________________ तेउक्काइय 2344 - अभिधानराजेन्द्रः - भाग 4 तेउक्काइय रसस्पर्शाऽऽदेशैःसहस्राग्रशो भिद्यमानाः सङ्ख्येययोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति / तत्रैषां संवृता योनिरूषण। च सचित्ताऽचित्तमिश्रभेदात् त्रिधा। सप्त चैषां योनिलक्षाभवन्ति / / 11 / / साम्प्रतं चशब्दसमुचित लक्षणद्वारमाहजह देहप्परिणामो, रत्तिं खज्जोयगस्स सा उवमा। जरियस्स य जह उम्हा, तह उवमा तेउजीवाणं / / 116 // (जहेत्यादि) यथेतिदृष्टान्तोपन्यासार्थः / देहपरिणामः प्रतिविशिष्टा शरीरशक्तिः, रात्राविति विशिष्टकालनिर्देशः / खद्योतक इति प्राणिविशेषपरिग्रहः / यथा तस्याऽसौ देहपरिणामो जीवप्रयोगनिवृत्तशक्तिराविश्वकास्ति, एवमङ्गाराऽऽदीनामपिप्रतिविशिष्टा प्रकाशाऽऽदिशक्तिरनुमीयते जीवप्रयोगविशेषाऽऽविर्भावितेति / यथा वाज्वरोष्मा जीवप्रयोग नातिवर्त्तते, जीवधिष्ठितशरीरकानुपात्येव भवति, एषेवोपमाऽ5यजन्तुनाम्, न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता / संप्रति प्रयोगमारोप्यतेऽयमेवाऽर्थः-जीवशरीराण्यङ्गाराऽऽदयः, छेद्यत्वाऽऽदिहेतुगणान्वितत्वात्, सास्नाविषाणाऽऽदिसघातवत्, तथा आत्मसंयोगाऽऽविर्भूतोऽङ्गाराऽऽदीनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतकदेहपरिणामवत्, तथा-आत्मसंप्रयोगपूर्वकोऽङ्गाराऽऽदीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्मवत् / न चाऽऽदित्याऽऽदिभिरनेकान्तः / सर्वेषामात्मप्रयोगपूर्वक यत उष्णपरिणामभाक्त्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, यथायोग्याऽऽहारोपादानेन वृद्धिविशेषतद्विकारवचात, पुरुषवत्। एवमादिना लक्षणेनाऽऽग्नेया जन्तवोऽवसेयाः।।११६।। इत्युक्तं लक्षणद्वारम्। अथ परिमाणद्वारमाहजे बायरपज्जत्ता, पलियस्स असंखभागमेत्ता उ। सेसा तिण्णि वि रासी, वीसुं लोगा असंखेज्जा / / 120 / / (जे बायरेत्यादि) ये बादरपर्याप्ताऽनलजीवाः क्षेत्रपल्योपमारा - ख्येयभागमात्रवर्त्तिप्रदेशराशिपरिमाणा भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसंख्येयगुणहीनाः, शेषास्त्रयोऽपिराशयः पृथ्वीकायद्भावनीयाः। किंतु बादरपृथिवीकायापर्याप्तकेभ्यो बादराऽऽग्रेयपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माऽऽग्रेयापर्याप्तका विशेषहीनाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माऽऽग्नेयपर्याप्तका विशेषहीना इति / / 120|| साम्प्रतमुपभोगद्वारमाहदहणे पयावणपगा-सणे य सेए य भत्तकरणे य। बायरतेउक्काए, उवभोगगुणा मणुस्साणं / / 121 / / (दहणेत्यादि) दहनं-शरीराऽऽद्यवयवस्य वाताऽऽद्यपनयनार्थ प्रकृष्ट तापन प्रतापनशीतापनोदाय, प्रकाशकरणमुद्द्योतकरणंप्रदीयाऽऽदिना, भक्तकरणमोदनाऽऽदिरन्धनम्, स्वेदोज्वरविशूचिकाऽऽदीनाम्। इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति।।१२१|| तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो | यत्याभासा वा सुखैषिणस्तेजसकायजन्तून हिंसन्तीति दर्शयितुमाह एएहिं कारणेहिं, हिंसति उ तेउकाइए जीवे। सायं गवेसमाणा, परस्स दुक्खं उदीरंति॥१२२|| (एएहि इत्यादि) एतैर्दहमाऽऽदिभिः कारणैस्तेजस्कायिकान् जीवान् हिंसन्तीति संघटनप रितापनाऽपद्रावणानि कुर्वन्ति, सात सुख तदात्मनोऽन्विष्यन्तः परस्य बादराग्निकायस्य, दुःखमुदीरयन्त्युत्पादयन्तीति / / 12 / / साम्प्रतं शस्त्रद्वारम्, तब द्रव्यभावशस्त्रभेदात् द्विधा, द्रव्यशस्वमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाऽऽहपुढवी आउक्काए, उल्ला य वणस्सई तसा पाणा। बायरतेउकाए, एयं तु समासओ सत्थं // 123 / / पृथिवी धूलिः, अप कायश्च आर्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः, एतद् बादरतेजस्कायजन्तूनां समासतः सामान्येन शस्त्रमिति॥१२३।। विभागतो द्रव्यशस्त्रमाहकिंची सकायसत्थं, किंची परकाएँ तदुभयं किंची। एयं तु दव्वसत्थं , भावे य असंजमो सत्थं // 124|| (किंचीत्यादि) किश्चिच्छस्त्रं स्वकाय एव अनिकाय एवाग्निकायस्य। तद्यथा-तार्णोऽग्निः पारणाग्नेः शस्त्रमिति / किञ्चिच्चपरकायशस्त्रमुदकाऽऽदि। उभयशस्त्र पुनस्तुपकरीषाऽऽदिव्यतिमिश्रोऽग्निरपराग्नेः / तुशब्दो भावशरस्त्रापेक्षया विशेषणार्थ: / एतत्तु पूर्वोक्त समास विभागरूप पृथवीस्वकायाऽऽदिद्रव्यशस्वनिति। भावशस्त्रं दर्शयतिभावे शस्त्रमसंयमो दुःप्रणिहितमनोवाकायलक्षण इति // 124 / / अथोपसंहारमाहसेसाई दाराई, ताई जाइं हवंति पुढवीए। एवं तेउद्देसे, निजुत्ती कित्तिया एसा।।१२५।। (रोसाणीत्यादि) उक्तशेषाणि द्वाराणि तान्येव, यानि पृथिव्युद्देशकेऽभिहितानि / एवमुक्तप्रकारेण, तेजस्कायाभिधानोद्देशके नियुक्तिः कीर्तिता व्यावर्णिता भवतीति / / 125 / / साम्प्रतं सूत्रानुगमे स्खलिताऽऽदिगुणोपेतं सूत्रमुच्चार ___णीयम्। तचेदम्से बेमि णेव सयं लोगं अब्भाइक्खेज्जा, णेव अत्ताणं अब्माइक्खेज्जा, जे लोयं अब्भाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खइ / / 31 / / (से बेमीत्यादि) अस्य च संबन्धः प्राग्यद्वाच्य इति। येन मया सामान्याऽऽत्मपदार्थपृथिव्यप्कायजीवप्रविभागव्यावर्णनमकारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्तेजोजीवस्वरूपोपलम्भसमुपजनितजिनवचनसमदो ब्रवीमि। किं पुनस्तदिति दर्शयति-(नैवेत्यादि) इह हि प्रकरणसंबन्धाल्लोकशब्देनाग्निकायलोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव स्वयमात्मनाऽभ्याचक्षीत, नैवापहनुवीतेत्यर्थः / एतदभ्याख्याने ह्यात्मनोऽपि ज्ञानाऽऽदिगुणकलापानुमितस्याभ्याख्यानमवाप्नोति। अथ च प्राक् साधितत्वादभ्याख्यानं नैवाऽऽत्मनो न्याय्यम, एवं तेजस्कायस्थापि प्रसाधित्वात् अभ्याख्यानं क्रियमाणं न युक्तिपथम