________________ तेरासिय 2362 - अभिधानराजेन्द्रः - भाग 4 तेरासिय दो जीवाजीवाणं, नसुए नोजीवरासि ति।।२४६३।। 'धम्माइदसविहाऽऽदेसओ य'' इत्याधुपन्यासात्सूत्रप्रामाण्यवादी किल लक्ष्यते भवान्तद्यदि सत्यमेव तव सूत्रं प्रमाणम्, ततस्तर्हि तेषु तेषु सूत्रेषु जीवाजीवरूपौ द्वावेव राशी प्रोक्तौ। तथा च स्थानाङ्ग स्त्रम- 'दुवे रासी पण्णत्ता / तं जहा-जीवा चेव, अजीवा चेव।" तथाऽनुयोगद्वारसूत्रेऽप्युक्तम्-'कइविहा णं भंते ! दव्वा पण्णत्ता? गोबमा ! दुविहा पण्णत्ता / तं जहा-जीयदव्वा य, अजीवदव्वा या" तथोत्तराध्ययनरात्र चाभिहितम्-"जीवा चेव अजीवा य, एस लोए वियाहिए।'' इत्यालान्येष्वपि सूत्रेषु द्रष्टव्यम्। नोजीवराशिस्तु तृतीयः श्रुतेन क्वचिदा शाभिहितः, तत्कथं तत्सत्वप्ररूपणा न श्रुताऽऽशातनेति? न च धम्मास्तिकायाऽऽदीनां देशस्तेभ्यो भिन्नः कोऽप्यस्ति, विवक्षामात्रेण तरगजिन्नास्तत्वकल्पनात् // 2463 // एवं पुच्छाऽऽदिकमपि गृहकोकिलाऽऽदिजीवेभ्योऽभिन्नमेव, तबद्धत्वाद्, अतो जीव एव तत्, नतु नोजीव इति दर्शयन्नाहगिहकोलियाइपुच्छे, छिन्नम्मि तदंतरालसंबंधो। सुत्तेऽभिहिओ सुहुमा-ऽमुत्ततणओ तदग्गहणं / 2464 / / गृहकोकिलाऽऽदीनां पुच्छाऽऽदिकेऽवयवे छुरिकाऽऽदिना छिन्नेऽपि तयोर्मुहकोकिलापुच्छाऽऽदिवस्तुनोर्थदन्तरालं विचालं तत्र जीवपदेशानां संबन्धः संयोगस्तदन्तरालसंबन्धः सूत्रेऽभिहित एव। तथा च भगवतीसूत्रम्- "अह भंते ! कुम्मा कुम्मावलिया, गोहा गोहावलिया, गोणे गोणावलिया, मणुस्से मणुस्सावलिया, महिसे महिसावलिया, एएसि दुहा वा, तिहा वा, असंखेजहा वा छिन्नाणं जे अंतरा, ते विण तहि जीवपएसेहिं फुडा? हंता फुडा। पुरिसे णं भंते ! अंतरे हत्थेण वा, पाएण वा, अंगुलियाएवा, कट्टेण वा, किलिचेण वा, आमुसमाणे वा, संमुसमाणे वा, आलिहमाणे वा, विलिहमाणे वा, अण्णयरेण वा तिक्खेण सत्थजाएणं आच्छि–दमाणे वा, विच्छिंदमाणे वा, अगणिकाएणं समोदुहमाणे तेसिं जीवपएसाणं किंचि आवाहं वा विवाह वा उप्पाएइ, विच्छेयं वा करेइ? नो इणढे समढे। नो खलु तत्थ सत्थं संकमइ।" इति। यदि नामैव सूत्रे जीवप्रदेशानां तदन्तरालसंबन्धोऽभिहितः, तर्हि तदन्तराले ते जीवप्रदेशाः किमिति नोपलभ्यनते? इत्याह-(सुहमेत्यादि) कार्मणशरीरस्य सूक्ष्मत्वात्, जीवप्रदेशानां चामूर्त्तत्वादन्तराले तेषां जीवप्रदेशाना सतामप्यग्रहण तदग्रहणमिति / / 2464 / / ननु यथा देहे पुच्छाऽऽदौ च स्फुरणाऽऽदिभिर्लिङ्गैर्जीवप्रदेशा गृह्यन्ते, तथा सन्तोऽप्यन्तराले किमि तिते न गृह्यन्ते? इत्याहगज्झा मुत्तिगयाओ,नाऽऽगासे जह पईवरस्सीओ। तह जीवलक्खणाई, देहे न तदंतरालम्मि // 2465 / / इह भूकुड्यवरण्डकान्धकाराऽऽदीनि वस्तुन्येव मूर्तियोगान्मू- | तिरुच्यन्ते। ततश्च यथा मूर्त्तिगता यथोक्तवस्तुगता एवेत्यर्थः, प्रदीपरश्मयो ग्राह्या भवन्ति, नतु केवल आकाशे प्रसृताः, तथा तेनैव प्रकारेण जीवो लक्ष्यते यैस्तानि जीवलक्षणानि भावणोच्छासनिःश्वासधावनवल्गनस्फुरणाऽऽदीनि देह एव गृह्यन्ते, न तु तदन्तराल इति / / 2465 / / यतश्चैवं ततः किम्? इत्याहदेहरहियं न गिण्हइ, निरतिसओ नातिसुहुमदेहं च। नय से होइ विवाहा, जीवस्स भवंतराले व्व / / 2466 / / देहाभावे जीवलक्षणानामभावाद्देहरहितं मुक्ताऽऽत्मानं छिन्नपुच्छाऽऽद्यन्तरालवर्त्तिन वा जीवं निरतिशयः केवलज्ञानाऽऽद्यतिशयरहितो जन्तुर्न गृह्णाति। तथा अतिसूक्ष्मो देहो यस्य तम--तिसूक्ष्मदेह निगोदाऽऽदिजीवं कार्मगकाययोगिन वा जन्तुंनाऽसौ गृह्णाति। न च से तस्यजीवस्यान्तसलवर्तिषु प्रदेशेष्वनन्तरदर्शितसिद्धान्तसूत्रोक्तयुक्त्या कुन्तासिसेल्लाऽऽदिशस्त्रैरग्निजलाऽऽदिभिर्वा विबाधा पीडा काचिद्भवति, भवान्तराले कामणशरीरवर्तिजीवप्रदेशवदिति // 2466 / / ननु गृहकोकिलाऽऽदिजीवस्य छिन्नत्वात्पुच्छाऽऽदिकं खण्डं नष्ट, ततश्च तारमात्पृथग्भूतत्वान्नोजीवः कस्मानोच्यते? यथा घटच्छिन्नत्वात्पथग्भूतं रथ्यापतितं घटखण्डं घटकदेशत्वान्नोघटः? तदयुक्तम्। कुतः? पाहदव्वामुत्तत्ताऽकयभावादविकारदरिसणाओ य! अविणासकारणाहि य, नभसो व्व नखंडसो नासो / / 2467 / खण्डशो जीवस्य नाशो न भवतीति प्रतिज्ञा, अमूर्त्तद्रव्यत्वाद्, अकृतकभावात्-अकृतकत्वादित्यर्थः / तथा घटाऽऽदेः कपाला दिवद्विकारदर्शनाभावाद, अविनाशकारणत्वाचविनाशकारणानामग्निशस्त्राऽऽदीनामभावाचेत्यर्थः इत्येते हेतवः / सर्वेषु नभस इव इति दृष्टान्त इति।।२४६७|| खण्डशी नाशे च जीवस्य दोषानाह-- नासे य सव्वनासो, जीवस्स नासो य जिणमयचाओ। तत्तो य अणिम्मोक्खो, दिक्खावेफल्लदोसाय / / 2468|| शस्वच्छेदाऽऽदिना जीवप्रदेशस्य नाशे चेष्यमाणे क्रमशः सर्वनाशोऽपि कदाचित्तस्य भवेत्। तथाहि-यत् खण्डशो नश्यति तस्य सर्वनाशो दृष्टः, यथा घटाऽऽदः, तथा च त्वयेष्यते जीवः, ततः सर्वनाशस्तस्य प्राप्नोति। भवत्येतदपि, किं नः सूयते? इति चेत् / तदयुक्तम्। कुतः? इत्याह(नासो येत्यादि) स च जीवस्य सर्वनाशो न युक्तः, यस्माजिनमतत्यागहेतुत्वाजिनमतत्यागोऽसौ / जिनमते हि जीवस्य सतः सर्वथा विनाशोऽसतश्च सर्वथोत्पादः सर्वत्र निषिद्ध एव। यदाह-"जीवा णं भते ! किं वमृति, हायंति, अवडिया? गोयमा ! नो वड्डति, नो हायंति, अवडिया।' इत्यादि। अतो जीवस्य सर्वथा नाशेऽभ्युपगम्यमाने जिनमतत्याग एव स्यात् / तथा ततस्तत्सर्वनाशादनिर्मोक्षो मोक्षाभावः प्राप्नोति, मुमुक्षोः सर्वथा नाशात्। मोक्षाभावे च दीक्षाऽऽदिकष्टानुष्ठानवैफल्य, क्रमेण च सर्वेषामपि जीवानां सर्वनाशे संसारस्य शून्यताप्राप्तिः, कृतस्य च शुभाशुभकर्मणो जीवस्य सर्वनाश एवमेव नाशात्कृतनाशप्रसङ्ग इत्यादि वाच्यमिति न जीवस्य खण्डशो नाशः / गृहकोकिलाऽऽदीना पुच्छाऽऽदिखण्डस्य पृथग्भूतत्वेन प्रत्यक्षत एव नाशो दृश्यत इति चेत्। तदयुक्तम् / औदारिकशरीरस्यैव हि तत्खण्डमध्यक्षतो वीक्ष्यते, न तु जीवस्य, तस्यामूर्तत्वेन केनाऽपि खण्डयितुमशक्यत्वादिति। अथात्रैव पराभिप्रायमाशङ्कय दूषयतिअह खंधो इव संघायभेयधम्मा स तो वि सव्वेसिं।