस्तर्हि किं ददातीत्याहदेसपडिसेहपक्खे, नोपुढविं देइ लेडदेसं सो। लेहदव्वावेक्खो, कीरइ देसोवयारो से / / 2466 / / इहरा पुढवि चिय सो,लेट व्व समाणजाइलक्खणओ। लेखदलं ति व देसो, जइ तो ले वि भूदेसो / / 2467 / / नोशब्दस्य देशप्रतिषेधपक्षे नोपृथ्वीं याचितोऽनन्तरमेव समस्तपृथ्वीत्वेनोपचरितस्य लेष्टोरेव देशं तत्खण्डरूपं ददात्यसौ देवः / आहननु देशनिषेधपक्षे नोपृथ्वी तद्देश एव गृह्यते, यस्तु लेष्टुदेशः स पृथिवीदेशस्याऽपि देश एव, न तु पृथ्वीदेशः, तत्कथं नोपृथिवीं याचितस्तं ददाति? इत्याह-(लेटुदव्वेत्यादि) लेष्टुद्रव्यापेक्षः 'से' तस्य लेष्टुदेशस्य देशोपचारः क्रियते। इदमुक्तं भवतिलेष्टौ तावदनन्तरोक्तयुक्तेः सम्पूर्णपृथ्वीद्रव्यत्वमारोपितं, ततो लेष्टुलक्षणपृथ्वीद्रव्यापेक्षया तद्देशस्याऽपि पृथ्वीदेशत्वमुपचर्यते, इतरथा अन्यथा पुनः परमार्थतो लेष्टुवत्समानजात्यादिलक्षणत्वादितिपूर्वोक्तहेतोः सोऽपि लेष्टुदेशः पृथिव्येवमन्तव्या। अथ पराभिप्रायमाविष्कृत्य परिहारार्थमाह-(लेट्ठदलं ति व देसो जइ त्ति) यदितुभोः पर! त्वं मन्यसेयोऽयं लेप्टोर्देशः सदलंलेष्टोरेव खण्डमात्रं, ततः समानजातिलक्षणत्वेऽपि नाऽसौ पृथ्वीति। अत्र परिहारमाह-(तो लेदविभूदेसो त्ति) ततस्तर्हि "पुढवि त्ति देइ लेटुं देसो वि'' इत्यादौ यः पूर्व लेष्टुः पृथ्वीत्वेनोक्तः सोऽपि भुवः पृथिव्या देश एव। ततस्त्वदभिप्रायेण सोऽपि पृथ्वीदलरूपत्वाद् न पृथ्वी, लेष्टुदेशवदिति।।२४६६॥२४६७। अस्त्वेवमिति चेत्, तदयुक्तम् / कृतः? इत्याहदेहि भुवं तो भणिए, सव्वाऽऽणेया न यावि सा सव्वा। सक्का सक्केण वि याणेउं किमुयावसेसेणं ? // 2468 / / यदि लेष्टुर्न पृथ्वी, ततस्तर्हि भुवं देहीत्युक्ते सर्वाऽपि संपूर्णा साऽऽनेया प्रसज्यते, न च सा सर्वा शक्रेणाप्यानेतुं शक्या, किमुतावशेषेण कुत्रिकाऽऽपणदेवाऽऽदिमात्रेण? इति / तर्हि किमत्र तत्त्वम् ? इति भवन्त एव कथयन्तु इति // 2468 / /