________________ तेरासिय 2361 - अमिधानराजेन्द्रः - भाग 4 तेरासिय नामुलाबकान् मुञ्चति। ततो गर्दभी मुक्ता, तां चाऽऽगच्छन्तीं दृष्ट्वा रोहगुप्तेन रजोहरणं मस्तकस्योपरि भ्रमयित्वा तेनैव रजोहरणेन ताडिता सती परिव्राजकस्योपरि मूत्रपुरीषोत्सर्ग कृत्वा गताऽसौ / ततः सभापतिना, सभ्यः,समस्तलोकेन च निन्द्यमानो नगरान्निर्वासितः परिव्राजकः॥२४५४।। इतः परं यदभूत्तद्भाष्यकारः प्राऽऽहजेऊण पोट्टसालं, छलूओं भणइ गुरुमूलमागंतुं। वायम्मि मए विजिओ, सुणह जहा सो सहामज्झे / / 2455 / / रासिद्गगहियपक्खो, तइयं नोजीवरासिमादाय। गिहकोकिलाइपुच्छच्छेओदाहरणओऽभिहिए।।२४५६|| भणइ गुरू सुद्ध कयं, किं पुण जेऊण कीस नाभिहियं ? अयमवसिद्धंतो णे, तइओ नोजीवरासि त्ति॥२४५७।। एवं गए वि गंतुं, परिसामज्झम्मि भणसु नायं णे। सिद्धंतो किं तु मए, बुद्धिं परिभूय सो समिओ / / 2458|| बहुसो स भण्णमाणो, गुरुणा पडिभणइ किमवसिद्धंतो? जइ नाम जीवदेसो, नोजीवो हुन्ज को दोसो? ||2456 / / पोट्टशालं परिव्राजकं जित्वा गुरुचरणमूलमागत्य रोहगुप्तोऽपरनाम्ना तुखडुलूको भणति-स परिव्राजकाधमः समस्तनृपसभामध्ये यथा वादे मया विजितस्तथा शृणुत यूयम्, कथयामीति / तदेवाऽऽहराशिद्वयगृहीतपक्षः स परिव्राजको नया वादे विजित इति प्राक्तनेन संबन्धः। किं कृत्वा? इत्याह-तृतीयं नोजीवराशिमादाय पक्षीकृत्य, कुतो दृष्टान्तादसौ पक्षीकृत्य? इत्याह- गृहकोकिलाऽऽदीनां पुच्छमेव छिन्नत्वाच्छेदः, तदुदाहरणतस्तद् दृष्टान्तादित्यर्थः / एवं रोहगुप्तनाभिहिते गुरुर्भणतिसुष्ठ कृतं त्वया यदसौ जितः, किंतुतत्रोत्तिष्ठता त्वया किमेतन्नाभिहितम्? किम्? इत्याह-तृतीयो नोजीवराशिरित्ययं (णे त्ति) नोऽस्माकमपसिद्धान्तः, जीवाजीवलक्षणराशिद्वयस्यैवाऽस्मत्सिद्धान्तेऽभिहितत्वादिति। तस्मादेवं गतेऽपि, एतावत्यपि गते इत्यर्थः,तत्र परिष-न्मध्ये गत्वा भण प्रतिपादय, (नायं णे त्ति) नोऽस्माकं नायं सिद्धान्तः, किंतुस परिव्राजकस्तद् बुद्धिं परिभूय तिरस्कृत्य शमित उपशमं नीतो, दर्प त्याजित इत्यर्थः / एवं बहुशोऽनेकधा गुरुणा भण्यमानः स रोहगुप्तः प्रतिभणति प्रत्युत्तरयति-आचार्य! किमयमपसिद्धान्तः? यदि हि नोजीवलक्षणतृतीयराश्यभ्युपगमे कोऽपि दोषः स्यात्तदा स्यादयमपसिद्धान्तः, न चैतदस्ति। कुतः? इत्याह यदि नाम गृहकोकिलापुच्छाऽऽदिजीवदेशो नोजीवो भवेन्नोजीवत्वेनाऽभ्युपगम्येत, तर्हि को दोषः स्यात्? न कमपि दोषमत्र पश्याम इत्यर्थः। ततः किमित्यपसिद्धान्तत्वे दोषपरिहारार्थं पुनर्मां तत्र प्रेषयसीति भावः। कस्मान्न दोषः? इत्याहजं देसनिसेहपरो, नोसद्दो जीवदव्वदेसो य। गिहकोइलाइपुच्छं, विलक्खणं तेण नोजीवो // 2460 // यद्यस्मान्नोजीव इत्यत्र नोशब्दो देशनिषेधपरो, न तु सर्वनिषेधपरः, नोजीवो-जीवैकदेशो, न तु सर्वस्यापि जीवस्याऽभाव इत्यर्थः / भवत्वेवं देशनिषेधको नोशब्दः, परं गृहकोकिलाऽऽदिपुच्छं जीवदेशो न भविष्य तीत्याशड्क्याऽऽह-जीवद्रव्यैकदेशश्च गृह-कोकिलाऽऽदिपुच्छम्, आदिशब्दाच्छिन्नपुरुषाऽऽदिहस्ताऽऽदयः परिगृह्यन्ते / कथंभूतं तद् गृहकोकिलाऽऽदिपुच्छम्? इत्याह-विलक्षणम्, जीवाऽजीयेभ्य इति गम्यते। तथाहि न तावद् गृह-कोकिलाऽऽदिपुच्छं जीवत्वेन व्यपदेष्टु शक्यते, तत्कायैकदेशत्वेन तद्विलक्षणत्वात् / नाप्यजीव इत्यभिधातुं पार्यते, स्फुरणाऽऽदिभिस्तेभ्योऽपि विलक्षणत्वात्। येनैवं, तेन कारणेन पारिशेष्यान्नोजीव एतदुच्यत इति // 2460 / / सिद्धान्तेऽपि धर्मास्तिकायाऽऽदिदेशवचनादुक्त एव नोजीवः / कथम्? इत्याहधम्माइदसविहाऽऽदेसओ य देसो विजं पिहुं वत्थु / अपिहुभूओ किं पुण, छिन्नं गिहकोलियापुच्छं? // 2461 / / इच्छइ जीवपएस, नोजीवं जं च समभिरूढो वि। तेणऽत्थि तओ समए, घडदेसो नोघडो जह वा / / 2462 / / चकारस्य भिन्नक्रमत्वाद्यद्यस्मात्कारणाद्देशोऽपीत्यपिशब्दस्या-पि भिन्नक्रमत्वाद्धर्मास्तिकायाऽऽदिदेशिनः (अपिहुन्भूओ त्ति) अपृथग भूतोऽप्येकत्वमापन्नोऽपि देशः (पिहुं वत्थु त्ति) सिद्धान्ते पृथग वस्तु भणित इति शेषः, पृथग् वस्तुत्वेन निर्दिष्ट इत्यर्थः / किं पुनर्याच्छिन्नमात्मनः पृथग्भूतं कृतं, तद् गृहकोकिलाऽऽदिपुच्छं पृथग् वस्तु न भविष्यति? भविष्यत्येवेति / तच्च जीवच्छिन्नत्वेन पृथग्भूतत्वात्. स्फुरणाऽऽदिना चाजीवविलक्षणत्वात्सामर्थ्यान्नोजीव एवेति भावः। कुतः पुनर्वचनाऽऽदेशसिद्धान्तेपृथग वस्तु भणितः? इत्याह-(धम्माइदसविहाऽऽदेसउत्ति) धर्मास्तिकायाऽऽदीनाममूर्ताजीवानां दशविधाऽऽदेशतो दशविधत्वभणनात् / एतदुक्तं भवति-अजीवप्ररूपणां कुर्वद्विरुक्तं परममुनिभिः "अजीवा दुविहा पण्णत्ता / तं जहा-रूविअजीवा य, अरूविअजीवा य / रूविअजीवा चउव्विहा पण्णत्ता / तं जहा-खंधा, देसा, पएसा, परमाणुपोग्गला। अरूविअजीवा दसवि पन्नत्ता। तं जहाधम्म-त्थिकाए धम्मत्थिकायस्स देसे, धम्मत्थिकायस्सपएसे, एवं अधम्मत्थिकाए वि, आगासत्थिकाए वि,अद्धासमए।" तदेवंधर्मा-स्तिकायाऽऽदीनां दशविधत्वभणनेन तद्देशस्य पृथग्वस्तुत्वमुक्त-मेव, अन्यथा दशविधत्वानुपपत्तेः / यदा च धर्मास्तिकायाऽऽदीनां देशस्तेभ्योऽपि पृथग्भूतोऽपि पृथग्वस्तूच्यते, तदा गृहकोकिला-पुच्छाऽऽदिकं छिन्नत्वेन जीवात् पृथग्भूतं सुतरां वस्तु भवति; तच्च जीवाजीवविलक्षणत्वान्नोजीव इत्युक्तमेवेति। अपि च यद्यस्मात्कारणाजीवप्रदेशं नोजीवं समभिरूढनयोऽपीच्छति, तेन तस्मात्तकोऽसौ नोजीवः समये सिद्धान्तेऽप्यस्ति, न पुनर्मयैव केवलेनोच्यते, तथा चानुयोगद्वारेषु प्रमाणद्वारान्तर्गतं नयप्रमाणं विचारयता प्रोक्तम्- "समभिरूढो सद्दतयं भणइ-जइ कम्मधारएण भणसि तो एवं भणाहि-जीवे य से पएसे य, से सपएसे नोजीवे" इति / तदनेन प्रदेशलक्षणो जीवैकदेशो नोजीव उक्तः, यथा घटैकदेशो नोघट इति / तस्मादस्ति नोजीवलक्षणस्तृतीयराशिः, युक्त्याऽऽगमसिद्धत्वात्, जीवाजीवाऽऽदितत्त्ववदिति॥२४६१।।२४६२।। तदेवं षडुलूकेनोक्त आचार्यः प्रतिविधानमाह-- जइ ते सुयं पमाणं,तो रासी तेसु तेसु सुत्तेसु।