________________ तेयाणुबंधि(ण) 2360 - अभिधानराजेन्द्रः - भाग 4 तेरासिय "तह तिव्वकोहलोहा-उलस्स भूओवघायणमणज्न / परदव्व हरणचित्त, परलोगावायनिरवेक्खं" ||1|| दर्श०४ तत्त्व। तेयाली पुं०(तेयालिन्) वृक्षभेदे, ''ताले तमाले तक्कलितेयाली- | सालिसारकल्लोणे।" प्रज्ञा०१ पाद। तेरसी स्त्री०(त्रयोदशी) चन्द्रस्य त्रयोदशकलाक्रियारूपे तिथौ, वाच०। त्रयोदश्यां यात्रा शुभकरी। तदुक्तम्-"जे वि हु हुंति अमित्ता, ते तेरसिपट्ठिओ जिणइ।"द०प०। ज्यो। तेरह पुं०त्रयोदश(न) "एत्त्रयोदशाऽऽदौ स्वरस्य सस्वरव्यञ्जनेन" // 8/1 / 165 / त्रयोदशन्नित्येवप्रकारेषु संख्याशब्देष्वादेः स्वरस्य परेण सस्वरय्यञ्जनेन सहकारः / प्रा०१ पाद / "संख्यागद्दे रः" ||8/1 / 216 / / इति दस्य रः / प्रा०१ पादत्र्यधिक्दशसंख्याऽन्विते, वाचा तेरासिय पुं०(त्रैराशिक) जीवाजीवनोजीवभेदास्वयो राशयः समाहृतास्त्रिराशि, तत्प्रयोजनं येषां ते त्रैराशिकाः / स्था०७ ठा०आ०म०। त्रीन् राशीन् जीवाजीवनोजीवरूपान् वदन्ति ये ते त्रैराशिकाः। औ०। जीवोऽजीवो जीवाजीवश्व, लोकोऽलोको लोकालोकश्च, सत् असत् सदसत् / नयचिन्तायामपि त्रिविधं नयमिच्छन्ति / तद्यथा-द्रव्यास्तिकम, पर्यायास्तिकम्, उभयास्तिकं च / उक्तं च–त्रिभी राशिभिश्वरन्तीति त्रैराशिकाः / नं०। त्रिराशिभिर्दीव्यन्ति जिगीषन्तीति त्रैराशिकाः / उत्त०३अ० जीवाजीवनोजीवराशित्रयवादिरोहगुप्तमतानुसारिषु षष्ठेषु निहवेषु, आ०क०। अथषष्ठवक्तव्यतामभिधित्सुराहपंच सया चोयाला, तइया सिद्धिं गयस्स वीरस्स। पुरिमंतरंजियाए, तेरासियदिट्ठि उप्पन्ना // 2451 / / पञ्चवर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धिं गतस्यश्रीमन्महावीरस्य, अत्रान्तरे अन्तरञ्जिकायां पुर्या त्रैराशिकदृष्टिरुत्पन्नेति ||2451 / / __ कथमुत्पन्ना ? इत्याहपुरिमंतरंजि भुयगिह, बलसिरि सिरिगुत्त रोहगुत्ते य। परिवायपोट्टसाले, घोसणा पडिसेहणा वाए॥२४५२।। संग्रहगाथेयम्। अस्याश्च कथानकादर्थोऽवसेयः / तचेदम्- अन्तरजिका नाम नगरी,तस्याश्च बहिर्भूतगृहं नाम चैत्यम्। तत्र च श्रीगुप्तनामाऽऽचार्यः स्थितः। तस्यांच नगर्या बलश्री म राजा। श्रीगुप्ताऽऽचार्याणां च रोहगुप्तो नाम शिष्योऽन्यत्र ग्रामे स्थित आसीत्। अतोऽसौ गुरुवन्दनार्थमन्तरञ्जिकायामागतः / तत्र चैकः परिव्राजको लोहपट्टकेनोदर बद्धा, जम्बूवृक्षशाखया च हस्ते गृहीतया नगर्या भ्राम्यति। किमेतदिति च लोकेन पृष्टो वदति-मदीयोरदमतीव ज्ञानेन पूरितत्वात-स्फुटतीति लोहपट्टेन बद्धम्। जम्बूद्वीपमध्ये च मम प्रतिवादी नास्ति इत्यस्यार्थस्य सूचनार्थ जम्बूवृक्षशाखा हस्ते गृहीता। ततस्तेन परिव्राजकेन सर्वस्यामपि नगर्यां ''शून्याः सर्वेऽपि परप्रवादाः, नास्ति कश्चिन्मम प्रतिवादी।" इत्युद्धोषणापूर्वकः पटहको दापितः / लोहपट्टबद्धपोइजम्बूवृक्षशाखायोगाच तस्य लोके ''पोट्टशाल'' इति नाम जातम्। ततस्तत्पटहको नगरी प्रविशता रोहगुप्तेन दृष्टः, उद्घोषणा च श्रुता। ततोऽहं तेन | सार्द्ध वादंदास्यामीत्यभिधाय गुरूनपृष्वाऽपि निषिद्धस्तेनाऽसौ पटहकः / गुरुसमीपं चाऽऽगत्याऽऽलोचयता कथितोऽयं व्यतिकरस्तेषाम्। आचार्य: प्रोक्तम्- न युक्तं त्वयाऽनुष्ठितम्, स हि परिव्राजको वादे निर्जितोऽपि विद्यास्वतिकुशलत्वात्ताभिरुपतिष्ठते, तस्य चैताः सप्त विद्या वाढं स्फुरन्ति // 2452 // काः पुनस्ताः? इत्याहविच्छु य सप्पे मूसग, मिगी वराही य काग पोयाई। एयाहिं विजाहिं, सो य परिव्वायगो कुसलो / / 2453 / / (विच्छु य त्ति) वृश्चिकप्रधाना विद्या गृह्यते / (सप्पे त्ति) सर्पप्रधाना विद्या (मूसग त्ति) मूषकप्रधाना / तथा मृगी नाम विद्या मृगीरूपेणोपघातकारिणी। एवं वराही च। (काग पोयाइ त्ति ) काकविद्या, पोताकीविद्या च। पोताक्यः शकुनिकाः / एतासु विद्यासु, एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति। ततो रोहगुप्तेनोक्तम्-यद्येवं, तत्किमिदानीं नष्ट क्वापि शक्यते? निषिद्धस्ततपटहकः, यद्भवति तद्भवतु / ततः सुरिभिः प्रोक्तम्-यद्येव, तर्हि पठितसिद्धा एवैताः सप्त तत्प्रतिपक्षविद्या गृहाण // 2454|| काः पुनस्ताः? इत्याहमोरी नउलि विराली, वग्घी सीही य उलुगि चोलावी। एयाओ विजाओ, गिण्ह परिव्वायमहणीओ|२४५४।। वृश्चिकानां प्रतिपक्षभूता मयूरी विद्या, सर्पाणां तु प्रतिपक्षभूता नकुली। मूषकाणां बिमाली। एवं व्याघ्री, सिंही, उलूकी। (उलावि त्ति) पोताकीप्रतिपक्षभूता उवावकप्रधाना विद्येत्यर्थः / एताः परिव्राजकमथनीविद्या गृहाण त्वम्, इति सूरिणा प्रोक्ते गृह्णाति रोहगुप्तः / तथा रजोहरण चाभिमन्त्र्य सूरिभिस्तस्य समर्पितम् / अभिहितश्च यथा-यद्यन्यदपि किश्चित्तत्प्रणीतक्षुद्रविद्याकृतमुपसर्गजातमुपतिष्ठते तदा तन्निवारणाथमतन्मस्तकस्योपरि भ्रमणीयम् / ततश्चेन्द्राणामप्यजेयो भविष्यसि, किमुत मनुष्यमात्रस्य तस्येति? ततश्च गतो राजसभां रोहगुप्तः। प्रोक्तं च तत्र तेन–किमेष द्रमकः परिव्राजको जानाति? करोत्वयमेव यदृच्छया पूर्वपक्षम, येनाहं निराकरोमि / ततः परिव्राजकेन चिन्तितम्-निपुणाः खल्वमी भवन्ति, तदमीषामेव सम्मतं पक्षं परिगृह्णामि, येन निराकर्तुं न शक्नोति। विचिन्त्य चेदमभ्यध्रायि-इह जीवाश्चाजीवाश्वेति द्वावेव राशी, तथैवोपलभ्यमानत्वात्, शुभाशुभाऽऽदिराशिद्वयवत् इत्यादि / ततो रोहगुप्तेन तद्बुद्धिपरिभवनार्थ स्वसंमतोऽप्ययं पक्षो निराकृतः / कथम्? इति चेत्? उच्यते-असिद्धोऽयं हेतुः, अन्यथोपलम्भात्, जीवा अजीवा नोजीवाश्चेति राशित्रयदर्शनात्। तत्र जीवा नरकतिर्यगादयः, अजीवास्तु परमाणुघटाऽऽदयः, नोजीवास्तु गृहकोकिलापुच्छाऽऽदयः। ततो जीवाऽजीवनोजीवरूपास्त्रयो राशयः, तथैवोपलभ्यमानत्वाद्, अधममध्यमोत्तमाऽऽदिराशित्रयवद्, इत्यादियुक्तिभिः निष्प्रश्रव्याकरणः कृत्वा जितः परिवाजको रोहगुप्तेन / ततोऽसौ क्रुद्धो वृश्चिकविद्यया रोहगुप्तविनाशार्थ वृश्चिकान मुञ्चति / ततो रोहगुप्तस्तत्प्रतिपक्षभूतमतयूरीविद्यया मयूरान्मुञ्चति। तैश्च वृश्चिकेषु हतेशु परिव्राजकः सन्मुिञ्चति। इतरः तत्-प्रतिघातार्थं नकुलान्विसृजति। एवं मूषिकाणां विडालान्, मृगीणा व्याघ्रान्, शूकराणां सिंहान्, काकानामुलूकान् पोतकी