________________ तेरासिय 2363 - अभिधानराजेन्द्रः - भाग 4 तेरासिय अवरोप्परसंकरओ, सुहाइगुणसंकरो पत्तो // 2466 / / अथ पुगलस्कन्ध इव सावयवत्वात्स जीवः सङ्घातभेधर्माऽभ्युपगम्यते, यथा कृचिद्विवक्षितपुद्गलस्कन्धेऽन्यस्कन्धगतं खण्ड समागत्य संहन्यते संबध्यते, तदतं च खण्ड भित्त्वाऽन्यत्र गच्छति, एवं जीवस्याप्यन्यजीवखण्डं संहन्यते, तद्गतं तु भिद्यत इत्येवं सङ्घातभेदधा जीव इष्यत इति। अतः खण्डशो नाशेऽपि संघातस्यापि सद्भावान्न तस्य सर्वनाश इति परस्याभिप्रायः। अत्र दूषणमाह-(तो वि सव्वेसिं इत्यादि) एवमपि च सति सर्वेषामपि सर्वलोकवर्तिनां जीवाना परस्परसङ्करतः सुखाऽऽदिगुणसङ्करः प्राप्तः / इदमुक्तम्भवतियदैक जीवसंबन्धि शुभाशुभकर्मान्चितं खण्डमन्यजीवस्य संबध्यते, अन्यसंबन्धि तु खण्ड तस्य संबध्यते, तदा तत्सुखाऽऽदयोऽन्यस्य प्रसजन्ति, अन्यसुखाऽऽदयस्तु तस्य, इत्येवं सर्वजीवानां परस्परं सुखाऽऽदिगुणसाङ्कर्य स्यात् / तथैकस्य कृतनाशः,अन्यस्ताकृताभ्यागम इत्यादि वाच्यमिति // 2466 // अन्यमपि पराभिप्रायमाशङ्कयं दूषणान्तरमाहअह अविमुक्को वितओ, नोजीवो तो पइप्पएसं ते। जीवम्मि असंखेज्जा, नोजीवा नस्थि जीवो ते॥२४७०।। अथैतद्दोषभयान्न जीवस्य छेदोऽभ्युपगम्यते, किं त्वविमुक्तोऽप्यच्छिन्नोऽपि जीवसंबद्धोऽपि तकोऽसौजीवदेशो नोजीवस्त्वयेष्यते, यथा धर्मास्तिकायाऽऽद्येकदेशोनोधर्मास्तिकायाऽऽदिः ततस्तर्हि प्रतिप्रदेश ते तव नोजीवसद्भावादेकैकस्मिन्नात्मन्यसंख्येया नोजीवाः प्राप्ताः, ततस्ते तव नास्ति क्वाऽपि जीवसंभवः, सर्वेषामपि जीवानां प्रत्येकमसंख्येयनोजीवत्वप्राप्तेरिति / / 2470 / / दूषणान्तरमपि प्रसञ्जयन्नाहएवमजीवा वि पइप्पएसभेएण नोअजीव त्ति। नत्थि अजीवा केई, कयरे ते तिन्नि रासि त्ति? / / 2471 / / एवमजीवा अपि धर्मास्तिकायाऽऽदयो व्यणुकस्कन्धाऽऽदयो घटाऽऽदयश्च प्रतिप्रदेशभेदतोऽजीवैकदेशत्वाद् नोऽजीवाः, घटैकदेशनोघटवदिति, अतोऽजीवाः केचनाऽपि न सन्ति, परमाणूनामपि पुदलास्तिकायलक्षणाजीवैकदेशत्वेन नोऽजीवत्वात्सर्वत्र नोअजीवानामेवा-पपद्यमानत्वात्। ततश्च कतरे ते त्रयो राशयः त्वया ये राजसभायां प्रतिष्ठिताः, उक्तन्यायेन नोजीवनोअजीवलक्षणराशिद्वयस्यैव सद्भावात्, इति। तस्माद् बहुदोषप्रसङ्गान्न जीवश्छिद्यत इति स्थितम्॥२४७१॥ छिद्यता वाऽसौ तथापि न नोजीवसिद्धिरिति दर्शयन्नाहछिन्नो व होउ जीवो, कह सो तल्लक्खणो वि नोजीवो? अह एवमजीवस्स वि, देसो तो नोअजीवो त्ति।।२४७२।। एवं पिरासओ ते, न तिन्नि चत्तारि संपसज्जंति। जीवा तहा अजीवा, नोजीवा नोअजीवा य॥२४७३।। पुच्छाऽऽद्यवयवच्छेदेन च्छिन्नोऽपि भवतु गृहकोकिलाऽऽदिजीवः, केवलं तस्य जीवस्य लक्षणानि स्फुरणाऽऽदीनि यस्याऽसौ तल्लक्षणोऽपि सन्नसौ पुच्छाऽऽदिदेशः कथं केन हेतुना नोजीवो भण्यते ? इदमुक्त भवति-सम्पूर्णोऽपि गृहकोकिलाजीवः स्फुरणाऽऽदिलक्षणैरेव जीवो भण्यते, स्फुरणाऽऽदीनि च लक्षणानि छिन्ने तदवयवेऽपि पुच्छाऽऽदिके दृश्यन्ते, अतस्तल्लक्षणयुक्तोऽप्यसौ किमिति जीवो न भण्यते, येन नोजीवकल्पनाऽत्र विधीयते? इति। (अह एवमिति) अथैवं जीवलक्षणैः सद्भिऽपि पुच्छाऽऽदिकस्तदवयवो नोजीव एवेष्यते, न पुनः स्वाग्रहस्त्यज्यत इत्यर्थः / अत्र सूरिराह-(तो ति) ततस्तर्हि अजीवस्यापि घटाऽऽदेहॅशो नोअजीवः प्राप्नोति, जीवैकदेशनोजीववदिति। अस्त्वेवं, न किञ्चिद्मम विनश्यतीति चेत्। नैवम्। कुतः ? इत्याह-(एवं पीत्यादि) एवमप्यभ्युपगम्यमाने ये भवता त्रय एव राशय इष्यन्ते, ते नघटन्ते, किं तु चत्वारो राशयः संप्रसजन्ति / तद्यथा-जीवाः, तथा अजीवाः, नोजीवाः, नोअजीवाश्चेति / / 2472 // 2473|| अत्र यः परस्य परिहारस्तस्य स्वपक्षेऽपि समानता दिदर्शयिषुः सूरिराहअह ते अजीवदेसो, अजीवसामण्णजाइलिंगो त्ति। मिन्नो वि अजीवो चिय, नजीवदेसो वि किं जीवो? ||2474 / अथ ते तवाऽजीवस्य जीवस्कन्धाऽऽदेर्देश एकदेशो भिन्नोऽपि स्कन्धात्पृथग्भूतोऽप्यजीव एव,न तु नो अजीवः / कुतः ? इत्याह- अजीवेन सामान्ये जातिलिङ्गे यस्यासावजीवसामान्यजातिलिङ्ग इति कृत्वा / तत्राजीवत्वं जातिः, पुंल्लिङ्गलक्षणं च लिङ्गम्। एतच द्वयमप्यजीवतद्देशयोः सामान्यमेव, ततस्तद्देशोऽप्यजीवएव। हन्त ! यद्येवं, तर्हिजीवदेशोऽपि किमिति जीवो नेष्यते, तस्याऽपि जीवेन समानजातिलिङ्ग-- त्वादिति // 2474 // गाथाचतुर्थपादोक्तमेवार्थ प्रमाणेन द्रढयन्नाहछिन्नगिहकोलिया वि हु, जीवो तल्लक्खणेहिँ सयलो व्व। अह देसो तिन जीवो, अजीवदेसो त्ति नोऽजीवो? ||2475 / छिन्नगृहकोकिलाऽपि-छिन्नः पुच्छाऽऽदिको गृहकोकिलाऽऽदिजीववयवोऽपीत्यर्थः। किम्? इत्याह-जीवः, इति प्रतिज्ञा। हे-तुमाह(तल्लक्खणेहिं ति) तल्लखणैर्हेतुभूतैः-स्फुरणाऽऽदितल्लक्षणयुक्तत्वादित्यर्थः। (सयलो व्व त्ति) यथा सकलः परिपूर्णोऽछिन्नो गृहकोकिलाऽऽदिजीव इत्यर्थः / एष दृष्टान्तः। अथ गृहकोकिलाऽऽदेर्जीवस्य पुच्छाऽऽदिकस्तदवयवो देश एवेति कृत्वा न जीव इष्यते, संपूर्णस्यैव जीवत्वात्, यद्येवमजीवस्यापि घटाऽऽदेर्देशो 'नो' नैवाऽजीवः प्राप्नोति, सम्पूर्णस्यैवाजीवत्वात्। ततोऽयमजीवदेशोऽपि नोअजीव एव स्यात, न त्वजीवः / तथा च सति स एव राशिचतुष्टयप्रसङ्ग इति // 2475 / / यदुक्तम्- "इच्छइ जीवपएसं, नो जीवं जं च समभिरूढो वि।'' (2462) इत्यादि। तत्राऽऽहनोजीवं ति न जीवादण्णं देसमिह समभिरूढो वि। इच्छइ बेइ समासं, जेण समाणाहिगरणं सो // 2476|| जीवे य से पएसे, जीवपएसे एव नोजीवो। इच्छइ न य जीवदलं, तुमं व गिहकोलियापुच्छं // 2477 / / न य रासिभेयमिच्छइ, तुमं व नोजीवमिच्छमाणो वि। अन्नो वि नओ नेच्छइ, जीवाजीवाहियं किं पि // 2478|| इह-"जीवे य से पएसे य से सपएसे नोजीवे / '' इत्यत्रानुयोग द्वारोक्त सूत्राऽऽलापके समभिरूढनयोऽपि नो जीवमिति ने च्छ