________________ तेउक्काइय 2345 - अभिधानराजेन्द्रः - भाग 4 तेउक्काइय वतरति / एवं चास्य युक्त्यागमबलप्रसिद्धस्याभ्याख्याने क्रिय-माणे सत्यात्मनोऽप्यहप्रत्ययसिद्धस्याभ्याख्यानं भवतः प्राप्तम् / एवमस्त्विति चेत्,तन्नेति दर्शयति-(नव अत्ताणं अन्भाइक्खेज्जा) नैवाऽऽत्मानंशरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेनाऽऽहृतमिदं शरीर के नचिदभिसन्धिमता, तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात्।नच प्रसाधितप्रसाधनं पिष्टपेषणवद् विद्वज्जनमनासि रञ्जयति। एवञ्च सत्यात्मवत्प्रसाधितमग्निलोकं य : प्रत्याचक्षीत सोऽतिसाहसिक आत्मानमभ्याख्याति निराकरोति, यश्वाऽऽत्माभ्याख्यानप्रवृत्तः स सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणाम्, सति / ह्यात्म्सामान्ये पृथिव्याद्यात्मविभागः सिद्ध्यति. नान्यथा, सामान्यस्य विशेषव्यापकत्वात् : व्यापकविनिवृत्तौ च व्याप्यस्याप्यवश्यंभाविनी विनिवृत्तिरिति कृत्वा / एवमयमग्निलोकः सामान्याऽऽत्मवन्नाभ्याख्यातव्य इति प्रदर्शितम्। अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाहजे दीहलोगसत्थस्सखेयण्णे, से असत्थस्स खेयण्णे। (जे दीहेत्यादि) य इति मुमुक्षुर्दी घेलोको-वनस्पतिर्यस्तदसौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेषैकेन्द्रियेभ्यो दीर्घो वर्तते। तथाहि कायस्थित्या तावत् "वणस्सइकाइएणं भंते ! वणस्सइकाए त्ति कालओ के वचिरं होइ? गोयमा ! अणेतं कालं अणताओ उस्सप्पिणिअवसप्पिणीओ, खेत्तओ अणंता लोया असंखे झा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखेजइभागे।'' परिमाणतस्तु-''पडुप्पन्नवणस्सइकाइयाणं भंते ! केवतिकालस्स निल्लेवणा सिया ? गोयमा ! पमुप्पन्नवणस्सइकाइयाण नत्थि निल्लेवणा।" तथा शरीरोच्छ्याच दीर्घा वनस्पतिः। "वणस्सइकाइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! साइरेग जोयणसहस्सं सरीरोगाहणा।"न तथाऽन्येषां एकेन्द्रियाणाम्, अत:स्थितमेतत्सर्वथा दीर्घलोको वनस्पतिरिति / अस्य च शस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाऽऽकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छस्त्रम्। ननु च सर्वलोकप्रसिद्ध्या करमादग्निरेव नोक्तः? किं वा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्वमिति? अत्रोच्यते-प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति। यस्मादयमुत्पाद्यमानो ज्वाल्यमानो वाहव्यवाहः समस्तभूतग्रामघाताय प्रवर्तत, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतो वनस्पती कृमिपिपीलिकाभ्रमरकपोतश्वापदाऽऽदयः संभवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात्, आपोऽप्यवश्यायरूपाः, वायुरपीषचञ्चलस्वभावकोमलकिशलयानुसारी संभाव्यते / तदेवमग्निसमारम्भप्रवृत्त एतावतो जीवान्नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति। तथा चोक्तम्"जायतेयं न इच्छंति, पावगं जलइत्तए। तिक्खमन्नयरं सत्थं, सव्वओ विदुरासयं / / 33 / / पाईणं पडिणं वा वि, उट्ठे अणुदिसामवि। अहे दाहिणओ वा वि, दहे उत्तरओ वि य॥३४॥ भूयाण-मेस–माघाओ, हव्ववाहो न संसओ। तं पईवपयावट्ठा, संजया किंचि नारभे॥३५॥"(दश०६अ०) अथवा बादरतेजस्कायाः पर्याप्तकाःस्तोकाः, शेषाः पृथिव्यादयो जीवकाया बहवः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा, इतरेषां पृथिव्यप्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहसपरिमाणा दीर्घा अवसेया इति / अतो दीर्घलोकः-पृथिव्यादिः, तस्य शस्त्रमग्निकायः, तस्य क्षेत्रज्ञो निपुणोऽनिकाये वर्णाऽऽदितो जानातीत्यर्थः / खेदज्ञो वा, खेदः-तद् व्यापारः सर्वसत्त्वानां दहनाऽऽत्मकः पाकाऽऽधनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशः यतीनामनारम्भणीयः, तमेवंविधं खेदमग्रिव्यापारंजानातीति खेदज्ञः, अतो य एव दीर्घलोकशस्त्रस्य खेदज्ञः स एवाशस्त्रस्य सप्तदशभेदस्य संयमस्य खेदज्ञः / संयमो हि न कञ्चिजीवं व्यापादयति, अतोऽशरवम् / एवमनेन संयमेन सर्वसत्त्वाभयप्रदायिनाऽनुष्ठीयमानेनाग्निजीवविषयः समारम्भः शक्यः परिहर्तु पृथिव्यादिकायसमारम्भश्चेत्येवमसौ संयभे निपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाव्यावृत्य संयमानुष्ठाने प्रवर्तते। इदानीं गतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनार्थ विप र्ययेण सूत्रावयवपरामर्श करोतिजे असत्थस्स खेयण्णे, से दीहलोगसत्थस्स खेयपणे / / 32 / / (जे असत्थस्स इत्यादि) यश्चाशस्त्रे संयमे निपुणः, स खलु दीर्घलोकशस्वस्याग्नेः, क्षेत्रज्ञः खेदज्ञो वा, संयमपूर्वकं ह्यग्निविषयखेदज्ञत्वम् / अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसंभव एवेत्येतदतप्रत्यागतफलमाविर्भावितं भवति। ___कैः पुनरिदमेवमुपलब्धमित्यत आहवीरेहिं एवं अभिभूय दिहूँ, (वीरेहीत्यादि) अथवा सद्भक्तृप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवति, इत्यत उपदिश्यते-(वीरेहीत्यादि) घनघातिकर्मसंघातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराः-तीर्थकराः, तैर्वीररर्थतो दृष्टमेतद्गणधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टम् , अशस्त्र संयमस्वरूपं चेति। किं पुनरनुष्ठायेदं तैरुपलब्धमिति? अत्रोच्यते-(अभिभूयेति) अभिभयो नामाऽऽदिश्चतुर्दा, द्रव्याभिभवो रिपुसेनाऽऽदिपराजयः, आदित्यतेजसा वा चन्द्रग्रहनक्षत्राऽऽदितेजोऽभिभवः, भावाभिभवस्तुपरीषहोपसर्गानीकज्ञानदर्शनाऽऽवरणमोहान्तरायकर्मनिर्दलनं, परीषहोपसर्गाऽऽदिसेनाविजयाद्विमलं चरणं, चरणशुद्धेर्शानाऽऽवरणाऽऽदिकर्मक्षयः, तत् क्षयान्निरावरणमप्रतिहतमशेषज्ञेयग्राहि के वलज्ञानमुपजायते / इदमुक्तम्भवति परीषहोपसर्गज्ञानदर्शनाऽऽवरणीयमोहान्तरायाण्यभिभूय केवलमुत्पाद्य तैरुपलब्धमिति। यथाभूतैस्तैरिदमुपलब्धं तद्दर्शयतिसंजएहिं सया जत्तेहिं सया अप्पमत्तेहिं / / 33 / / सम्यग्यताः संयताः प्राणातिपाताऽऽदिभ्यस्तैः, तथा सदासर्वकालं चरणप्रतिपत्तौमूलोत्तरगुणभेदायां निरतिधारत्वाद्यत्नवन्तस्तैः, तथा सदा सर्वकालं न विद्यते प्रमादो मद्यविषयकषायविकथानिद्राऽऽख्यो येषां ते प्रमत्ताः, तैरवभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रम्, अशस्त्रं च संयमो दृष्ट